पन्थाः (panthAH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit मार्गः, पन्थाः, अयनम्, वर्त्म, सृतिः, पद्या, वर्तनिः, शरणिः, पद्धती, वर्तनिः, अध्वा, वीथिः, सरणिः, पद्धतिः, पदविः, पदवी, पद्वा, पित्सलम्, प्रचरः, प्रपथः, माचः, माथः, मारुण्डः, रन्तुः, वहः, प्रपाथ पेण्डः, अमनिः, इतम्, एमा, एवा, गन्तुः
येन गत्वा गन्तव्यं प्राप्यते।
"विमानस्यापि विशिष्टः मार्गः अस्ति।"
मार्गः, पथः, पन्थाः, अध्वा, वर्त्म, वर्त्मनी, वर्त्मनिः, अयनम्, वर्त्तनम्, वर्त्तनी, वर्त्तनिः, सरणी, सरणिः, पदवी, पद्धतिः, पद्धती, पद्या, पद्वा, पदविः, सृतिः, सञ्चरः, पद्वः, उपनिष्क्रमणम्, एकपदी, एकपाद्, तरः, वीथिः, शरणिः, एकपदी, एकपाद्, तरः, वीथिः, माचः, माठः, माठ्यः, प्रपाथः, पित्सलम्, खुल्लमः
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
"मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते। "
शब्दकल्पद्रुमः
Sanskritपन्थाः, [इन्] पतन्ति यान्त्यनेन । (पत ऌगतौ + “पतस्थ च ।” उणां । ४ । १२ । इतिइनिः थश्चान्तादेशः ।) रथ्या । रास्ता इतिभाषा ॥
(यथा, मनुः । ४ । ४५ ।“न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे ॥
”)तत्पर्य्यायः । अयनम् २ वर्त्म ३ मार्गः ४अध्वा ५ पदवी ६ सृतिः ७ सरणिः ८ पद्धतिः ९पद्या १० वर्त्तनी ११ एकपदी १२ । इत्यमरः ।२ । १ । १५ ॥
पथः १३ पदविः १४ पदवी १५ सरणी१६ शरणिः १७ पद्धती १८ वर्त्तनिः १९ । इतिभरतः ॥
शरणी २० वाटः २१ धर्म्मवर्त्तनम् २२माथः २३ विवधः २४ वीवधः २५ । इति शब्द-रत्नावली ॥
* ॥
तस्य लक्षणम् ।“त्रिंशद्धनूषि विस्तीर्णो देशमार्गस्तु तैः कृतः ।विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥
धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ।नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥
धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ।त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥
जङ्घापथश्चतुष्पादस्त्रिपादस्य गृहान्तरम् ।वृतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥
अवकरः परीवारः पादमात्रः समन्ततः ॥
”इति देवीपुराणे गोपुरद्वारलक्षणाध्यायः ॥
* ॥
चतुष्पथलक्षणादि यथा, --“एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे ।तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरीम् ॥
चतुष्पथन्तु तत् प्रोक्तं त्रिकोणं यत्र वर्त्तते ॥
”इति नीलतन्त्रम् ॥
* ॥
पथगमनगुणाः“अध्वा मेदःकफस्थौल्यसौकुमार्य्यविनाशनः ।यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् ॥
”तदायुर्बलमेधाग्निप्रदमिन्द्रियशोधनम् ॥
”इति राजवल्लभः ॥
* ॥
ब्राह्मणादिभ्यः पथावकाशो देयो यथा, --“पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ।वृद्धाय भारयुक्ताय रोगिणे दुर्ब्बलाय च ॥
”इति कौर्म्मे उपविभागे ११ अध्यायः ॥
* ॥
गोपथदानफलं यथा, --“गोमार्गस्य तथा कर्त्ता गोलोके क्रीडते चिरम् ।”इति प्रतिष्ठातत्त्वे हयशीर्षपञ्चरात्रम् ॥
* ॥
अस्याचारादावुपचारो यथा, --“तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नानैको मुनिर्यस्य मतं प्रमाणम् ।धर्म्मस्य तत्त्वं निहितं गुहायांमहाजनो येन गतः स पन्थाः ॥
”इति महाभारते । ३ । ३१२ । ११२ । धर्म्मवकप्रश्नेयुधिष्ठिरोत्तरम् ॥
* ॥
नरकविशेषः । यत्रा-टाट्यते । इति मनौ ४ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
