| YouTube Channel

पथ्यापथ्यं (pathyApathyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पथ्यापथ्यं,
क्ली,
(पथ्यं रोगिणां हितकरं अपथ्यंअशुभकरं द्वयोः समाहारः ।) रोगाणां हिता-हितकारकद्रव्याणि ।तत्र तरुणज्वरे पथ्यं यथा ।वमनम् लङ्घनम् कालोऽष्टाहः यवागुः ।स्वेदनम् कटुतिक्तरसौ एतानि पाचनानि
*
नवज्वरे अपथ्यं यथा ।स्नानम् विरेकः सुरतम् कषायः व्यायामः ।अभ्यञ्जनम् दिवानिद्रा दुग्धम् घृतम् वैद-लम् आमिषम् तक्रम् सुरा स्वादुगुरुद्रष-द्रव्याणि अन्नम् प्रवातः भ्रमणम् कोपः
*
मध्यज्वरे पथ्यं यथा ।पुरातनषष्टिकः पुरातनशालिः वार्त्ताकुः ।शोभाञ्जनम् कारवेल्लः वेत्राग्रम् आषाढ-फलम् पटोलम् कर्कोटकम् मूलकपोतिका ।मुद्गमसूरचणककुलत्थमुकुष्टकानां यूषः पाठा ।अमृता वास्तूकम् तण्डुलीयः जीवन्ती ।काकमाची सुपक्वानि द्राक्षाकपित्थदाडिम-वैकङ्कतफलानि लघूनि सात्म्यानि भेष-जानि
*
अथ पुराणज्वरे पथ्यम् ।विरेचनम् छर्द्दनम् अञ्जनम् नस्यम् धूमः ।अनुवासनम् सिराव्यधः संशमनम् प्रदेहः ।अभ्यङ्गः अवगाहः शिशिरोपचारः एणः ।कुलिङ्गः हरिणः मयूरः लावः शशः ।तित्तिरिः कुक्कुटः क्रौञ्चः कुरङ्गः पृषतः ।चकोरः कपिञ्जलः वर्त्तकः कालपुच्छः ।गोक्षीरम् अजाक्षीरम् गोघृतम् अजा-घृतम् हरीतकी पर्व्वतनिर्झराम्भः एरण्ड-तलम् सितचन्दनम् ज्योत्स्ना प्रिया-लिङ्गनम्
*
व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणं तथा ।ज्वरमुक्तो सेवेत यावन्नो बलवान् भवेत्
*
अथातिसाररोगे पथ्यम् ।वमनम् लङ्घनम् निद्रा पुराणाः शालि-षष्टिकाः विलेपी लाजमण्डः मसूर-तुवरीशशैणलावहरिणकपिञ्जलभवयूषः सर्व्वेक्षुद्रमत्स्याः शृङ्गी खुड्डीशः मधुरा-लिका तैलम् छागघृतक्षीरे गोदधितक्रे ।गवाजयोर्दधिजं पयोजं वा नवनीतम् नव-रम्भापुष्पम् नवरम्भाफलम् क्षौद्रम् जम्वु-फलम् भव्यम् महार्द्रकम् निम्बम् शालु-कम् विकङ्कतम् कपित्थम् वकुलम् ।विल्वम् तिन्दुकम् दाडिमद्बयम् तिल-कम् कञ्चटदलम् चाङ्गेरी विजया ।अरुणा जातीफलम् अहिफेनम् जीरकः ।गिरिमल्लिका कुस्तुम्वुरु महानिम्बम् सकल-कषायरसः दीपनानि लघून्यन्नपानानि नाभे-र्द्व्यङ्गुलतोऽधस्तात् तथा वंशास्थिमूले शस्त्रेणअर्द्धचन्द्रवद्दाहः
*
अतीसारे अपथ्यं यथा ।स्वेदः अञ्जनम् रुधिरमोक्षणम् अम्वुपानम् ।स्नानम् व्यवायः जागरणम् धूमः नस्यम् ।अभ्यञ्जनम् सकलवेगधारणम् रूक्षाणि ।असात्म्यमशनम् विरुद्धान्नम् गोधूमः ।माषः यवः वास्तूकम् काकमाची ।निष्पावः कन्दः मधुशिग्रुः रसालम् ।पूगम् कुष्माण्डम् तुम्बी वदरम् गुर्व्व-न्नम् गुरुपानम् ताम्वूलम् इक्षुः गुडः ।मद्यम् उपोदिका द्राक्षा अम्लवेतसफलम् ।लशुनम् धात्री दुष्टाम्वु मस्तु गृहवारि ।नारिकेलम् स्नेहनम् मृगमदः अखिल-पत्रशाकम् क्षारः सर्व्वाणि सराणि पुन-र्नवा इर्वारुकम् लवणम् अम्लम्
*
अथ ग्रहणीरोगे पथ्यम् ।निद्रा छर्द्दनम् लङ्घनम् पुरातनशालयः ।पुरातनषष्टिकाः लाजमण्डः मसूरतुवरी-मुद्गभवयूषः निःशेषोद्धृतसारगव्यदधि गवांछाग्या वा पयोजं नवनीतम् छागघृतपयो-दधीनि तिलतैलम् सुरा माक्षिकम् ।शालूकम् वकुलम् दाडिमयुगम् नव्यंभव्यम् रम्भापुष्पम् रम्भाफलम् तरुण-विल्वम् शृङ्गाटकम् चाङ्गेरी विजया ।कपित्थम् कुटजम् अजाजी कशेरुः ।तक्रम् कञ्चटपल्लवम् तिलकम् जाती-फलम् जाम्बवम् धन्याकम् तिन्दुकम् ।महानिम्बम् अरुणा अफेनम् क्रव्यात् ।लावशशैणतित्तिरिमांसयूषः सर्व्वे क्षुद्रमत्स्याः ।खुड्डीशः मधरालिकामत्स्यः खलिशः ।सर्व्वकषायरसः नाभेर्द्व्यङ्गुलतोऽधस्तात् तथावंशास्थिमूले प्रज्वलितायसार्द्धचन्द्रवद्दाहः
*
ग्रहण्यामपथ्यं यथा ।रक्तस्रुतिः जागरः अम्बुपानम् स्नानम् ।स्त्री वेगविधारणम् नस्यम् अञ्जनम् ।स्वेदनम् धूमपानम् श्रमः विरुद्धाशनम् ।आतपः गोधूमः निष्पावः कलायः ।माषः यवः आर्द्रकम् छत्रकम् राज-माषः उपोदिका वास्तूकः काकमाची ।कुष्माण्डः तुम्बी मधुशिग्रुः कन्दः ताम्वू-लम् इक्षुः वदरम् रसालम् इर्व्वारुकम् ।पूगफलम् रसोनम् धान्याम्लम् सौवीरम् ।तुषोदकम् दुग्धम् गुडः मस्तु नारि-केलम् पुनर्नवा बार्हतम् वैणवम् सर्व्वाणिपत्रशाकानि दुष्टाम्वु गोमूत्रम् मृग-नाभिः क्षारम् समस्तानि सराणि द्राक्षा ।अम्लम् लवणरसः गुर्व्वन्नम् गुरुपानम् ।सर्व्वे पूपाः
*
अथार्शसि पथ्यम् ।विरेचनम् लेपनम् अस्रमोक्षः क्षारः ।अग्निकर्म्म शस्त्रकर्म्म पुरातनलोहितशालयः ।पुरातनषष्टिकाः यवाः कुलत्थाः गोधाखु-गजोष्ट्रकूर्म्माविकलिङ्गाजखरौतुकीशतरक्षुचास-शृगालकाकानां मांसानि स्वल्पमांसाःप्रसहाः पटोलम् पत्तूरः रसोनकम् ।वह्निः पुनर्नवा शूरणः वास्तूकम् जीव-न्तिका दन्तशठः सुरा त्रुटिः वयःस्था ।नवनीतम् तक्रम् कक्कोलम् धात्री रुच-कम् कपित्थम् औष्ट्रमूत्राज्यपर्यांसि भल्ला-तकम् सर्षपतैलम् गोमूत्रम् सौवीरम् ।तुषोदकम् वातापहान्नपानम् अग्निवर्द्धकान्न-पानम्
