| YouTube Channel

परक्षेत्रं (parakSetraM)

 
शब्दकल्पद्रुमः
Sanskrit
परक्षेत्रं,
क्ली,
(परस्य क्षेत्रं पत्न्यादि ।) परपत्नी ।(यथा, मनुः १७५ ।“तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह ।दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम्
”)परशरीरम् परभूमिः यथा, --“वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ।”इति चन्द्रालोकः
(तथा मनुः ३४१ ।“द्विजोऽध्वगः क्षीणवृत्तिर्द्बाविक्षू द्वे मूलके ।आददानः परक्षेत्रान्न दण्डं दातुमर्हति
”)