| YouTube Channel

परतोग्राह्म (paratogrAhma)

 
वाचस्पत्यम्
Sanskrit
परतोग्राह्म
अव्य०
परस्यात् ग्राह्मः स्वभिल्लसामग्रीतो बोर्ध्येप्रमाणस्याप्रमाणत्वादौ तयोः कस्य स्वतोग्राह्यता कस्य वापरतो ग्राह्यता तदेतन्मतभेदेन सर्वदर्शनसंग्रहे दर्शितम्“प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः ।नैयायिकास्ते परतः, सौगताश्चरमं स्वतः प्रथमं परतःप्राहुः प्रमाण्यं, वेदवादिनः प्रमाणत्वं स्वतः प्राहुः, परतश्चाप्रमाणताम्” इति “वादिविवाददर्शनात् कख-ङ्कारं वेदानां धर्मे स्वतःप्रामाण्यमिति सिद्धवत्कृत्य स्वीक्रि-यते किञ्च किमिदं स्वतः प्रामाण्यं नाम? किं स्वतएव प्रामाण्यस्य जन्म? आहोस्वित् स्वाश्रयज्ञागजन्य-त्वम्? किमुत स्वाश्रयज्ञानसामग्रीजन्यत्वम्? उताहोज्ञानसामग्रीजन्यज्ञानविशेषाश्रितत्वम्? किं वा ज्ञानसा-मग्रीमात्रजन्यज्ञानविशेषाश्रितत्वम्? तत्राद्यः सावद्यः-कार्प्यकारणभावस्य भेटसमानाधिकरणत्वेनैकस्मिन्नस-म्भवात्, नापि द्वितीयः गुणस्य सुतो ज्ञानस्य प्रामाण्यंप्रति समवायिकारणतया द्रव्यत्वापातात् नापि तृवीयःप्रामाण्यस्योवाधित्वे जातित्वे वा जन्मायोगात्, स्मृति-त्वानधिकरणस्यज्ञानस्य बाधात्यन्ताभावः प्रामाण्यीपाधिःन तस्वोत्पत्तिसम्भवः अत्यन्ताभावस्य नित्यत्वाभ्युप-गमादत एव जातेरपि जनिर्युज्यते नापि चतुर्थःज्ञानविशेषो ह्यप्रमा विशेषसामग्र्याञ्च सामान्यसामग्रीअनुपविशति शंशपासामग्र्यामिव वृक्षसामग्री, अपरथातस्याकस्मिकत्वं पसजेत् तस्मात् परतस्त्वेन स्वीकृतंपामाण्यं विज्ञानसामग्रीजन्याश्रितमित्यतिव्याप्तिरापद्येत ।पञ्चमविकल्पं विकल्पयामः किं दोषाभावसहकृतज्ञान-श्चामपीजन्यत्वमेव ज्ञानसामग्रीमात्रजन्यत्वं, किं दोषा-भावासहकृतज्ञानसामग्रीजन्यत्वं, नाद्यः दोषाभावसह-कृतज्ञानसामग्रीजन्यत्वमेव परतः प्रामाण्यमिति परतःपामाण्यवादि भरुररीकरणात् नापि द्वितीयः, दोषा-भावमहकृतत्वेन सामग्र्यां सहकृतत्वे सिद्धे अनन्यथा-सिद्धान्वयव्यतिरेकसिद्धतया दोषाभावस्य कारणतायावज्रलेपायमानत्वात् अभावः कारणमेव भवतीति चेत्तदा वक्तव्यम् अभावत्वे कार्य्यत्वमस्ति वा यदि नास्तितदा पटप्रध्वंसानुपपत्त्या नित्यताप्रसङ्गः अथास्ति कि-ग्रपराद्धं कारणत्वेनेति सेयमुभयतःपाशा रज्ज्वुः तदु-दितमुदयनेन “भावो यथा तथाऽभावः कारणं