*
अर्शसि अपथ्यं यथा ।आनूपमामिषम् मत्स्यः पिण्याकः दधि ।पिष्टकम् माषः करीरम् निष्पावः ।विल्वम् तुम्बी उपोदिका पक्वाम्रम सर्व्व-शालूकम् विष्टम्भीनि गुरूणि आतपः ।जलपानम् वमनम् वस्तिकर्म्म नदीनांसलिलम् विरुद्धानि सर्व्वाणि पूर्व्वदिग्भव-वायुः वेगरोधः स्त्रियः पृष्ठयानम् उत्-कटकासनम् यथास्वं दोषलं द्रव्यम् रक्त-पित्तिनां यद्यत् पथ्यापथ्यं तत्तदपि रक्तार्शो-रोगिणां बिशेषतो विद्यात्
*
अथाग्निमान्द्याजीणादौ पथ्यम् ।श्लौष्मके पूर्व्वं बमनम् पैत्तिके मृदुरेचनम् ।वातिके स्वेदनम् यथावस्थं हितवस्तूनि नाना-प्रकारव्यायामः दीपनानि लघूनि बहु-कालसमुत्पन्ना मुद्गलोहितशालयः विलेपी ।लाजमण्डः मुद्गभवमण्डः सुरा एणः ।वर्ही शशः लावः सर्व्व क्षुद्रमत्स्यः शालिञ्च-शाकम् वेत्राग्रम् वास्तूकम् बालमूलम् ।लशुनम् वृद्धकुष्माण्डम् नवीनकदलीफलम् ।शोभाञ्जनम् पटोलम् वार्त्ताकुः नलदाम्वु ।कर्कोटकम् कारवेल्लम् बार्हतम् महा-र्द्रकम् प्रसारणी काकमाची चाङ्गेरी ।सुनिषण्णकम् धात्रीफलम् मातुलुङ्गम् ।दाडिमम् यवः पर्पटः अम्लवेतसम् जम्बी-रम् नागरङ्गम् माक्षिकम् नवनीतम् ।घृतम् तक्रम् सौवीरकम् तुषोदकम् ।धान्याम्लम् कटुतैलम् रामठम् लवणार्द्र-कम् यमानी मरिचम् मेथी धान्यकम् ।जीरकम् दधि ताम्वूलम् तप्तसलिलम् ।कटुरसः तिक्तरसः
*
अग्निमान्द्याजीर्णादौ अपथ्यं यथा ।विरेचनम् विण्मूत्रवायूनां वेगधारणम् अति-रिक्ताशनम् अध्यशनम् जागरणम् विषमा-शनम् रक्तस्रुतिः शमीध्यानम् मत्स्यः ।मांसम् उपोदिका जलपानम् पिष्टकम् ।जाम्बवम् सर्व्वशालूकम् कूर्च्चिका मोरटः ।क्षीरम् किलाटः प्रपानकम् तालास्थि-शस्यम् बालतालम् स्नेहनम् दुष्टवारि ।विरुद्धपानान्नम् असात्म्यपानान्नम् विष्ट-म्भीनि गुरूणि ।फलवर्त्तिं वमिं स्वेदं लङ्घनं चापतर्पणम् ।विशेषादलसे कुर्य्याद्बिसूच्यामतिसारवत्
*
अथ क्रिमिरोगे पथ्यम् ।आस्थापनम् कायविरेचनम् शिरोविरे-चनम् धूमः कफघ्नानि द्रव्याणि शरीर-मार्ज्जना पुरातनवैणवरक्तशालयः पटोलम् ।वेत्राग्रम् रसोनम् वास्तूकम् हुताशः ।मन्दारदलम् सर्षपाः नवीनमोचम् बृहती-फलम् तिक्तानि नालीचदलानि मौषिक-मांसम् विडङ्गम् पिचुमर्द्दपल्लवम् पथ्या ।तिलतैलम् सर्षपतैलम् सौवीरम् शुक्तम् ।तुषोदकम् मध पचेलिमतालम् अरु-ष्करम् गोमूत्रम् ताम्बूलम् सुरा मृगा-ण्डजम् औष्ट्रमूत्राज्यपयांसि रामठम् ।क्षारः अजमोदा खदिरः वत्सकम् ।जम्बीरनीरम् सुषवी यमानिका सुराह्वा-गुरुसिंशपोद्भवक्षारः तिक्तकटुकषायरसाः
*
क्रिमिरोगे अपथ्यं यथा ।छर्द्दिः तद्वेगविधारणम् विरुद्धपानाशनम् ।दिवानिद्रा द्रवद्रव्यम् पिष्टान्नम् अजीर्ण-भोजनम् घृतम् माषः दधि पत्रशाकम् ।मांसम् पयः अम्लः मधुररसः
*
अथ पाण्डरोगे पथ्यम् ।छर्द्दिः विरेचनम् पुरातनयवगोधूमशालयः ।मुद्गाढकीमसूराणां यूषः जाङ्गलजरसः पटो-लम् वृद्धकुष्माण्डम् तरुणकदलीफलम् ।जीवन्ती क्षुरः मत्स्याक्षी गुडूची तण्डु-लीयकम् पुनर्नवा द्रोणपुष्पी वार्त्ताकुः ।लशुनद्वयम् पक्वाम्रम् अभया विम्बी शिङ्गीमत्स्यः गोमूत्रम् धात्री तक्रम् घृतम् ।तैलम् सौवीरकम् तुषोदकम् नवनीतम् ।गन्धसारः हरिद्रा नागकेशरम् यवक्षारः ।लौहभस्म कषायद्रव्यम् कुङ्कुमम् चरणयोःसन्धौ नाभेर्द्ब्यङ्गुलादधः मस्तके हस्तयोर्मूलेस्तनकक्षयोर्मध्ये दाहः यथादोषमिदं पथ्यंपाण्डुरोगवतां भवेत्
*
पाण्डुरोगे अपथ्यं यथा ।रक्तस्रुतिः धूमपानम् वमिः वेगधारणम् ।स्वेदनम् मैथुनम् शिम्बी पत्रशाकानि ।रामठम् माषः अम्बुपानम् पिण्याकः ।ताम्बू लम् सर्षपः सुरा मृद्भक्षणम् दिवा-स्वप्तः तीक्ष्णानि लवणानि सिन्धुविन्ध्याद्रि-जातनदीनां जलम् सर्व्वाण्यम्लानि दुष्टाम्भः ।विरुद्धाशनानि गुर्व्वन्नम् विदाहीनि
*
अथ रक्तपित्ते पथ्यम् ।अधोगमे छर्द्दनम् ऊर्द्ध्वनिर्गमे विरेचनम् ।उभयत्र लङ्घनम् पुरातनाः षष्टिकशालिकोद्रव-प्रियङ्गुनीवारयवप्रशातिकाः मुद्गः मसूरः ।चणकः तुवरी मुकुष्टकः चिङ्गटः वर्म्मि-मत्स्यः शशः कपोतः हरिणः एणः ।लावः शरालिः पारावतः वर्त्तकः वकः ।उरभ्रः कालपुच्छः कपिञ्जलः कषायवर्गः ।गोदुग्धघृतम् अजादुग्धघृतम् महिषीघृतम् ।पनसम् पियालम् रम्भाफलम् कञ्चटम् ।तण्डलीयः पटोलम् वेत्राग्रम् महार्द्रकम् ।पुराणकुष्माण्डफलम् पक्वतालम् तद्बीजजलम् ।वासा स्वादूनि विल्वम् दाडिमम् खर्ज्जू-रम् धात्री मिषिः नारिकेलम् कशेरु ।शृङ्गाटकम् पौष्करम् कपित्थम् शालू-कम् परूषकम् भूनिम्बशाकम् पिचुमर्द्द-पत्रम् तुम्वी कलिङ्गम् लाजशक्तवः ।द्राक्षा सिता माक्षिकम् ऐक्षवम् शीतो-दकम् औद्भिदवारि सेकः अवगाहः ।शतधौतसर्पिः अभ्यङ्गः शिशिरप्रदेहः ।हिमानिलः चन्दनम् इन्दुपादाः मनोऽनु-कूलविचित्रकथा धारागृहम् सुशीतं भूमि-गृहम् वैदूर्य्यमुक्तामणीनां धारणम् रम्भोत्-पलाम्भोरुहपत्राणां शय्या क्षौमाम्बरम् ।सुशीतोपवनम् प्रियङ्गुः चन्दनरूषितानांवराङ्गनानामालिङ्गनम् पद्माकरसरिथ्रद-चन्द्रोदयहिमवद्दरीसुशीतलगिरिनिर्झराणामा-लिङ्गनम् श्रुतिप्रशस्तकीर्त्तनम् प्रवीणनीरम् ।हिमवालुका
