| YouTube Channel

पद्यं (padyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पद्यं,
क्ली,
(पदं चरणमर्हतीति पद + यत् ।)कविकृतिः श्लोकः इत्यमरः ३१
तस्य लक्षणं यथा, छन्दोमञ्जर्य्याम् ।“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत्
”(तत्तु अन्वयगतिवशात् मुक्तकयुग्मकसन्दानितक-कलापककुलकभेदात् पञ्चविधम् यदुक्तं साहित्य-दर्पणे २८७ ।“छन्दोबद्धपदं पद्यं तेनैकेन मुक्तकम् ।द्बाभ्यान्तु युग्मकं सन्दानितकं त्रिभिरिष्यते
कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम्
”“तदूर्द्ध्वं कुलकं स्मृतम् ।” इति क्वचित् पाठः
)शाठ्यम् इति जटाधरः
(“पदमस्मिन्दृश्यम् ।” ८७ इति यत् नाति-शुष्ककर्द्दमः इति सिद्धान्तकौमुदी
)