| YouTube Channel

परं (paraM)

 
Hindi
Hindi
बेहतर
शब्दकल्पद्रुमः
Sanskrit
परं,
क्ली,
(पॄ + “ऋदोरप् ।” ५७ ।इति अप् ।) केवलम् इति मेदिनी
मोक्षः ।यथा कैवल्यममृतं परम् इति मुक्तिपर्य्यायेरत्नावली
(ब्रह्म ब्रह्मा यदुक्तं श्रुतौ ।“द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव
”विष्णुः यथा, महाभारते १३ १४९ २० ।“प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम्
”ब्रह्मण आयुः यथा, मार्कण्डेये ४६ ४२ ।“एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत् ।शतं हि तस्य वर्षाणां परमित्यभिधीयते ।पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते
”)
परं, [म्]
व्य,
नियोगः क्षेपः इति मेदिनी
कृदन्तरूपमाला
Sanskrit
1 {@“कखे हसने”@} 2 काखकः-खिका, चिकखिषकः-षिका, चाकखकः-खिका, इत्यादीनि रूपाणि क्रमेण शुद्धात्-सन्नन्तात् यङन्ताच्च, पूर्वोक्तकख 3 धातुवत् ज्ञेयानि।
ण्यन्ते परं घटादिपाठात् ‘घटादयो मितः’ 4 इति मित्त्वे, ‘मितां हस्वः’ 5 इति ह्रस्वे इमानि रूपाणि-- कखकः-खिका, कख्यमानः
कखयिता-त्री, कखः
कखयन्-न्ती, कखयितुम्
कखयिष्यन्-न्ती-ती, कखना
कखयमानः, कखनम्
कखयिष्यमाणः, कखयित्वा
कखः, चिकखयिषुः, 6 प्रकखय्य
कखयितव्यम्, 7 कखम्
कखनीयम्, काखम्
कख्यम्, कखयित्वा २। ईषत्कखः-दुष्कखः-सुकखः, इति विशेषः।
8
प्रासङ्गिक्यः
01
=>
(१४२)
02
=>
(१-भ्वादिः-७८४। अक। सेट्। पर। घटादिः।)
03
=>
(१४१)
04
=>
(गणसूत्रम्-भ्वादौ)
05
=>
(६-४-९२)
06
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
07
=>
[[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
08
=>
[पृष्ठम्०१४३+ २५]
1 {@“पन स्तुतौ”@} 2 3 क्षीरतरङ्गिण्यां ‘पनायते हरिम्।’ इत्यात्मनेपदमायप्रत्ययान्तात् निरुच्य, तस्य साधकत्वेन, “अत्र, ‘अवयवेऽपि कृतं लिङ्गं समुदायस्य विशेषकं भवति।’ 4 इत्यायव्यवधानेऽपि आत्मनेपदम्।’ इत्युक्तम्।
परं तु-- पनायतेरार्धधातुके आयप्रत्ययाभावपक्षेऽनुदात्तेत्त्वस्य चरितार्थत्वात् आत्मनेपदं चिन्त्यम्।]] पनायकः-पानकः-निका, पनायकः-पानकः, पिपनायिषकः-पिपनिषकः-षिका, पंपनकः-पम्पनकः-निका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपणायतिवत् 5 ज्ञेयानि।
6 असच्प्रत्यये रूपम्।
पनसः = फलवृक्षविशेषः।]] पनसः।
7 पनितम्।
8
प्रासङ्गिक्यः
01
=>
(९७४)
02
=>
(१-भ्वादिः-४४०। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(भाष्यम्-३-१-५)
05
=>
(९६४)
06
=>
[[४। औणादिके [द। उ। ९। ४४]
07
=>
[[आ। ‘पणाय्यरूपा पनिताकूतीन् ययुर्भामिन्य एवाक्षमया स्वकामुकान्।’ धा। का। १। ५७।]]
08
=>
[पृष्ठम्०८४८+ २९]
