| YouTube Channel

पद्मकन्द (padmakanda)

 
Shabdartha Kaustubha
Kannada
पद्मकन्द
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಾವರೆಯ ಗೆಡ್ಡೆ
शब्दकल्पद्रुमः
Sanskrit
पद्मकन्दः,
पुं,
(पद्मस्य कन्दः ।) कमलकन्दः ।तत्पर्य्यायः शालूकम् पद्ममूलम् कटा-ह्वयम् शालुकम् जलालूकम् अस्यगुणाः कटुत्वम् विष्टम्भित्वम् रूक्षत्वम् ।रुच्यत्वम् कषायत्वम् कफपित्तकाशतृष्णादाह-विनाशित्वञ्च इति राजनिर्घण्टः
अपि ।“पद्मादिकन्दः शालूकं करहाटश्च कथ्यते ।मृणालमूलं भिष्माण्डं जलालूकञ्च कथ्यते
शालूकं शीतलं वृष्यं पित्तदाहास्रनुद्गुरु ।दुर्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम्
संग्राहि मधुरं रूक्षं भिष्माण्डमपि तद्गुणम्
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
पद्मकन्द
पु०
त० कमलकन्दे शालूके “शालुकं शीतलंवृष्यं षित्तदाहास्रनुद् गुरु दुर्जरं स्वादुपाकञ्च स्तन्या-निलकफप्रदम् संग्राहि मधुरं रूक्षं गिष्माण्डमपितद्गुणम्” भावप्र०