| YouTube Channel

पद्मरागः (padmarAgaH)

 
Apte Hindi
Hindi
पद्मरागः
पुं*
पद्मम्-रागः -
"लाल, माणिक्य"
वैजयन्तीकोषः
Sanskrit
Word: पद्मरागः
Root: पद्मराग
Gender: पुं
Number: all
अर्थः पद्मरागमणिः
Meaning(s):
Ruby
Shloka(s):
3|2|39|1 शोणरत्नं लोहितकं पद्मरागोऽरुणोपलः। (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
3|2|39|1 शोणरत्नम् (शोणरत्न) (नपुं) Ruby पद्मरागमणिः
3|2|39|1 लोहितकम् (लोहितक) (नपुं) Ruby पद्मरागमणिः
3|2|39|1 पद्मरागः (पद्मराग) (पुं) Ruby पद्मरागमणिः
3|2|39|1 अरुणोपलः (अरुणोपल) (पुं) Ruby पद्मरागमणिः
Related word(s):
परा_अपरासंबन्धः रत्नम्
शब्दकल्पद्रुमः
Sanskrit
पद्मरागः,
पुं,
(पद्मस्येव रागो यस्य ।) रक्तवर्ण-मणिविशेषः माणिक इति भाषा तत्प-र्य्यायः शोणरत्नम् लोहितकः इत्य-मरः ९२
लोहितम् कुरुबिन्दकम् ।इति शब्दरत्नावली
(बृहत्संहितायां ८२अध्याये अस्य परीक्षादिकं यथा, --“सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः ।सौगन्धिकजा भ्रमराञ्जनाब्जजम्वूरसद्युतयः
कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभि-र्विद्धाः ।स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च
स्रिग्धः प्रभानुलेपो स्वच्छोऽर्च्चिष्मान् गुरुःसुसंस्थानः ।अन्तःप्रभोऽतिरागा मणिरत्नगुणाः समस्ता-नाम्
कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवःखण्डाः ।दुर्विद्धा मनोज्ञाः सशर्कराश्चेति मणिदोषाः
भ्रमरशिखिकण्ठवर्णादीपशिखासमप्रभो भुजङ्गानाम् ।भवति मणिः किल मूर्द्धनि योऽनर्घेयः विज्ञेयः
यस्तं बिभर्त्ति मनुजाधिपतिर्न तस्यदोषा भवन्ति विषरोगकृताः कदाचित् ।राष्ट्रे नित्यमभिवर्षति तस्य देवःशत्रूश्च नाशयति तस्य मणेः प्रभावात्
षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रमा-णस्य ।कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य
अर्द्धपलस्य द्वादशकर्षस्यैकस्य षट् सहस्राणि ।यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम्
माषकचतुष्टयं दशशतक्रयंद्वौ तु पञ्चशतमूल्यौ
परिकल्प्यमन्तरालेमूल्यं हीनाधिकगुणानाम्
वर्ण यूनस्यार्द्धं तेजोहीनस्य मूल्यमष्टांशः ।अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम्
आधूम्रं व्रणबहुलं स्वल्पगुणञ्चाप्नुयाद्द्विशत-भागम् ।इति पद्मरागमूल्यं पूर्व्वाचार्य्यैः समुद्दिष्टम्
”)राजनिर्घण्टोक्तपर्य्यायगुणौ माणिक्यशब्दे द्रष्टव्यौतस्य वर्णो यथा, --“सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् ।पीतं काणपुरोद्भूतं कुरुविन्दमिति स्मृतम्
अशोकपल्लवच्छायममुं सौगन्धिकं विदुः ।तुम्बुरे छायया नीलं नीलगन्धि प्रकीर्त्तितम्
उत्तमं सिंहलोद्भूतं निकृष्टं तुम्बुरोद्भवम् ।मध्यमं मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः
*
तथा ।बन्धूकगुञ्जासकलेन्द्रगोप-जवासनासृक्समवर्णशोभाः ।भ्राजिष्णवो दाडि मबीजवर्णा-स्तथापरे किंशुकपुष्पभासः
सिन्दूरपद्मोत्पलकुङ्कुमानांलाक्षारसस्यापि समानवर्णाः ।सान्द्रे निरागे प्रभया स्वयैवभान्ति स्वलक्ष्म्या स्फुटमध्यशोभाः