*
रक्तपित्ते अपथ्यं यथा ।व्यायामः अध्वनिषेवणम् रविकरः ती-क्ष्णानि कर्म्माणि क्षोभः वेगधारणम् ।चपलता हस्त्यश्वयानानि स्वेदः अस्रस्रुतिः ।धूमपानम् सुरतः क्रोधः कुलत्थः गुडः ।वार्त्ताकुः तिलः माषः सर्षपः दधि ।क्षारः कौपपयः ताम्बूलम् नलदाम्बु ।मद्यम् लशुनम् शिम्बी विरुद्धाशनम् कटु ।अम्लम् लवणम् विदाहिद्रव्यम्
*
अथ राजयक्ष्मणि पथ्यम् ।घृतपक्वमरिचजीरकसंस्कृतलावतित्तिरिजरसः ।दोषाधिकस्य बलिनोऽग्रे मृदुशुद्धिः गोधूमः ।मुद्गः चणकः अरुणशालयः छागानि मांस-नवनीतपयोघृतानि क्रव्याट्मांसम् जाङ्ग-लजा रसाः मार्त्तण्डचण्डकिरणपरिशोषितसु-चूर्णितपक्वपललं लेह्यम् रागाः काम्बलिकः ।षाडवः वेशवारः शशाङ्ककिरणः मधुर-रसः मोचपनसाम्राणां पक्वफलानि धात्री ।खर्ज्जूरम् पौष्करम् परूषकम् नारि-केलम् शोभाञ्जनम् वकुलम् नवताल-शस्यम् द्राक्षा मिषिः माणिमन्थम् ।सिंहास्यपत्रम् अजागोमहिषीघृतम् छागा-श्रयः छागावस्करमूत्रलेपः मत्स्यण्डिका ।शिखरिणी मदिरा रसाला कर्पूरम् ।मृगमदः सितचन्दनम् अभ्यञ्जनानि सुरभी-ण्यनुलेपनानि स्नानम् वेशरचनम् अव-गाहनम् हर्म्यम् स्रजः स्मरकथा मृदु-गन्धवाहः गीतानि लास्यम् चन्द्ररुचिः ।विपञ्ची मृगदृशां सन्दर्शनम् हेमचूर्णम् ।मुक्तामणिप्रचूरभूषणधारणम् होमः प्रदा-नम् अमरपूजा द्विजपूजा हृद्यान्न-पानम्
*
राजयक्ष्मणि अपथ्यं यथा ।विरेचनम् वेगधारणम् श्रमः स्त्री स्वेदः ।अञ्जनम् प्रजागरः साहसकर्म्मसेवा ।रूक्षान्नपानम् विषमाशनम् ताम्बू लम् ।कालिङ्गम् कुलत्थम् माषः रसोनम् वंशा-ङ्कुरः रामठम् अम्लम् तिक्तम् कषायः ।सर्व्वकटु पत्रशाकः क्षारः विरुद्धाशनम् ।शिम्बी कर्कोटकम् विदाहिद्रव्यम् कृष्ण-कठिल्लकम्
*
अथ कासे पथ्यम् ।स्वेदः विरेचनम् छर्दिः धूमपानम् समा-शनम् शालिः षष्टिकः गोधूमः श्यामाकः ।यवः कोद्रवः आत्मगुप्ता माषमुद्गकुलत्थानांरसाः ग्राम्योदकम् अनूपधन्वदेशभवविविध-मांसानि सुरा पुरातनसर्पिः छागदुग्धम् ।छागघृतम् वास्तूकम् षायसीशाकम् ।वार्त्ताकुः बालमूलकम् कण्टकारी कास-मर्द्दः जीवन्ती सुनिषण्णकम् द्राक्षा ।विम्बी मातुलुङ्गम् पौष्करम् वासकः ।त्रुटिः गोमूत्रम् लशुनम् पथ्या व्योषम् ।उष्णोदकम् मधु लाजाः दिवसनिद्रा ।लघून्यन्नानि
*
कासे अपथ्यं यथा ।वस्तिः नस्यम् असृङ्मोक्षः व्यायामः ।दन्तघर्षणम् आतपः दुष्टपवनः रजः ।मार्गनिषेवणम् विष्टम्भीनि विदाहीनि ।विविधरूक्षाणि शकृन्मूत्रोद्गारकासवमिवेग-विधारणम् मत्स्यः कन्दः सर्षपः तुम्बी ।उपोदिका दुष्टाम्बु दुष्टान्नपानम् विरुद्धा-शनम् गुरुशीतान्नपानम्
*
अथ श्वासे पथ्यम् ।विरेचनम् स्वेदनम् धूमपानम् प्रच्छर्द्दनम् ।दिवास्वपनम् पुरातनाः षष्टिकरक्तशालिकुलत्थ-गोधूमयवाः शशः अहिभुक् तित्तिरिः ।लावः दक्षः शुकादयः धन्वमृगाः धन्व-पक्षिणः पुरातनसर्पिः अजादुग्धघृतम् ।सुरा मधु निदिग्धिका वास्तूकम् तण्डु-लीयः जीवन्तिका मूलकपोतिका पटो-लम् वार्त्ताकुः रसोनम् पथ्या जम्बीरम् ।विम्बीफलम् मातुलुङ्गम् द्राक्षा त्रुटिः ।पौष्करम् उष्णवारि कटुत्रयम् गोमूत्रम् ।कफानिलघ्नान्यन्नपानभेषजानि वक्षःप्रदेशात्पार्श्वयुग्मे करस्थयोर्मध्यमयोर्द्बयोः कण्ठकूपे चप्रदीप्तलौहेन दाहः
*
श्वासे अपथ्यं यथा ।मूत्रोद्गारच्छर्द्दितृट्कासानां रोधः नस्यम् ।वस्तिः दन्तकाष्ठम् श्रमः अध्वा भारः ।रेणुः सूर्य्यकिरणः विष्टम्भीनि ग्राम्यधर्म्मः ।विदाहीनि आनूपमामिषम् निष्पावः श्लेष्म-कारीणि माषः रक्तस्रावः पूर्व्ववातान्न-पानम् मेषीघृतदुग्धम् दुष्टजलम् मत्स्यः ।कन्दः सर्षपः रूक्षशीतगुर्व्वन्नपानम्
*
अथ हिक्कायां पथ्यम् ।स्वेदनम् वमनम् नस्यम् धूमपानम् विरे-चनम् निद्रा स्निग्धानि लघून्यन्नानि लव-णानि जीर्णकुलत्थगोधूमशालिषष्टिकयवाः ।एणतित्तिरिलावाद्या जाङ्गला मृगपक्षिणः ।पक्वकपित्थभ् लशुनम् पटोलम् बालमूल-कम् पौष्करम् कृष्णतुलसी मदिरा नल-दाम्वु उष्णोदकम् मातुलुङ्गम् माक्षिकम् ।सुरभिजलम् वातश्लेष्महराण्यन्नपानानि ।शीताम्वुसेकः सहसा त्रासः विस्मापनम् ।भयम् क्रोधः हर्षः प्रियोद्वेगः प्राणा-यामनिषेवणम् दग्धसिक्तमृदाध्राणम् कूर्च्चेधाराजलार्पणम् नाभ्यूर्द्ध्वपीडनम् पायूर्द्ध्वंनाभेर्द्व्यङ्गुलादूर्द्ध्वञ्च दीपदग्धहरिद्रया दाहः
