| YouTube Channel

पद्मवीज (padmavIja)

 
Yates
English
पद्म-वीज (जं) 1.
n.
The lotus seed.
Wilson
English
पद्मवीज
n.
(-जं) The seed of the lotus.
E.
पद्म a lotus, and वीज seed.
शब्दकल्पद्रुमः
Sanskrit
पद्मवीजं, क्लीं, (पद्मस्य वीजम् ।) कमलवीजम् ।तत्पर्य्यायः पद्माक्षम् गालोड्यम् कन्दली४ भेण्डा क्रौञ्चादनी क्रौञ्चा श्यामा ८पद्मपर्क्कटी अस्य गुणाः कटुत्वम् स्वादुत्वम् ।पित्तच्छर्द्दिदाहास्रशोषनाशित्वम् पाचनत्वम् ।रुचिकारित्वञ्च इति राजनिर्घण्टः
“पद्मवीजं हिमं स्वादु कषायं तिक्तकं गुरु ।विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम्
कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत्
”इति भावप्रकाशः
(पद्मबीजमालाजपेनाशु साधकः सिद्धिमाप्नुयात् ।इति तन्त्रशास्त्रे प्रसिद्धिः
तदुक्तं यथा, --“भक्त्या यो जपते नित्यं पद्मवीजैः सुदेशिकः ।अचिराल्लभते सिद्धिं सत्यं सत्यं संशयः
वाचस्पत्यम्
Sanskrit
पद्म(बी)वीज
न०
त० कमलवी(बी)जे पद्माक्षे राजनि०“पद्म(बी)वीजं हिमं स्वादु कषायं तिक्तकं गुरु वि-ष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम्” भावप्र०