| YouTube Channel

परकीया (parakIyA)

 
Monier Williams Cologne
English
परकीया
f.
an°'s wife or a woman dependent on others (-त्व
n.
),
Sāh.
Apte Hindi
Hindi
परकीया
स्त्री*
- -
"दूसरे की पत्नी, जो अपनी हो, नायिकाओं के तीन मुख्य प्रकारों में से एक"
Shabdartha Kaustubha
Kannada
परकीया
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಾಯಿಕೆಯಲ್ಲಿ ಒಂದು ಭೇದ/ಅನ್ಯಸ್ತ್ರೀ/ಪರಪುರುಷನಲ್ಲಿ ಅನುರಕ್ತಳಾಗಿ ಅದನ್ನು ಹೊರಗೆ ತೋರಿಸಿಕೊಳ್ಳದಿರುವ ಹೆಂಗುಸು
L R Vaidya
English
parakIya {% a. (f. या) %} Belonging to another, यद्यपि कापि हानिः परकीयां चरति रासभे द्राक्षाम् Ud.
parakIyA {% f. %} A woman not one’s own (in poetic composition). For further information, See अन्यस्त्री.
शब्दकल्पद्रुमः
Sanskrit
परकीया,
स्त्री,
(परकीय + टाप् ।) नायिका-भेदः अस्या लक्षणं यथा अप्रकटपर-पुरुषानुरागा सा द्विविधा परोढा १कन्यका कन्यायाः पित्राद्यधीनतयापरकीयत्वम् अस्या गुप्तैव सकला चेष्टा
*
परोढा यथा, --“अयं रेवाकुञ्जः कुसुमशरसेवासमुचितःसमीरोऽयं वेलादरविलसदेलापरिमलः ।इयं प्रावृड्धन्या नवजलदविन्यासचतुरापराधीनं चेतः सखि ! किमपि कर्त्तुं मृगयते
*गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृ-तीनां परकीयायां एवान्तर्भावः गुप्तात्रिविधा वृत्तसुरतगोपना वर्त्तिष्यमाण-सुरतगोपना वर्त्तमानसुरतगोपना ।त्रिविधा यथा, --“श्वश्रूः क्रुध्यतु विद्बिषन्तु सुहृदो निन्दन्तु वा यातर-स्तस्मिन् किन्तु मन्दिरे सखि ! पुनः स्वापोविधेयो मया ।आखोराक्रमणाय कोणकुहरादुत्फालमातन्वतीमार्ज्जारी नखरैः खरैः कृतवती कां कां मेदुर्द्दशाम्
*
विदग्धा द्विविधा वाग्विदग्धा क्रियाविदग्धाचेति प्रथमा, --“निविडतमतमालमल्लिवल्ली-विचकिलराजिविराजितोपकण्ठे ।पथिकसमुचितस्तवाद्यतीव्रेसवितरि तत्र सरित्तटे निवासः
”द्वितीया यथा, --“दासाय भवननाथे वदरीमपनेतुमादिशति ।हेमन्ते हरिणाक्षी पयसि कुठारं विनिक्षि-पति
*
लक्षिता यथा, --“यद्भूतं तद्भूतं यद्भूयात्तदपि वा भूयात् ।यद्भवतु तद्भवतु वा विफलस्तव गोपनायासः
*कुलटा यथा, --“एते वारिकणान् किरन्ति पुरुषान् वर्षन्तिनाम्भोधराःशैलाः शाद्बलमुद्बमन्ति सृजन्त्येते पुनर्नाय-कान् ।त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान्धातः ! कातरमालपामि कुलटाहेतोस्त्वया किंकृतम्
”अपि ।“पृथ्वी तावत्त्रिकोणा विपुलनदनदीग्रावरुद्धंतदर्द्धंतस्यामेवास्ति शैलो विपिनमपि तथा क्षेत्र-कासारकूपाः ।लोकानामर्द्धनारी शिशुरपि जरसः कोऽपिरोगी विवेकीमिथ्यावादो ममायं मुखरमुखवरः पुंश्चलीपुंञ्चलीति
*
अनुशयाना त्रिविधा ।वर्त्तमानस्थानविघट्टनेन भाविस्थानाभावशङ्कयास्वानधिष्ठितसङ्केतस्थले भत्तगमनानुमानेन प्रत्येकंउदाहरणानि ।“समुपागतवति चैत्रे निपतति पत्रे लवङ्गलति-कायाः ।सुदृशः कपोलपाली शिव शिव तालीदलद्युतिंलेभे
*
“निद्रालुकेकिमिथुनानि कपोतपोत-व्याधूतनूतनमहीरुहपल्लवानि ।तत्रापि तन्वि ! वनानि कियन्ति सन्तिखिद्यस्व प्रियतमस्य गृहं प्रयाहि
कर्णकल्पितरसालमञ्जरी-पिञ्जरीकृतकपोलमण्डलः ।निष्पतन्नयनवारिधारयाराधया मधुरिपुर्निरीक्ष्यते
*
मुदिता यथा, --“गोष्ठेषु तिष्ठति पतिर्वधिरा ननन्दानेत्रद्बयस्य पाटवमस्ति यातुः ।इत्थं निगद्य सुतनुः कुचकुम्भसीम्निरोमाञ्चकञ्चुकमुदञ्चितमाततान
*
कन्यका यथा, --‘किञ्चित्कुञ्चितहारयष्टिसरलभ्रूवल्लिसाचिस्मितंप्रान्तभ्रान्तविलोचनद्युतिभुजा पर्य्यस्तकर्णोत्-पलम् ।अङ्गुल्या स्फुरदङ्गुलीयकरुचा कर्णस्य कण्डूयनंकुर्व्वाणा नृपकन्यका सुकृतिनं सव्याजमालो-कते
”इति रतिमञ्जरी