*
हिक्कायां अपथ्यं यथा ।वातमूत्रोद्गारकासशकृद्वेगधारणम् रजः ।अनिलः आतपः विरुद्धाशनम् विष्टम्भीनि ।विदाहीनि रूक्षाणि कफदानि निष्पावः ।पिष्टकः माषः पिण्याकः आनूपमामिषम् ।अविदुग्धम् दन्तकाष्ठम् वस्तिः मत्स्यः ।सर्षपम् अम्लम् तुम्बी कन्दः तैलभृष्टम् ।उपोदिका गुरुशीतान्नपानम्
*
अथ स्वरभेदे पथ्यम् ।स्वेदः वस्तिः धूमपानम् विरेकः कवल-ग्रहः नस्यम् भालसिरावेधः यवः लोहित-शालिः हंसाटवी ताम्रचूडकेकिनां मांस-रसाः सुरा गोकण्टकः काकमाची ।जीवन्ती बालमूलकम् द्राक्षा पथ्या मातु-लुङ्गम् लशुनम् लवणार्द्रकम् ताम्बूलम् ।मरिचम् सर्पिः
*
स्वरभेदे अपथ्यम् ।आमकपित्थम् वकुलम् शालूकम् जाम्ब-वम् तिन्दुकम् कषायः वमिः स्वप्नः ।प्रजल्पनम् अनुपानम्
*
अथारोचके पथ्यम् ।वस्तिः विरेकः यथाबलं वमनम् धूमोप-सेवा कवडग्रहः तिक्तकाष्ठेन दन्तधावनम् ।चित्रान्नपानम् गोधूमः मुद्गाः लोहित-शालयः षष्टिका वराहच्छागशशैणानांमांसम् चेङ्गः झसाण्डम् मधुरालिका ।इल्लिशः प्रोष्ठी खलेशः कवयी रोहितः ।कर्कारुः वेत्राग्रम् नवीनमूलकम् वार्त्ताकुः ।शोभाञ्जनम् मोचम् दाडिमम् भव्यम् ।पटोलम् रुचकम् घृतम् पयः बाल-तालम् रसोनम् शूरणम् द्राक्षा रसा-लम् नलदाम्वु काञ्जिकम् मद्यम् रसाला ।दधि तक्रम् आर्द्रकम् कक्कोलम् खर्ज्जू-रम् पियालम् तिन्दुकम् पक्वकपित्थम् ।वदरम् विकङ्कतम् तालास्थिमज्जा हिम-वालुका सिता पथ्या यमानी मरिचम् ।रामठम् स्वाद्वम्लतिक्तानि देहमार्जना
*
अरोचके अपथ्यम् ।कासोद्गारक्षुघानिद्रावमीनां वेगधारणम् अहृ-द्यान्नम् असृङ्मोक्षः क्रोधः लोभः भयम् ।शोकः दुर्गन्धः सूर्य्यसेवा
*
अथ छर्द्यां पथ्यम् ।विरेचनम् छर्द्दनम् लङ्घनम् स्नानम् मृजा ।लाजमण्डः पुरातनाः षष्टिकशालिमुद्गाः ।कलायः गोधूमः यवः मधु शशाहिभुक्-तित्तिरिलावकाद्याः जाङ्गलमृगपक्षिणः ।मनोज्ञनानारसगन्धरूपा रसाः षाडवा यूषाः ।रागाः खडाः काम्बलिकाः सुरा वेत्रा-ग्रम् कुस्तुम्बुरु नारिकेलम् पचेलिमानिजम्बीरधात्रीसहकारकोलद्राक्षाकपित्थानि ह-रीतकी दाडिमम् बीजपूरम् जातीफलम् ।बालकम् निम्बम् वासा सिता शताह्वा ।करिकेशरम् हितमनःप्रीतिकरभक्ष्याः भुक्तस्यवक्त्रे शिशिराम्बुसेकः कस्तूरिका चन्दनम् ।इन्दुकिरणः मनोज्ञगन्धान्यनुलेपनानि सु-गन्धिपुष्पपानफलानि स्वमनोऽनुकूलरूपरस-गन्धस्पर्शशब्दाः नाभेस्त्रियवोपरिष्टाद्दाहः
*छर्द्यां अपथ्यम् ।नस्यम् वस्तिः स्वेदनम् स्नेहपानम् रक्त-स्रावः दन्तकाष्ठम् द्रवान्नम् वीभत्सदर्श-नम् भीतिः उद्वेगः उष्णस्त्रिग्धासात्म्या-हृद्यवैरोधिकान्नम् रम्भा शिम्बी कोष-वती मधूकम् चित्रा सूक्ष्मैला सर्षपः ।देवदाली व्यायामः छत्रिका अञ्जनम्
*
अथ तृष्णायां पथ्यम् ।शोधनम् वमनम् निद्रा स्नानम् कवलधार-णम् दीपदग्धहरिद्रया जिह्वाधःशिरयोर्द्दाहः ।कोद्रवाः शालयः पेयाः विलेपी लाज-शक्तवः अन्नमण्डः धन्वरसः शर्करा रागः ।षाडवः भृष्टमुद्गमसूरचणककृतरसः रम्भा-पुष्पम् तैलकूर्च्चम् द्राक्षा पर्पटपल्लवः क-पित्थम् कोलम् मल्लिका कुष्माण्डकम् उपो-दिका खर्ज्जूरम् दाडिमम् धात्री कर्कटी ।नलदाम्बु जम्बीरम् करमर्द्दम् बीजपूरम् ।गवां पयः मधूकपुष्पम् ह्रीवेरम् तिक्तानि ।मघुराणि बालतालाम्वु शीताम्बु पयःपेटी ।प्रपानकम् माक्षिकम् सरसीतोयम् शताह्वा ।नागकेशरम् एला जातीफलम् पथ्या ।कुस्तुम्बुरु टङ्कणम् घनसारः गन्धसारः ।कौमुदी शिशिरानिलः चन्दनार्द्रप्रियाश्लेषः ।रत्नाभरणधारणम् हिमानुलेपनम्
*
तृष्णाया अपथ्यम् ।स्नेहः अञ्जनम् स्वेदः धूमपानम् व्यायामः ।नस्यम् आतपः दन्तकाष्ठम् गुर्व्वन्नम् ।अम्लम् लवणम् कषायः कटुः स्त्रियः ।दुष्टजलम् तीक्ष्णम्
*
अथ मूर्च्छायां पथ्यम् ।सेकः अवगाहः मणिः हारः शीताः ।प्रदेहाः व्यजनानिलः शीतानि गन्धवन्तिपानानि धारागृहम् शीतमरीचिरोचिः ।धूमः अञ्जनम् लावणम् अस्रमोक्षः दाहः ।सूचीपरितोदनम् लोम्नां कचानाञ्च लुञ्च-नम् नखान्तपीडा दशनोपदंशः नासा-मुखद्वारमरुन्निरोधः विरेचनम् छर्द्दनम् ।लङ्घनम् क्रोघः भयम् दुःखकरी शय्या ।विचित्रा मनोहराः कथाः छाया नभोऽम्भः ।शतधौतसर्पिः मृदूनि तिक्तानि लाजमण्डः ।जीर्णयवलोहितशालयः कौम्भं हविः मुद्ग-यूषः सतीलयूषः धन्वोद्भवा मांसरसाः ।रागाः षाडवाः गव्यपयः सिता पुराण-कुष्माण्डम् पटोलम् मोचम् हरीतकी ।दाडिमम् नारिकेलम् मधूकपुष्पम् तण्डु-लीयः तुषोदकम् लघून्यन्नानि प्रनीर-नीरम् सितचन्दनम् कर्पूरनीरम् हिम-वालका अत्युञ्चशब्दः अद्भुतदर्शनम् उत्-कटगीतम् उत्कटवाद्यम् श्रमः स्मृतिः ।चिन्तनम् आत्मबोधः धैर्य्यम्
*
मूर्च्छायामपथ्यं यथा ।ताम्बूलम् पत्रशाकम् व्यवायः स्वेदनम् ।कटुः तृन्निद्रयोर्वेगरोधः तक्रम्
*
