| YouTube Channel

पद्मासनं (padmAsanaM)

 
शब्दकल्पद्रुमः
Sanskrit
पद्मासनं,
क्ली,
(पद्ममिव पद्माकारेण बद्धमित्यर्थः ।आसनम् ।) योगासनविशेषः यथा, --“वामोरूपरि दक्षिणं नियमतः संस्थाप्य वामंतथादक्षोरूपरि पश्चिमेन विधिना धृत्या कराभ्यांधृतम् ।अङ्गुष्ठं हृदये निधाय चिवुकं नासाग्रमालोकये-देतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते
”अन्यदत्रापि ।“वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामंतथा-प्यन्योरूपरि तस्य बन्धनविधौ धृत्वा कराभ्यांदृढम् ।अङ्गुष्ठं हृदये निधाय चिवुंकं नासाग्रमालोकये-देतद्व्याधिविनाशकारि यमिनां पद्मासनंप्रोच्यते
”इति गोरक्षसंहिता
(मत्स्येन्द्रनाथाभिमतं पद्मासनं यथा, हठयोग-दीपिकायाम् ४४-४७ ।“वामोरूपरिदक्षिणं चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन् विधिना धृत्वा कराम्यां दृढं ।अङ्गुष्ठौ हृदये निघाय चिवुकं नासाग्र-मालोकयेदेतद्व्याधिविनाशकारि यमिनांपद्मासनं प्रोच्यते
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततोदृशौ
नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया ।उत्तम्भ्य चिवुकं वक्षस्युत्थाप्य पवनं शनैः
इदं पद्मासनं प्रोक्तं सर्व्वव्याधिविनाशनम् ।दुर्लभं येन केनापि धीमता लभ्यते भुवि
”)पूजार्थं धातुमयपद्माकारासनञ्च ।(रतिविषयकपद्मासनम् यथा, रतिमञ्जर्य्याम् ४०“पद्मासनो नागपादो लतावेष्टोऽर्द्धसंपुटः
”तल्लक्षणं यथा, तत्रैव ४२ ।“हस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि ।रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः
”)