| YouTube Channel

पदमञ्जर्यां (padamaJjaryAM)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लिख अक्षरविन्यासे”@} 2 इत्यत्र ‘कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च इति बहुव्रीहितत्पुरुषयोः सह विवक्षां कृत्वा--कुटादेः पूर्वं पठितस्य अस्यापि धातोः ङित्त्वमभ्युपगच्छन्ति।
पक्षोऽयं पदमञ्जर्यां दूषितः
‘अपाच्चतुष्पा- च्छकुनिष्वालेखने’ 3 इति निर्देशात् ‘रलो व्युपधात्--’ 4 इत्यत्र काशिकादिषु लिखित्वा--लेखित्वा लिलिखिषति-लिलेखिषति इत्युदाहरणात्, ‘ईश्वरे तोसुन्--’ 5 इत्यत्र ‘विलिखितुमित्यर्थः’ इति वृत्तौ विवरणात् समञ्जसोऽयं पक्ष इति।
वर्धमानप्रभृतयोऽपि एवमेवाहुरिति धातुवृत्त्यादिषु स्पष्टम्।
लिखितुम्, लिखिष्यते इत्यादि तु ‘संज्ञापूर्वको विधिरनित्यः’ 6 इति कथञ्चित् समर्थनीयम्।
एतेन ‘लिखन- संक्षेपनिर्बन्धवतो दीधितिकारस्य--’ इति गदाधरोक्तिरपि व्याख्याता।
बोपदेवव्याकरणे मुग्धबोधे तु कुटादित्वमेवास्यापि धातोरङ्गीकृतम्।]] लेखकः-खिका, लेखकः-खिका, लिलेखिषकः- 7 लिलिखिषकः-षिका, लेलिखकः-खिका
लेखिता-त्री, लेखयिता-त्री, लिलेखिषिता-लिलिखिषिता-त्री, लेलिखिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकिलतिवत् 8 ज्ञेयानि।
लेखः, विलेखनः 9 लेखनी, 10 हृल्लेखः, विलेखी- 11 व्यावलेखी, 12 लेखा-रेखा, 13 14 दन्तलेखकः इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
15 लिखापयति।
प्रासङ्गिक्यः
01
=>
(१४८५)
02
=>
(६-तुदादिः-१३६५। सक। सेट्। पर। [[[अ] तुदादिष्वयं धातुः कुटादेः पूर्वं पठितः। ञित्णिद्भिन्नानां प्रत्ययानां ङिद्वद्भावः कुटादीनां विधीयते--कुटितुम्--कुटिता इत्यादिरूपसिद्धये। एवं ‘लिखितुं विश्वसृजोऽपि शक्तिहानिः’, ‘स्वयमेव लिखिष्यते’ इत्यादिषु गुणाभावोपपत्त्यर्थं ‘गाङ्कुटादिभ्यः--’ (१-२-१)
03
=>
(६-१-१४२)
04
=>
(१-२-२६)
05
=>
(३-४-१३)
06
=>
(परि। ९५)
07
=>
[[१। सन्नन्ते ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पनात् रूपद्वयमिति ज्ञेयम्।]]
08
=>
(१९३)
09
=>
[[२। ल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपमेवम्।]]
10
=>
[[३। हृदयं लिखतीति हृल्लेखः। ‘कर्मण्यण्’ (३-२-१) इत्यणि ‘हृदयस्य हृल्लेख--’ (६-३-५०) इति हृदयशब्दस्य ‘हृत्’ इत्यादेशः।]]
11
=>
[[४। कर्मव्यतीहारे णचि, ‘णचस्स्त्रियाम्--’ (५-४-१४) इत्यञि ङीपि रूपमेवम्।]]
12
=>
[[५। भिदादि (३-३-१०४) पाठादङि रूपमेवम्। तत्रेव गणे पाठात् लकारस्य पाक्षिको रेफादेशश्च। तेन रेखा इत्यपि साधुः।]]
13
=>
[पृष्ठम्११६१+ २७]
14
=>
[[१। दन्तस्य लेखकः दन्तलेखकः। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इति षष्ठ्यन्तस्य दन्तशब्दस्य अकारान्तेन लेखकशब्देन तत्पुरुषसमासः। यस्य गजवराहादिदन्तेषु चित्रं विलिख्य तन्मूलिका जीविका तत्रैवायं--जीविकार्थे समास इति बोध्यम्।]]
15
=>
[[२। लिखम् आचष्टे लिखापयतीति निष्पाद्य, ‘अर्थवेदयोरप्यापुग्वक्तव्यः’ (वा। ३-१-२५) इत्यत्र ‘अपुक्’ इति ह्रस्वोच्चारणेनैव सिद्धौ दीर्घोच्चारणात् उपात्तभिन्नेष्वपि आपुग् भवतीति मत्वा अत्रापि आपुग् भवतीति आत्रेयमतं धातुवृत्तौ प्रतिपादितमि- हानुसन्धेयम्।]]