भानोश्च भासामनुवेधयोग-मासाद्य रश्मिप्रकरेण दूरम् ।पार्श्वानि सर्व्वाण्यनुरञ्जयन्तिगुणोपपन्नाः स्फटिकप्रसूताः
कुसुम्भनीलीव्यतिमिश्रराग-प्रत्यग्ररक्ताम्बरतुल्यभासः ।तथापरेऽरुष्करकण्टकारी-पुष्पत्विषो हिङ्गुलकत्विषोऽन्ये
चकोरपुंस्कोकिलसारसानांनेत्रावभासश्च भवन्ति केचित् ।अन्ये पुनर्नातिविपुष्पितानांतुल्यत्विषः कोकनदोदराणाम्
प्रभावकाठिन्यगुरुत्वयोगैःप्रायः समानाः स्फटिकोद्भवानाम् ।आनीलरक्तोत्पलचारुभासःसौगन्धिकाख्या मणयो भवन्ति
यो मन्दराजः कुरुबिन्दजेषुस एव जातः स्फटिकोद्भवेषु ।निरर्च्चिषोऽन्तर्ब्बहुलीभवन्तिप्रभाववन्तोऽपि तत्समानाः
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ।पद्मरागा घनं रागं बिभ्राणाः स्वस्फुटार्च्चिषः
वर्णानुयायिनस्तेषामन्ध्रदेशे तथापरे ।न जायन्ते तु ये केचित् मूल्यलेशमवाप्नुयुः
तथैव स्फटिकोत्थानां देशे तुम्बुरसंज्ञके ।सधर्म्माणः प्रजायन्ते स्वल्पमूल्याहि ते स्मृताः
*अथ जात्यादि ।“माणिक्यस्य प्रवक्ष्यामि यथा जातिचतुष्टयम् ।ब्रह्मक्षत्त्रियवैश्याश्च शूद्रश्चाथ यथाक्रमम्
रक्तश्वे तो भवेद्विप्रस्त्वतिरक्तस्तु क्षत्त्रियः ।रक्तपीतो भवेद्वैश्यो रक्तनीलस्तथान्त्यजः ।पद्मरागो भवेद्विप्रः कुरुविन्दस्तु बाहुजः ।सौगग्धिको भवेद्वैश्यो मांसखण्डस्तथान्त्यजः
शोणपद्मसमाकारः खदिराङ्गारसप्रभः ।पद्मरागो द्बिजः प्रोक्तश्छायाभेदेन सर्व्वदा
गुञ्जासिन्दूरबन्धूकनागरङ्गसमप्रभः ।दाडिमीकुसुमाभासः कुरुविन्द स्तु बाहुजः
हिङ्गुलाभाशोकपुष्पाभमीषत्पीतलोहितम् ।जवालाक्षारसप्रायं वैश्यं सौगन्धिकं विदुः
आरक्तः कान्तिहीनश्च चिक्कणश्च विशेषतः ।मांसखण्डसमाभासो ह्यन्त्यजः पापनाशनः
”मांसखण्डस्तु नीलगन्धेः संज्ञा
*
अथ दोषाः ।“माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः ।द्विच्छायञ्च द्विरूपञ्च सम्भेदः कर्करन्तथा
अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै ।गुणाश्चत्वार आख्याताश्छायाः षोडश कीर्त्तिताः
छायास्तु पूर्व्वोक्ता एव ।“छायाद्वितयसम्बन्धादद्विच्छायं बन्धुनाशनम् ।द्विरूपं द्बिपदन्तेन माणिक्येन पराभवः
सम्भेदो भिन्नमित्युक्तं शस्त्रघातविधायकः ।कर्करं कर्करायुक्तं पशुबन्धुविनाशकृत्
दुग्धेनेव समालिप्तमघनीपुटमुच्यते ।अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत्
मधुविन्दुसमच्छायं कोकिलं परिकीर्त्तितम् ।आयुर्लक्ष्मीयशो हन्ति सदोषं तन्न धारयेत्
रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् ।धूम्रं धूमसमाकारं वैद्युतं भयमावहेत्
तथा, --“शोभाद्वितयवन्तो ये मणयः क्षतिकारकाः ।उभयत्र पदं येषां तेन स्यात् पराभवः
भिन्नेन युद्धे मृत्युः स्यात् कर्करन्धननाशकृत् ।दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत्
दुःखकृत् समाख्यातो नृपै रक्षणीयकः ।मधुबिन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता
तेषाञ्च बहुभेदाः स्युर्नते धार्य्याः कदाचन
