| YouTube Channel

पयोव्रतः (payovrataH)

 
शब्दकल्पद्रुमः
Sanskrit
पयोव्रतः,
पुं,
(पयोमात्रपानसाध्यो व्रतः ।) पयो-मात्रपानरूपव्रतविशेषः यथा, --“पुण्यां तिथिं समासाद्य युगमन्वन्तरादिकम् ।पयोव्रतस्त्रिरात्रं स्यादेकरात्रमथापि वा
”इति मात्स्ये १५२ अध्यायः
*
द्वादशाहसाध्यविष्णुव्रतविशेषः यथा, --कश्यप उवाच ।“एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः ।यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम्
फाल्गुनस्यामले पक्षे द्बादशाहं पयोव्रतः ।अर्च्चयेदरविन्दाक्षं भक्त्या परमयान्वितः
सिनीबाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया ।यदि लभ्येत वै स्रोतस्येतन्मन्त्रमुदीरयेत्
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता ।उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय
निर्व्वर्त्तितात्मनियमो देवमर्च्चेत् समाहितः ।अर्च्चायां स्थण्डिले सूर्य्ये जले वह्नौ गुरावपि
नमस्तुभ्यं भगवते पुरुषाय महीयसे ।सर्व्वभूतनिवासाय वासुदेवाय साक्षिणे
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय ।चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे
नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे ।सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः
नमः शिवाय रुद्राय नमः शक्तिधराय ।सर्व्वविद्याधिपतये भूतानां पतये नमः
नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।योगैश्वर्य्यशरीराय नमस्ते योगहेतवे
नमस्त आदिदेवाय साक्षिभूताय ते नमः ।नारायणाय ऋषये नराय हरये नमः
नमो मरकतश्यामवपुषेऽधिगतश्रिये ।केशवाय नमस्तुभ्यं नमस्ते पीतवाससे
त्वं सर्व्ववरदः पुंसां वरेण्य वरदर्षभ ! ।अतस्ते श्रेयसे धीराः पादरेणुमुपासते
अन्ववर्त्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः ।स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम्
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।अर्च्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः
अर्च्चित्वा गन्धमाल्याद्यैः पयसा स्नापयेद्बिभुम् ।वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः
गन्धधूपादिभिश्चार्च्चेद्द्बादशाक्षरविद्यया ।सृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति
ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया ।निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम्
दत्त्वाचमनमर्च्चित्वा ताम्बूलञ्च निवेदयेत् ।जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम्
कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा ।कृत्वा शिरसि तच्छेषं देवमुद्वासयेत्ततः
द्व्यवरान् भोजयेद्बिप्रान् पायसेन यथोचितम् ।भुञ्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः
ब्रह्मचार्य्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ।स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः
पयसा स्नापयित्वार्च्चेद्यावद्व्रतसमापनम् ।पयोभक्ष्यो व्रतमिदं चरेद्बिष्ण्वर्च्चनादृतः
पूर्व्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ।एवन्त्वहरहः कुर्य्याद्द्वादशाहं पयोव्रतम्
हरेराराधनं होममर्हणं द्बिजतर्पणम् ।प्रतिपद्दिनमारभ्य यावत् शुक्लत्रयोदशीम्
ब्रह्मचर्य्यमधःस्वप्नं स्नानं त्रिसवनञ्चरेत् ।वर्ज्जयेदसदालापं भोगानुच्चावचांस्तथा
अहिंस्रः सर्व्वभूतानां वासुदेवपरायणः ।त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः ।पूजाञ्च महतीं कुर्य्याद्वित्तशाठ्यविवर्ज्जितः
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ।सूक्तेन तेन पुरुषं यजेत सुसमाहितः
नैवेद्यञ्चातिगुणवद्दद्यात् पुरुषतुष्टिदम् ।आचार्य्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः
तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः ।भोजयेत्तान् गुणवता सदन्नेन शुचिस्मिते
अन्यांञ्च ब्राह्मणान् शक्त्या ये तत्र समागताः ।दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः
अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् ।भुक्तवत्स्वथ सर्व्वेषु दीनान्धकृपणेषु
विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ।नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचनैः
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ।एतत् पयोव्रतं नाम पुरुषाराधनं परम्
पितामहेनाभिहितं मया ते समुदाहृतम् ।त्वञ्चानेन महाभागे ! सम्यक् चीर्णेन केशवम्
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ।अयं वै सर्व्वयज्ञाख्यः सर्व्वव्रतमिति स्मृतम्
तपःसारमिदं भद्रे दानञ्चेश्वरतर्पणम् ।त एव नियमाः साक्षात्त एव यमोत्तमाः
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ।तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर
भगवान् परितुष्टस्ते वरानाशु विधास्यति
”इति श्रीभागवते स्कन्धे १६ आध्यायः