अथ मदात्यये पथ्यम् ।संशोधनम् संशमनम् स्वपनम् लङ्घनम् ।श्रमः सम्बत्सरसमुत्पन्नशालिषष्टिकयवमुद्ग-माषगोधूमसतीलाः रागः षाडवः एण-तित्तिरिलावाजदक्षवर्हिशशानामामिषम् वेश-वारः विचित्रान्नम् हृद्यमद्यम् पयः ।सिता तण्डुलीयः पटोलम् मातुलुङ्गम् ।परूषकम् स्वर्ज्जूरम् दाडिमम् घात्री ।नारिकेलम् गोस्तनी पुराणसर्पिः कर्पूरम् ।प्रनीरम् शिशिरानिलः धारागृहम् चन्द्र-पादाः मणयः मित्रसङ्गमः क्षौमाम्बरम् ।प्रियाश्लेषः उद्धतगीतवादित्रम् शीताम्ब ।चन्दनम् स्नानम्
*
मदात्यये अपथ्यं यथा ।स्वेदः अञ्जनम् धूमपानम् लावणम् दन्त-घर्षणम् ताम्बू लम्
*
अथ दाहे पथ्यम् ।शालयः षष्टिकाः मुद्गाः मसूराः चणकाः ।यवाः घन्वमांसरसाः लाजमण्डः लाज-शक्तवः सिता शतघौतघृतम् दुग्धम् ।पयोभवनवनीतम् कुष्माण्डम् कर्कटी ।मोचम् पनसम् स्वादुदाडिमम् पटोलम् ।पर्पटम् द्राक्षा धात्रीफलम् परूषकम् ।शिम्बी तुम्बी पयःपेटी खर्ज्जूरम् धान्य-कम् मिसिः बालतालम् पियालम् शृङ्गा-टकम् कशेरुकम् मधूकपुष्पम् ह्नीवेरम् ।पथ्या सर्व्वाणि तिक्तानि शीताः प्रदेहाः ।भूवेश्म सेकः अभ्यङ्गः अवगाहनम् ।पद्मोत्पलदलक्षौमाणां शय्या शीतलकाननम् ।विचित्रा कथा गीतानि शिशिरः मञ्जु-भाषणम् उशीरचन्दनालेपः शीताम्बु ।शिशिरानिलः घारागृहम् प्रियास्पर्शः ।प्रनीरम् हिमवालुका सुधांशुरश्मयः स्नानम् ।मणयः मघुररसः
*
दाहे अपथ्यम् ।विरुद्धान्यन्नपानानि क्रोधः वेगधारणम् ।गजाश्वयानम् अध्वा क्षारम् पित्तकराणि ।व्यायामः आतपः तक्रम् ताम्बूलम् ।मधु रामठम् व्यवायः कटुः तिक्तः ।उष्णः
*
अथोन्मादे भूतोन्मादे पथ्यम् ।मरुद्भवे पूर्व्वं स्वेदः पित्तोदभवे पूर्व्वं विरेकः ।कफोद्भवे पूर्व्वं वमनम् ततःपरं वस्तिविधिः ।नस्यम् सन्तर्जनम् ताडनम् अञ्जनम् ।आश्वासनम् त्रासनम् बन्धनम् भयम् ।हर्षणम् दानम् धूपः दमः विस्मरणम् ।प्रदेहः शिराव्यधः संशमनम् सेकः ।आश्चर्य्यकर्म्माणि घूमपानम् धीधैर्य्यम् ।सत्वम् आत्मनिवेदनम् अभ्यञ्जनम् स्वाप-नम् आसनम् निद्रा सुशीतान्यनुलेपनानि ।गोधूमः मुद्गः अरुणशालयः धारोष्णदुग्धम् ।शतधौतसर्पिः नवीनघृतम् पुरातनघृतम् ।कूर्म्मामिषम् धन्वरसः रसालम् पुराण-कुष्माण्डफलम् पटोलम् ब्रह्मीदलम् वास्तू-कम् तण्डुलीयः खराश्वमूत्रम् गगनाम्बु ।पथ्या सुवर्णचूर्णम् नारिकेलम् द्राक्षा ।कपित्थम् पनसम्
*
उन्मादे अपथ्यम् ।मद्यम् विरुद्धाशनम् उष्णभोजनम् निद्रा-क्षुत्तृष्णावेगधारणम् व्यवायः आषाढफलम् ।कठिल्लकम् पत्रशाकम् तिक्तानि विम्बी
*
अथापस्मारे पथ्यम् ।वातोद्भवे पूर्व्वं वस्तिः पैत्तिके विरेचनम् ।श्नैष्मिके वमनम् परं धूपनम् अञ्जनम् नस्यम् ।शिराव्यधः दानम् त्रासनम् बन्धनम् ।भयम् तर्ज्जनम् ताडनम् हर्षः धूम-पानम् विस्मयः धीधैर्य्यम् आत्मादिविज्ञा-नम् स्नानम् अभ्यञ्जनम् लोहितशालयः ।मुद्गाः गोधूमाः प्रतनं हविः कूर्म्मामिषम् ।घन्वरसः दुग्धम् ब्रह्मीदलभ् वचा पटो-लम् वृद्धकुष्माण्डम् वास्तूकम् स्वादुदाडि-मम् शोभाञ्जनम् पयःपेटी द्राक्षा धात्री ।परूषकम् तैलम् खराश्बमूत्रम् गगनाम्बु ।हरीतकी
*
अपस्मारे अपथ्यम् ।चिन्ता शोकभयम् क्रोधः अशुचीन्यश-नानि मद्यम् मत्स्यः विरुद्धान्नम् तीक्ष्णोष्ण-गुरुभोजनम् अतिव्यवायः आयासः पूज्य-पूजाव्यतिक्रमः पत्रशाकानि विम्वी आषाढ-फलम् तृष्णानिद्राक्षुधावेगाः
*
अथ वातरोगे पथ्यम् ।अभ्यङ्गः मर्द्दनम् वस्तिः स्नेहः स्वेदः ।अवगाहनम् संवाहनम् संशमनम् प्रावृतिः ।वातवर्ज्जनम् अग्निकर्म्म उपनाहः भूशय्या ।स्नानम् आसनम् तैलद्रोणी शिरोवस्तिः ।शयनम् नस्यम् आतपः सन्तर्पणम् बृंह-णम् किलाटः दधि कूर्च्चिका सर्पिः ।तैलम् वसा मज्जा स्वाद्बम्ललवणा रसाः ।नवीनतिलगोधूममाषाः सम्बत्सरोषितशालि-षष्टिकाः कुलत्थरसः सुरा ग्राम्या गोऽश्व-तरोष्ट्ररासभच्छागलादयः आनूपाः कोल-महिषन्थङ्कखड्गिगजादयः औदका हंस-कादम्बचक्रमद्गुरकादयः विलेशया भेक-गोधानकुलश्वाविदादयः जाङ्गलाः चटक-कुक्कुटवर्हितित्तिरयः शिलिन्दः पर्व्वतः ।नक्रः गर्गरः कवयी इल्लिशः एरण्डः ।चुलुकी कूर्म्मः शिशुमारः तिमिङ्गिलः ।रोहितः मद्गुरः शृङ्गी वर्म्मी खुड्डीशः ।एते झषाः पटोलम् शिग्रु वार्त्ताकुः ।लशुनम् दाडिमद्वयम् पक्वतालम् रसा-लम् नलदाम्बु परूषकम् जम्बीरम् ।वदरम् द्राक्षा नागरङ्गम् मधूकजम् ।प्रसारणी गोक्षुरकः शुक्लाक्षी पारि-भद्रकः पयांसि पयःपेटी रुवुतैलम् गवांजलम् मत्स्यण्डिका ताम्बूलम् धान्याम्लम् ।निन्तिडीफलम् स्निग्धोष्णभोज्यानि स्निग्धो-ष्णानुलेपनम् आमाशयमुपागते विशेषाद्वम-नम् पक्वाशयस्थे तथा मांसस्थे स्निग्धविरेच-नम् प्रत्याध्मानाध्मानसङ्गे वर्त्तिः लङ्घनं दीप-नम् अष्ठीलाख्ये गुल्मविधिः शुक्रस्थे क्षय-जित्क्रिया त्वङ्मांसासृक्सिराप्राप्ते रक्त-मोक्षणम्
