| YouTube Channel

पद्मकाष्ठं (padmakASThaM)

 
शब्दकल्पद्रुमः
Sanskrit
पद्मकाष्ठं, क्ली (पद्ममिव गन्धवत् काष्ठम् ।)ओषधिविशेषः तत्पर्य्यायः पद्मकम् पीत-कम् पीतम् मालयम् शीतलम् ६हिमम् शुभम् केदारजम् रक्तम् १०पाटलापुष्पसन्निभम् ११ पद्मवृक्षम् १२ अस्यगुणाः शीतलत्वम् तिक्तत्वम् रक्तपित्त-विनाशित्वम् मोहदाहज्वरभ्रान्तिकुष्ठविस्फोट-शान्तिकारित्वञ्च इति राजनिर्घण्टः
अपि भावप्रकाशे ।“पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम् ।पद्मकं तुवरं तिक्तं शीतलं वातलं लघु
विसर्पदाहविस्फोटकुष्थश्लेष्मास्रपित्तहृत् ।गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत्
”इति भावप्रकाशः