”अथ गुणाः ।“गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता
”तथा ।“वर्णाधिकं गुरुत्वञ्च स्निग्धता समताच्छता ।अर्च्चिष्मत्ता महत्ता मणीनां गुणसंग्रहः
*
फलम् ।“ये कर्कराश्छिद्रमलोपदिग्धाःप्रभाविमुक्ताः परुषा विवर्णाः ।न ते प्रशस्ता मणयो भवन्तिसमानतो जातिगुणैः समस्तैः
दोषोपसृष्टं मणिमप्रबोधाद्-बिभर्त्ति यः कश्चन कञ्चिदेकम् ।तं बन्धुदुःखाय सबन्धुवित्त-नाशादयो दोषगणा भजन्ते
सपत्नमध्येऽपि कृताधिवासंप्रमादवृत्तावपि वर्त्तमानम् ।न पद्मरागस्य महागुणस्यभर्त्तारमापत समुपैति काचित्
दोषोपसर्गप्रभवाश्च ये तेनोपद्रवास्तं समभिद्रवन्ति ।गुणैः समुख्यैः सकलैरुपेतंयः पद्मरागं प्रयतो बिभर्त्ति
*
अस्य परीक्षा यथा, --“बालार्ककरसंस्पर्शात् यः शिखां लोहितांवमेत् ।रञ्जयेदाश्रमं वापि महागुण उच्यते
दुधे शतगुणे क्षिप्तो रञ्जयेद्यः समन्ततः ।वमेच्छिखां लोहितां वा पद्मरागः उत्तमः
अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः ।प्रकाशयति सूर्य्यामः सश्रेष्ठः पद्मरागकः
पद्मकोषे तु यो न्यस्तो विकाशयति तत्क्षणात् ।पद्मरागवरो ह्येष देवानामपि दुर्लभः
सर्व्वारिष्टप्रशमनाः सर्व्वसम्पत्तिदायकाः ।चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम्
यो मणिर्दृ श्यते दूराज्ज्वलदग्निसमच्छविः ।वंशकान्तिः विज्ञेयः सर्व्वसम्पत्तिकारकः
पञ्च सप्त नव विंशति रागःक्षिप्त एव सकलः खलु वस्त्रे ।वर्ज्जयेद्वमति वा करजाल-मुत्तरोत्तरमहागुणिनस्ते
नीलं रसं दुग्धरसं जलं वाये रञ्जयन्ति द्विशतप्रमाणम् ।ते ते यथापूर्व्वमतिप्रशस्ताःसौभाग्यसम्पत्तिविधानदायकाः
*
परिमाणम् ।“गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् ।पद्मरागस्तुलयति यथापूर्व्वं महागुणः
क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान् ।पद्मरागस्तुलयति यथापूर्व्वं महागुणः
वदरीफलतुल्यो यः स्वरदिग्वसुमाषक ।तथा धात्रीफलत्रिंशद्विंशतिद्व्यष्टमाषकः
तथाक्षफलतुल्यो यो वह्निपक्षैकमाषकः ।ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः
बिम्बीफलसमाकारो वसुषड्दशतोलकः ।अतःपरं प्रमाणेन मानेन लभ्यते ।यदि लभ्येत पुण्येन तदा सिद्धिमवाप्नुयात्
केचिच्चारुतराः सन्ति जातीनां प्रतिरूपकाः ।विजातयः प्रयत्नेन विद्बांस्तानुपलक्षयेत्
कलसपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तमालीयाः ।श्रीपर्णिकाश्च सदृशा विजातयः पद्मरागाणाम्
तुषोपसर्गात् कलसाभिधान-माताम्रभावादपि तुम्वुरूत्थम् ।कार्ष्णात्तथा सिंहलदेशजातंमुक्ताभिधानं नभसः स्वभावात् ।श्रीपर्णकं दीप्तिनिराकृतित्वा-द्विजातिलिङ्गाश्रय एष भेदः
”तथा ।“स्नेहप्रदेहो मृदुता लघुत्वंविजातिलिङ्गं खलु सार्व्वजन्यम् ।यः श्यामिकां पुष्यति पद्मरागोयो वा तुषाणामिव चूर्णमध्यः
स्नेहप्रदिग्धो यो बिभातियो वा प्रमृष्टः प्रजहाति दीप्तिम् ।आक्रान्तमूर्ड्घा तथाङ्गुलिभ्यांयः कालिकां पार्श्वगतां बिभर्त्ति
सम्प्राप्य चोत्क्षेपपथानुवृत्तिंबिभर्त्ति यः सर्व्वगुणानतीव ।तुल्यप्रमाणस्य तुल्यजाते-र्यो वा गुरुत्वेन भवेन्न तुल्यः