*
वातरोगे अपथ्यम् ।चिन्ता प्रजागरः वेगधारणम् छर्द्दिः ।श्रमः अनशनम् चणकः कलायः नीवार-कङ्गुयववैणवकोरदूषश्यामाकचूर्णम् कुरु-विन्दः तृणधान्यानि राजमाषः मुद्गः ।तडागसरिदम्बु करीरम् जम्बु कशेरु ।तलकम् क्रमुकम् मृणालम् निष्पावबीजम् ।तालफलास्थिमज्जा शालूकम् तिन्दुकम् ।कठिल्लकम् बालतालम् विम्बी पत्रशाकम् ।उडुम्बरम् शीताम्बु रासभपयः विरुद्ध-मन्नम् क्षारः शुष्कपललम् क्षतजस्रुतिः ।क्षौद्रम् कषायकटुतिक्तरसाः व्यवायः ।हस्त्यश्वयानम् चंक्रमणम् खट्वा आध्मानि-नोऽर्द्दितवतोऽपि विशेषात् स्नानम् प्रदुष्ट-सलिलम् दन्तघर्षणम्
*
अथ वाते गुग्गुलुसेविनां पथ्यम् ।क्षीरम् मांसरसाः यूषाः कलमादिशालयः ।यवगोधूममाषाः
*
गुग्गुलावपथ्यम् ।व्यायामः आतपः रूक्षम् स्नानम् बहु-भाषणम् प्रवातः मैथुनम् यानम्
*
अथ वातरक्ते पथ्यम् ।उत्तानेऽभ्यञ्जनम् सेकः सोपनाहः प्रलेपनम् ।गम्भीरे स्नेहपानं आस्थापनं विरेचनम् सर्व्वत्रसूचीजलौकशृङ्गालावुभिरस्रस्रुतिः शतधौत-घृताभ्यङ्गः मेषीदुग्धावसेचनम् यवः ।षष्टिकः नीवारः कलमः अरुणशालिः ।गोधूमः चणकः मुद्गः तुवरी मुकुष्टकः ।अव्यजामहिषीगवां पयः लावः तित्तिरिः ।सर्पद्बिट् ताम्रचूडादिः एते विष्किराः ।प्रत्तदाः शुकदात्यूहकपोतचटकादयः उपो-दिका काकमाची वेत्राग्रम् सुनिषण्णकम् ।वास्तूकम् कारवेल्लम् तण्डुलीयः प्रसारणी ।पत्तूरः वृद्धकुष्माण्डम् सर्पिः सम्पाकपल्ल-वम् पटोलम् रुवुतैलम् मृद्वीका श्वेत-शर्करा नवनीतम् सोमवल्ली कस्तूरी ।सितचन्दनम् शिंशपागुरुदेवाह्वसरलस्नेह-मर्द्दनम तिक्तम्
*
वातरक्ते अपथ्यम् ।दिवास्वप्नः अग्निसन्तापः व्यायामः आतपः ।मैथुनम् माषः कुलत्थः निष्पावः कलायः ।क्षारसेवनम् अम्बुजानूपमांसानि विरुद्धानि ।दधीनि इक्षुः मूलकम् मद्यम् पिण्या-कम् अम्लम काञ्जिकम् कटु उष्णम् ।गुरु अभिष्यन्दि लवणम् शक्तवः
*
अथोरुस्तम्भे पथ्यम् ।सर्व्वो रूक्षविधिः स्वेदः कोद्रवः रक्तशालिः ।यवः कुलत्थः श्यामाकः पुरातनोद्दालाः ।शोभाञ्जनम् कारवेल्लम् पटोलम् लशुनम् ।सुनिषण्णम् काकमाची वेत्राग्रम् निम्ब-पल्लवम् पत्तूरः वास्तूकम् पथ्या वार्त्ताकुः ।तप्तवारि सम्पाकशाकम् पिण्याकम् तक्रम् ।अरिष्टम् मधु कटुः तिक्तः कषायः ।क्षीरसेवा गवां जलम् यथाशक्तिव्यायामः ।स्थूलस्याक्रमणम् अच्छह्रदे सन्तरणम् नदीषुप्रतिस्रोतः सन्तरणम् श्लेष्मापहरणम् अमा-रुतकोपनम्
*
ऊरुस्तम्भे अपथ्यम् ।गुरुशीतद्रवस्निग्धविरुद्धासात्म्यभोजनम् विरे-चनम् स्नेहनम् वमनम् रक्तमोक्षणम् ।वस्तिः
*
अथामवाते पथ्यम् ।रूक्षस्वेदः लङ्घनम् स्नेहपानम् वस्तिः ।लेपः रेचनम् पायुवर्त्तिः अब्दोत्पन्नशालि-कुलत्थाः जीर्णं मद्यम् जाङ्गलानां रसः ।वातश्लेष्मघ्नानि सर्व्वागि तक्रम् वर्षाभूः ।एरण्डतैलम् रमोनम् पटोलम् पत्तूरकम् ।कारवेल्लम् वार्त्ताकुः शिग्रु तसनीरम् ।मन्दारः गोकण्टकः वृद्धदारः मल्लातकम् ।गोजलम् आर्द्वकम् कटूनि तिक्तानि ।दीपनानि
*
आमवाते अपथ्यम् ।दधिः मत्स्यः गुडः क्षीरम् उपोदिका ।माषः पिष्टकम् दुष्टनीरम् पूर्व्ववातः ।विरुद्धाशनम् असात्म्यम् वेगरोधः जागरः ।विषमाशनम्
*
अथ शूले पथ्यम् ।छर्द्दिः स्वेदः लङ्घनम् पायुवर्त्तिः वस्तिः ।निद्रा रेचनम् पाचनम् अब्दोत्पन्नाःशालयः वाट्यमण्डः तप्तक्षीरम् जाङ्गलानांरसः पटोलम् शोभाञ्जनम् कारवेल्लम् ।वार्त्ताकुः पक्वाम्रम् द्राक्षा कपित्थम् रुच-कम् पियालम् शालिञ्चपत्राणि वास्तूकम् ।सामुद्रम् सौवर्च्चलम् हिङ्गु विश्वम् विडम् ।शताह्वा लशुनम् लवङ्गम् एरण्डतैलम् ।सुरभीजलम् तप्ताम्बु जम्बीररसः कुष्ठम् ।लघूनि क्षाररजांसि
*
शूले अपथ्यम् ।विरुद्धान्नपानम् जागरः विषमाशनम् ।रूक्षतिक्तकषायाणि शीतलानि गुरूणि ।व्यायामः मैथुनम् मद्यम् वैदलम् लव-णम् कटु वेगरोधः शोकः क्रोधः
*
अथोदावर्त्तानाहयोः पथ्यम् ।नारिकेलपुष्पमिश्रितशीतलोदकपानम् स्नेह-स्वेदः विरेकः वस्तिः फलवर्त्तिः अभ्यङ्गः ।यवः सृष्टविण्मूत्रमारुतः ग्राम्योदकम् आनूप-रसः रुवुतैलम् वारुणी बालमूलकम् ।सम्पाकः त्रिवृत् तिलः सुधादलम् शृङ्ग-वेरम् मातुलुङ्गम् यवक्षारः हरीतकी ।लवङ्गम् रामठम् द्राक्षा गोमूत्रम् लव-णानि अधोवातसमुत्थे तु स्नेहः स्वेदः ।वर्त्तिः वस्तिः समीरणहरान्नपानम् तथापुरीषजे वस्तिः स्वेदः अभ्यङ्गः अव-गाहनम् फलवर्त्तिः विड्भेद्यशनपानम् ।मूत्रवेगसमुत्पन्ने त्रिविधं वस्तिकर्म्म स्वेदः ।अभ्यङ्गः अवगाहः सर्पिषावपीडनम् ।उद्गारोत्थे हिक्काघ्नविधिः कासजे कासजि-द्विघिः क्षवजे स्वेदनम् धूमः औत्तरभक्तिक-घृतम् क्षवप्रवर्त्तननस्यम् ऊर्द्ध्वजत्रुकाभ्यङ्गः ।तृष्णोत्थे शीतान्नपानम् जृम्भोत्थे वातजित्-क्रिया निद्रावेगोत्थिते क्षीरम् स्वप्नसंवाह-नम् बुभुक्षोत्थे स्निग्धाल्पोष्णलघुभोजनम् ।वास्पजे वास्पसंमोक्षः स्वप्नः मद्यम् प्रिय-कथा श्रमश्वाससमुत्पन्ने विश्रामः वात-हारिद्रव्यम् शुक्रोत्थे वस्तिः अभ्यङ्गः अव-गाहः चरणायुधः शालिः मदिरा ।क्षीरम् यौवनगर्व्वितप्रिया छर्द्द्युत्थे लङ्घ-नम् धूमः भुक्त्वा प्रच्छर्द्दनम् श्रमः रूक्षान्न-पानम् विरेकः रक्तमोक्षणम्