कार्य्यवन्मतम्” इति तथाच प्रयोगः विमता प्रमा ज्ञान-हेत्वतिरिक्तहेत्वधीना कार्य्यत्वे सति तद्विशेषत्वात्अप्रमावत् प्रामाण्यं परतो ज्ञायते अनभ्यासदशायांसांशयिकत्वात् अप्रामाण्यवत् तस्मादुत्पत्तौ ज्ञप्तौ चपरतस्त्वे प्रमाणसम्भवात् स्वतः सिद्धं प्रामाण्यमित्येतत्पूतिकुष्माण्डायत इति चेत् तदेतदाकाशमुष्टिहननायते ।विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्र-मायाः स्वतस्त्वमिति निरुक्तिसम्भवात् अस्ति चात्रानु-मानं विमता प्रमा विज्ञानसामग्रीजन्यत्वे सति तदति-रिक्तजन्या भवति अप्रमात्वानधिकरणत्वात् थटादि-वत् चौदयनमनुमानं परतस्त्वसाधकमिति शङ्कनीयंप्रमा दोषव्यतिरिक्तज्ञानहेत्वतिरिक्तजन्या भयति ज्ञान-त्वादप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात् ज्ञानसामग्री-मात्रादेव प्रमोत्पत्तिसम्भवे तदतिरिक्तस्य गुणस्य दोषा-भावस्य वा कारणत्वकल्पनायां कल्पनागौ रवप्रसङ्गाच्च ।ननु दोषस्याप्रमाहेतुत्वेन तदभावस्य प्रमां प्रति हेतुत्वदुर्निवारमिति चेत् दोषाभावस्याप्रमाप्रतिबन्धकत्वेना-न्यथासिद्धत्वात् “तस्माद्गुणेभ्यो दोषाणामभाव-स्तदभावतः अप्रमाण्यद्वयासत्त्वं तेनोत्सर्गो नयो-दितः” इति तथा प्रमाज्ञप्तिरपि ज्ञानज्ञापकसामग्रीतएव जायते संशयानुदयप्रसङ्गो बाधक इति युक्तंवक्तुं सत्य प्रतिभासपुष्कलकारणे प्रतिबन्धकदोषादि-समवधानात् तदुपपत्तेः किञ्च तावकमनुमानं स्वतःप्रमाणं वा आद्ये अनैकान्तिकता द्वितीये तस्यापिपरतः प्रामाण्यमेवं तस्य तस्यापीत्यनवस्था दुरवस्थास्यात् यदत्र कुसुमाञ्जलावुदयनेन झटिति प्रचुर-प्रवृत्तेः प्रामाण्यनिश्चयाधीनत्वाभावमापादयता प्रण्य-यादि प्रवृत्तिर्हीश्चामपेक्षते तत्प्राचुर्य्ये चेच्छाप्राचुर्य्यम्इच्छा चेष्टसाधनताज्ञानं तच्चेष्टजातीयत्वलिङ्गानुभवंसोऽपीन्द्रियार्थसन्निकर्षं प्रामाण्यग्रहस्तु क्वचिदुप-युज्यत इति तदपि तस्करस्य पुरस्तात् कक्षे सुवर्णमुपेत्यसर्वाङ्गोद्घाटनमिव पतिभाति अतः समीहितसाधनज्ञा-नमेव प्रमाणतयावगम्यमानमिच्छां जनयतीत्यत्रैव स्फुटएव प्रामाण्यग्रहणस्योपयोगः किञ्च क्वचिदपि चेन्नि-र्विचिकित्सा प्रवृत्तिः संशयादुपपद्येत तर्हि सर्वत्र तथामा-वसम्भवात् प्रामाण्यनिश्चयो निरर्थकः स्यात् अनिश्चितस्यसत्त्वमेव दुर्लभमिति प्रामाण्यं दत्तजलाञ्जलिकं भवेत्”