प्राप्यापि रत्नाकरजां स्वजातिंलक्षेद्गुरुत्वेन गुणेन विद्वान्
अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् ।घृष्टो योऽत्यन्तशोभावान् गरिमाणं मुञ्चति ।स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः
स्वजातकं समुत्थेन विलिखेद्वा परस्परम् ।वज्रं वा कुरुबिन्दं वा विमुच्यान्योन्यकेनचित् ।न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः
जातस्य सर्व्वेऽपि मणेर्न जातुविजातयः कान्तिसमानवर्णाः ।तथापि नानाकरणार्थमेवंभेदप्रकारः परमः प्रदिष्टः
गुणोपपन्नेन सहावबद्धोमणिस्तु धार्य्यो विगुणेन जात्यः ।न कौस्तुभेनापि सहावबद्धंविद्वान् विजातिं बिभृयात् कदाचित्
चण्डाल एकोऽपि यथा द्बिजातीन्समेत्य भूरीनपहन्त्ययत्नात् ।तथा मणीन् भूरिगुणोपपन्नान्शक्नोति विद्रावयितुं विजातः
*
अथ मूल्यम् ।बालार्काभिमुखं कृत्वा दर्पणे धारयेन्मणिम् ।तत्र कान्तिविभागेन छायाभागं विनिर्द्दिशेत्
वज्रस्य यत्तण्डुलसंख्ययोक्तंमूल्यं समुन्मापितगौरवस्य ।तत्पद्मरागस्य गुणान्वितस्यस्यान्माषकाख्या तुलितस्य मूल्यम्
यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् ।तावन्मूल्यं तथाशुद्धे कुरुविन्दे विधीयते
सगुणे कुरुबिन्दे यावन्मूल्यं प्रकीर्त्तितम् ।तावन्मूल्यचतुर्थांशहीनं स्याद्वै सुगन्धिके
यावन्मूल्यं समाख्यातं वैश्यवर्णे सूरिभिः ।तावन्मूल्यचतुर्थांशं हीयते शूद्रजन्मनि
पद्मरागः पणं यस्तु धत्ते लाक्षारसप्रभः ।कार्षापणसहस्राणि त्रिंशन्मूल्यं लभेत सः
इन्द्रगोपकसङ्काशः कर्षत्रयधृतो मणिः ।द्वाविंशतिं सहस्राणां तस्य मूल्यं विनिर्द्दिशेत्
एकोनो नूयते यस्तु जवाकुसुमसन्निभः ।कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश
बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते ।कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम्
यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः ।कार्षापणशतानान्तु विंशतिं मूल्यमादिशेत्
चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः ।मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम्
द्विमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः ।तस्य मूल्यं विधातव्यं द्बिशतं तत्त्ववेदिभिः
माषकैकमितो यस्तु पद्मरागो गुणान्वितः ।शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः
अतोऽन्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः ।स्वर्णद्विगुणमूल्येन मूल्यं तेषां प्रकल्पयेत्
कार्षापणः समाख्यातः पुराणद्बयसम्मितः ।अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः
काषाया इति विख्याताः स्फटिकप्रभवाश्च ते ।तेषां दोषान् गुणान् वापि पद्मरागवदादिशेत्
मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा ।ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः
चतुर्विधैर्नृपतिभिर्धार्य्या सम्पत्तिहेतवे ।अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम्
”इति युक्तिकल्पतरौ पद्मरागपरीक्षा