*
उदावर्त्तानाहयोरपथ्यम् ।वमनम् वेगरोधः शमीधान्यम् कोद्रवः ।नालीचशाकम् शालूकम् जाम्बवम् कर्कटी-फलम् पिण्याकम् सर्व्वमालुकम् करीरः ।पिष्टवैकृतम् विष्टम्भीनि विरुद्धानि कषा-याणि गुरूणि
*
अथ गुल्मे पथ्यम् ।स्नेहस्वेदः विरेकः वस्तिः बाहुसिराव्यधः ।लङ्घनम् वर्त्तिः अभ्यङ्गः स्नेहः पक्वे तुपाटनम् सम्बत्सरसमुत्पन्नकलायरक्तशालयः ।खडः कुलत्थयूषः घन्वमांसरसः सुरा ।गवाजयोः पयः मृद्वीका परूषकम् खर्ज्जू-रम् दाडिमम् धात्री नागरङ्गम् अम्ल-वेतसम् तक्रम् एरण्डतैलम् लशुनम् बाल-मूलकम् पत्तूरः वास्तूकम् शिग्रु यव-क्षारः हरीतकी रामठम् मातुलुङ्गम् ।त्र्यूषणम् सुरभीजलम् स्निग्धोष्णबृंहणलघु-दीपनान्नानि वातानुलोमनम्
*
गुल्मे अपथ्यम् ।सर्व्वं वातकारि विरुद्धाशनम् वल्लूरम् मूल-कम् मत्स्थः मधुरफलम् शुष्कशाकम् ।शमीधान्यम् विष्टम्भीनि गुरूणि अघो-वातशकृन्मूत्रश्रमश्वासाश्रुधारणम् वमनम् ।जलपानम्
*
अथ हृद्रोगे पथ्यम् ।स्वेदः विरेकः वमनम् लङ्घनम् वस्तिः ।विलेपी पुरातनरक्तशालयः जाङ्गलमृग-पक्षियूषाः मुद्गकुलत्थरसाः रागाः खडाः ।काम्बलिकाः षाडवाः भव्यम् पटोलम् ।कदलीफलम् पुराणकुष्माण्डम् रसालम् ।दाडिमम् सम्पाकशाकम् नवमूलकम् एरण्ड-तैलम् गगनाम्बु सैन्धवम् द्राक्षा तक्रम् ।पुरातनगुडः शुण्ठी यमानी लशुनम् हरी-तकी कुष्ठम् कुस्तुम्बुरु कृष्णम् आर्द्रकम् ।सौवीरम् शुक्तम् मधु वारुणीरसः कस्तू-रिका चन्दनम् प्रपानकम् ताम्बूलम्
*
हृद्रोगे अपथ्यम् ।तृट्छर्द्दिमूत्रानिलशुक्रकासोद्गारश्रमश्वासविड-श्रूणां वेगधारणम् सह्याद्रिविन्ध्याद्रिनदीनांजलम् मेषीपयः दुष्टजलम् कषायः विरु-द्धम् उष्णम् गुरु तिक्तः अम्लः चिर-न्तनपत्रोत्थशाकानि क्षारः मधूकम् दन्त-काष्ठम् रक्तस्रुतिः
*
अथ मूत्रकृच्छ्रे पथ्यम् ।वातोद्भवे अभ्यङ्गः निरूहः वस्तिः स्नेहः ।अवगाहः उत्तरवस्तिः सेकः पैत्ते अव-गाहः शिशिरप्रदेहः ग्रैष्मो विधिः वस्ति-विधिः विरेकः श्लेष्मोद्भवे स्वेदः विरेकः ।वस्तिः क्षारः यवान्नम् तीक्ष्णम् उष्णम् ।त्रिदोषजे अभ्यङ्गपुरःसराणि त्रिमलोदितानिसर्व्वाण्यमूनि यथा यथा दोषमयं गणः पुरा-तनलोहितशालिः गोभवतक्रपयोदधीनि ।धन्धामिषम् मुद्गरसः सिता पुराणकुष्माण्ड-फलम् पटोलम् महार्द्रकम् गोक्षुरकः ।कुमारी गुवाकखर्ज्जूरनारिकेलतालद्रुमाणांशिरांसि पथ्या तालास्थिमज्जा त्रपुषम् ।त्रुटिः शीतपानम् शीताशनम् प्रनीर-नीरम् हिमवालुका
*
मूत्रकृच्छ्रे अपथ्यम् ।मद्यम् श्रमः निधुवनम् गजवाजियानम् ।सर्व्वं विरुद्धाशनम् विषमाशनम् ताम्बूलम् ।मत्स्यः लवणम् आर्द्रकम् तैलभृष्टम् ।पिण्याकम् हिङ्गु तिलः सर्षपः वेगरोधः ।माषः करीरः अतितीक्ष्णम् विदाहि ।रूक्षम् अम्लः
*
अथ मूत्राघाते पथ्यम् ।अभ्यञ्जनम् स्नेहः विरेकः वस्तिः स्वेदः ।अवगाहः उत्तरवस्तिः पुरातनलोहित-शालिः धन्वभवमांसम् मद्यम् तक्रम् पयः ।दधि माषयूषः पुराणकुष्माण्डफलम् पटो-लम् महार्द्रकम् तालफलास्थिलज्जा हरी-तकी कोमलनारिकेलम् गुवाकखर्ज्जूरनारि-केलतालद्रुमाणां मस्तकानि
*
मूत्राघाते अपथ्यम् ।सर्व्वाणि विरुद्धानि व्यायामः मार्गः शीत-लम् रूक्षम् विदाहि विष्टम्भि व्यवायः ।वेगधारणम् करीरम् वमनम्
*
अथाश्मर्य्यां पथ्यम् ।वस्तिः विरेकः वमनम् लङ्घनम् स्वेदः ।अवगाहः वारिसेचनम् यवाः कुलत्थाः ।प्रपुराणशालयः मद्यम् घन्वाण्डजसम्भवरसः ।पुराणकुष्माण्डफलम् कशेरुकम् गोकण्टकः ।वारुणशाकम् आर्द्रकम् पाषाणभेदी यव-शूकः रेणुः छिन्ना अश्मनां समाकर्षणम्
अश्मर्य्यां अपथ्यम् ।मूत्रस्य शुक्रस्य वेगधारणम् अम्लः ।विष्टम्भि रूक्षम् गुर्व्वन्नपानम् विरुद्धपाना-शनम्
*
अथ प्रमेहे पथ्यम् ।पूर्व्वं लङ्घनम् वमनम् विरेचनम् प्रोद्वर्त्त-नम् शमनम् दीपनम् नीवारः कङ्गुः ।यवः वैणवः कोरदूषः श्यामाकः जूर्णः ।कुरुविल्वः मुकुष्टकः गोधूमः शालिः ।कलमः पुरातनकुलत्थः मुद्गाढकीचणक-यूषरसाः तिलाः लाजाः पुरातनसुरा ।मधु वाट्यमण्डः तक्रम् रासभजलम् ।महिषीजलम् कह्वः जाङ्गलाः कपोतशश-तित्तिरिलाववर्हिभृङ्गैणवर्त्तकशुकादयः शोभा-ञ्जनम् कुलकम् कठिल्लकम् कर्कोटकम् ।तलकम् वार्हतम् औड म्बरम् लशुनम् ।नवीनमोचम् पत्तूरम् गोक्षुरकम् मूषिक-पर्णिशाकम् मन्दारपत्रम् अमृता त्रिफला ।कपित्थम् जम्बूः कशेरु कमलोत्पलकन्द-बीजम् खर्ज्जूरलाङ्गलिकतालतरूणां मस्तकम् ।व्योषम् तिन्दुकफलम् खदिरः कलिङ्गः ।तिक्तः कषायः हस्त्यश्ववाहनम् अतिभ्रम-णम् रविकिरणः व्यायामः