1 {@“भस भर्त्सनदीप्त्योः”@} 2 छान्दसः।
3 धातुपाठेषु सर्वत्र ‘--भर्त्सनदीप्त्योः’ इत्येवास्य धातोरर्थनिर्देशो दृश्यते।
परं तु निरुक्ते 4 ‘बभस्तिरत्तिकर्मा।’ इत्युक्तत्वात्
तथा, ‘हरी इवान्धांसि बप्सता।’ 5 इत्यत्र यास्केन ‘हरी इवान्नानि भुञ्जाने।’ इति व्याख्यानात्, सायणभाष्येऽपि ‘भस भक्षणदीप्त्योः।’ इत्येवात्र 6 धातुस्वरूपोपादानाच्च ‘भक्षणदीप्त्योः’ इत्येव पाठः प्रामाणिक इति, भर्त्सन-भक्षणशब्दयोः प्रायस्तुल्यश्रुत्या पाठभेद इति वा प्रतिभाति।]] 7 भासकः-सिका, भासकः-सिका, बिभसिषकः-षिका, बाभसकः-सिका
भसिता-त्री, भासयिता-त्री, बिभसिषिता-त्री, बाभसिता-त्री
8 बप्सत्-बप्सतौ-बप्सतः, 9 भासयन्-न्ती-ती, बिभसिषन्-न्ती-ती
-- भसिष्यन्-न्ती-ती, भासयिष्यन्-न्ती-ती, बिभसिषिष्यन्-न्ती-ती
-- इत्यादीनि सर्वाण्यपि रूपाणि आदादिककशतिवत् 10 ज्ञेयानि।
11 नभः, 12 भस्म, 13 भस्त्रम्, 14 भसत् इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११५२)
02
=>
(३-जुहोत्यादिः-११००। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(५-४६)
05
=>
(ऋ। वे। १-६-२८-७)
06
=>
(ऋ। वे। १-६-२८-७)
07
=>
[पृष्ठम्०९४६+ २६]
08
=>
[[१। शतरि, शपि, तस्य ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘घसिभसोर्हलि च’ (६-४-१००) इति उपधा- ऽकारलोपः। ‘खरि च’ (८-४-५५) इति भकारस्य चर्त्वेन पकारः। अभ्यासे हलादिशेषजश्त्वादिकम्।]]
09
=>
[[२। भक्षणार्थकत्वे, ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तात् कर्तृगामिन्यपि क्रियाफले परस्मैपदमेव। दीप्त्याद्यर्थकत्वे, छान्दसत्वात् दृष्टानुविध्याश्रयणे वा शानजन्तेऽपि भासयमानः इति रूपं साध्वेवेत्यपि बोध्यम्।]]
10
=>
(१७८)
11
=>
[[३। बभस्ति इति नभः = आकाशः। नञ्पूर्वादस्मात् ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति क्विपि सकारस्य रुत्वे विसर्गे रूपमिति आत्रेयादयः साधयन्तीति माधवधातुवृत्तौ दृश्यते। अत्र बाहुलकात् नञ्समासे नलोपाभाव इति बोध्यम्।]]
12
=>
[[४। भाषायामपि, ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्यये ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधे रूपमेवम्। ‘भूतेऽपि दृश्यन्ते’ (३-३-२) इति भूते- ऽयं प्रत्ययः। भसितम् = भस्म।]]
13
=>
[[५। ‘हुयामाश्रुभसिभ्यस्त्रन्’ (द। उ। ८-८४) इति त्रन्प्रत्यये रूपमेवम्। ‘तितुत्रत--’ (७-२-९) इतीण्निषेधः। बभस्तीति भस्त्रम् = चर्म, उदरं च।]]
14
=>
[[६। ‘शॄदॄभसोऽदिः’ (द। उ। ६-४२) इत्यदिप्रत्यये रूपमेवम्। बभस्ति, भस्यते वा तस्मिन् आहार इति भसत् = आमाशयस्थानम्।]]