| YouTube Channel

पदातिः (padAtiH)

 
Apte Hindi
Hindi
पदातिः
पुं*
- पद्भ्यामतति-अत् + इन्
पैदल सिपाही
पदातिः
पुं*
- पद्भ्यामतति-अत् + इन्
पैदल यात्री (पैदल चलने वाला)
Wordnet
Sanskrit
Synonyms:
पदातिः
noun
पदेन गच्छन् यात्री।
"केचित् पदातयः मन्दिरस्य परिक्रमां कुर्वन्ति।"
Synonyms:
पदातिः
noun
सः सैनिकः यस्य समीपे आरोहणार्थे अश्वादयः सन्ति।
"सैनिकानां कार्यवहने शत्रुपक्षस्य नैके पदातयः हताः।"
Synonyms:
पदातिः, वटः
noun
चतुरङ्गक्रीडायाः अष्टौ शारयः येषां अन्येषां तुलनया महत्त्वं न्यूनं वर्तते।
"चतुरङ्गे पदातिः अजिह्मं चलति तिर्यक् हन्ति।"
Synonyms:
पदातिकः, पदातिः, पादातिः, पादातिकः
noun
कार्यालये पत्राणां वाहकः तथा यः अधिकारिजनानाम् आदेशानां पूर्तिं करोति।
"मम कार्यालये पदातिकः अतीव महत्वपूर्णं कार्यं करोति।"
अमरकोशः
Sanskrit
Word: पदातिः
Root: पदाति
Gender: पुं
Number: all
Meaning(s):
peon
footman
pedestrian
pawn [chess]
foot-soldier
going or being on foot
Shloka(s):
2|8|66|2 पदातिपत्तिपदगपादातिकपदाजयः॥ (क्षत्रियवर्गः)
2|8|67|1 पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः। (क्षत्रियवर्गः)
Synonym(s):
2|8|66|2 पदातिः (पदाति) (पुं) peon, footman, pedestrian, pawn [chess], foot-soldier, going or being on foot
2|8|66|2 पत्तिः (पत्ति) (पुं) hero, footman, infantry, pedestrian, foot-soldier
2|8|66|2 पदगः (पदग) (पुं)
2|8|66|2 पादातिकः (पादातिक) (पुं)
2|8|66|2 पदाजिः (पदाजि) (पुं)
2|8|67|1 पद्गः (पद्ग) (पुं)
2|8|67|1 पदिकः (पदिक) (पुं) pedestrian, going on foot, one pada long, comprising one partition or division
Related word(s):
अवयव_अवयवीसंबन्धः पदातिसमूहः
परा_अपरासंबन्धः सेना
स्व_स्वामीसंबन्धः सैन्याधिपतिः
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
पदातिः,
पुं,
(पादाभ्यामतति गच्छतीति “पादेच ।” उणां १३१ इति पाद् + अति + इण् ।“पादस्य पदाज्यातिगोपहतेषु ।” ५२ ।इति पदादेशः ।) पदातिकः पेयादा इतिभाषा तत्पर्य्यायः पत्तिः पतगः पादा-तिकः पदाजिः पद्गः पदिकः इत्य-मरः ६६
पदातिकः पादात् ९पादाविकः १० पदात् ११ पायिकः १२ शव-रालिः १३ इति शब्दरत्नावली
(यथा, महाभारते १३९ ३१ ।“गजानश्वान् रथांश्चैव पातयामास पाण्डवः ।पदातींश्च रथांश्चैव न्यवधीदर्ज्जनाग्रजः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“अत सातत्यगमने”@} 2 ‘बन्धनेऽन्तति, सातत्यगमनेऽतति, चिन्तयेत्।’ 3 इति देवः।
सातत्यगमनम् = सन्ततगमनम्।
आतकः-तिका, आतकः-तिका, अतितिषकः-षिका
अतिता-त्री, आतयिता-त्री, अतितिषिता-त्री
4 अतन्-न्ती, आतयन्-न्ती, अतितिषन्-न्ती
अतिष्यन्-न्ती-ती, आतयिष्यन्-ती-न्ती, अतितिषिष्यन्-न्ती-ती
आतयमानः, आतयिष्यमाणः
अत्-अतौ-अतः, मार्गात्
5 अतितम्-तः-तवान्, आतितः, अतितिषितम्-तः-तवान्
6 अतः 7, पदातिः 8, मार्गातः, आतः, अतितिषुः, आतितयिषुः
अतितव्यम्, आतयितव्यम्, अतितिषितव्यम्
अतनीयम्, आतनीयम्, अतितिषणीयम्
आत्यम्, आत्यम्, अतितिष्यम्
ईषदतः, दुरतः, स्वतः
ईषदातः, दुरातः, स्वातः
अत्यमानः, आत्यमानः, अतितिष्यमाणः
आतः, आतः, अतितिषः
अतितुम्, आतयितुम्, अतितिषितुम्
अत्तिः, आतना, अतितिषा, आतितयिषा
अतनम्, आतनम्, अतितिषणम्
अतित्वा, आतयित्वा, अतितिषित्वा
समत्य, समात्य, समतितिष्य
आतम् २, अतित्वा २, आतम् २, आतयित्वा २, अतितिषम्
अतितिषित्वा
9 अतिथिः, आत्मा 10।।
प्रासङ्गिक्यः
01
=>
(१९)
02
=>
(१-भ्वादिः-३८-सक। से। पर।)
03
=>
(श्लो। ९४)
04
=>
[[(अ)। ‘ग्रामं ग्रामाय वा अतन्-’ इत्यत्र ‘गत्यर्थकर्मणि--’ (२-३-१२।) इत्यनेन द्वितीयाचतुर्थ्यौ भवतः।]]
05
=>
[[(आ)। ‘अतितो ग्रामम्, अतितो ग्रामः, अतितं देवदत्तेन, इदमेषामतितम्।’ इत्यादौ ‘गत्यर्थाकर्मक--’ (३-४-७२) इति, ‘क्तोऽधिकरणे ध्रौव्यगति--’ (३-४-७६) इति क्रमेण कर्तृ-कर्म-भाव-अधिकरणेषु क्तः प्रत्ययः।]]
06
=>
[पृष्ठम्००१८+ ३५]
07
=>
[[आ। ‘अभियाऽतावरं तुङ्गं भूभृतं रुचिरं पुरः। कर्कशं प्रस्थितं धाम ससत्त्वं पुष्करेक्षणम्।’ भ। का। १०-२१। अतस्यावरः। पचाद्यच्]]
08
=>
[[१। ‘पादस्य पदाज्याति--’ (६-३-५२) इति पद्भावः। औणादिक इणू प्रत्ययः।]]
09
=>
[[२। दशपाद्युणादिवृत्तौ १-४४। इथिन् प्रत्ययः।]]
10
=>
[[३। मनिण् प्रत्ययः ६-८१। द-उ।]]