| YouTube Channel

पयोनिधिः (payonidhiH)

 
शब्दकल्पद्रुमः
Sanskrit
पयोनिधिः,
पुं,
(पयांसि निधीयन्तेऽस्मिन् धाधारणे + अधिकरणे किः ।) समुद्रः यथा, --“न गणितं यदि जन्म पयोनिधौहरशिरःस्थितिभूरपि विस्मृता ।”इति नैषधे ५०
(पय इव शुक्लः सत्त्व-गुणः निधीयतेऽत्र इति विग्रहे शिवः यथा, महाभारते १३ १७ ८७ ।“लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः
”)