*
प्रमेहे अपथ्यम् ।मूत्रवेगः धूमपानम् स्वेदः रक्तमोक्षणम् ।सदासन्नम् दिवानिद्रा नवान्नम् दधि ।आनूपमांसम् निष्पावम् पिष्टान्नम् मैथु-नम् सौवीरकम् सुरा शुक्तम् तैलम् ।क्षीरम् घृतम् गुडः तुम्बी तालास्थिमज्जा ।विरुद्धाशनम् कुष्माण्डम् इक्षुः दुष्टाम्बु ।स्वादु अम्लः लवणम् अभिष्यन्दि
*
अथ मेदसि पथ्यम् ।चिन्ता श्रमः जागरणम् व्यवायः प्रोद्बर्त्त-नम् लङ्घनम् आतपः हस्त्यश्वयानम् ।भ्रमणम् विरेकः प्रच्छर्द्दनम् अपतर्पणम् ।पुरातना वैणवकोरदूषश्यामाकनीवारप्रियङ्गु-जूर्णाः यवः कुलत्थः चणकः मसूरः ।मुद्गः तुवरी मधु लाजाः कटुतिक्तकषा-याणि तक्रम् सुरा चिङ्गटमत्स्यः दग्ध-वार्त्ताकुः फलत्रयम् यवासकम् शिरीष-लोध्रहरीतकीनां चूर्णेन गात्रविलेपनम् कटु-त्रयम् सर्षपतैलम् एला सर्व्वाणि रूक्षाणि ।मुख्यतैलम् पत्रशाकः अगुरुलेपनम् प्रतप्त-नीराणि शिलाजतूनि भोजनात् प्राक् वारि-पानम्
*
मेदसि अपथ्यम् ।स्नानम् रसायनम् शालिः गोधूमः सुख-शीलता क्षीरम् इक्षुविकृतिः माषः ।सौहित्यम् स्वेदनानि मत्स्यः मांसम् ।दिवानिद्रा स्रक् गन्धः मधुराणि समग्र-भोजनस्य पश्चात् जलपानम् अतिमात्रोप-चिते विशेषाद्बमनक्रिया
*
अथोदररोगे पथ्यम् ।विरेचनम् लङ्घनम् अब्दसम्भवकुलत्थमुद्गा-रुणशालियवाः जाङ्गलमृगपक्षिणः सिता ।सुरा माक्षिकम् सीधुः माध्वीकम् ।षाडवः तक्रम् रसोनम् रुवुतैलम् आर्द्र-कम् शालिञ्चशाकम् कुलकम् कठिल्लकम् ।पुनर्नवा शिग्रुफलम् हरीतकी ताम्बू-लम् एला यवशूकम् आयसम् अजा-गवोष्ट्रीमहिषीणां पयः मूत्रञ्च लघूनि ।तिक्तानि दीपनानि वस्त्रेण सम्बेष्टनम् ।अग्निकर्म्म विषप्रयोगः विशेषतः प्लोहसमु-द्भवे वामे अग्रवाहौ धमनीव्यधः वद्धाह्वयेउदकजे क्षतोत्थिते नाभेरधः यथाविधिशस्त्र-विधिः समीरणोत्थे आदितः घृतपानम् ।अभ्यञ्जनम् अनुवासनम्
*
उदररोगे अपथ्यम् ।सस्नेहनम् धूमपानम् जलपानम् सिरा-व्यधः छर्द्दिः यानम् दिवानिद्रा व्यायामः ।पिष्टवैकृतम् औदकानूपमांसम् पत्रशाकम् ।तिलः उष्णानि विदाहीनि लवणाशनम् ।शमीधान्यम् विरुद्धान्नम् दुंष्टनीरम् गुरूणि ।महेन्द्रगिरिजातानां नदीनां जलम् विष्ट-म्भीनि छिद्रसमुद्भवे विशेषतः स्वेदः
*
अथ शोथे पथ्यम् ।संशोधनम् लङ्घनम् अस्रमोक्षः स्वेदः ।प्रलेपः परिषेचनम् पुरातनशालियवकुलत्थ-मुद्गाः गोधा शल्लकः भुजङ्गभुक्तित्तिरि-ताम्रचूडलावादयो जाङ्गलविष्किराः कूर्म्मः ।शृङ्गी प्रपुराणसर्पिः तक्रम् सुरा ।माक्षिकम् आसवः निष्पावः कठिल्लकम् ।रक्तशिग्रु रसोनम् कर्कोटकम् मानमूलम् ।सुवर्च्चला गृञ्जनकह् पटोलम् वेत्राग्रम् ।वाडिङ्गनम् मूलकम् पुनर्नवा चित्रकम् ।पारिभद्रः श्रीपर्णम् निम्बः क्षुरपल्लवम् ।एरण्डतैलम् कटुका हरिद्रा हरीतकी ।क्षारनिषेवणम् भल्लातकम् गुग्गुलुः आय-सम् कटूनि तिक्तानि दीपनानि गोऽजा-महिषीभवमूत्राणि कस्तूरिका शिलाजतु ।पाण्डुरोगोक्तवह्निकर्म्म
*
शोथे अपथ्यम् ।पवनसलिलम् वेगरोधः विरुद्धपानाशनम् ।विषमाशनम् मृद्भक्षणम् ग्राम्याब्जानूपेपिशितलवणे शुष्कशाकम् नवान्नम् गौडम् ।पिष्टान्नम् दधि कृशरम् विज्जलम् मद्यम् ।अम्लम् धानाः वल्लूरम् गुरु असात्म्यम् ।विदाहि अरात्रौ स्वप्नः मैथुनम्
*
अथ वृद्धिव्रध्नाधिकारे पथ्यम् ।संशोधनम् वस्तिः असृग्विमोक्षः स्वेदः ।प्रलेपः अरुणशालयः एरण्डतैलम् सुरभी-जलम् धन्वामिषम् शिग्रुफलम् पटोलम् ।पुनर्नवा गोक्षुरः अग्निमन्थः ताम्बूलम् ।पथ्या सरला रसोनम् वाडिङ्गनम् गृञ्ज-नकम् मधूनि कौम्भं घृतम् तप्तजलम् ।तक्रम् आमवातापहमग्निकारि चान्नपानम् ।पुराणसुरा अर्द्धेन्दुवद्वक्षणयोर्द्दाहः आमा-शये बाहुशिराव्यधः
*
व्रध्नवृद्धावपथ्यम् ।विरुद्धपानान्नम् असात्म्यसेवा संक्षोभणम् ।हस्तिहयादियानम् आनूपमांसानि दधीनि ।माषाः दुग्धानि पिष्टान्नम् उपोदिका ।गुरूणि शुक्रोत्थितवेगरोधः
*
अथ गलगण्डादौ पथ्यम् ।छर्द्धिः विरेचनम् नस्यम् स्वेदः धूमः ।शिराव्यधः अग्निकर्म्म क्षारयोगः प्रलेपः ।लङ्घनम् पुराणघृतपानम् जीर्णलोहित-शालयः यवाः मुद्गाः पटोलम् रक्त-शिग्रु कठिल्लकम् शालिञ्चशाकम् वेत्रा-ग्रम् रूक्षाणि कटूनि सर्व्वाणि दीवनानि ।गुग्गुलुः शिलाजतु विशेषतः जिह्वातलस्थ-सिराद्वयच्छेदः मणिबन्धोर्द्धं अङ्गुलान्तरास्तिस्रोरेखाः कार्य्याः गलगण्डगण्डमालापचीग्रन्थ्य-र्व्वुदातुरे यथादोषं यथावस्थं एतत् सर्व्वंपथ्यम्
*
गलगण्डे अपथ्यम् ।सर्व्वक्षीरेक्षुविकृतिः आनूपमांसम् पिष्टा-न्नम् अम्लम् मधुरम् गुरुद्रव्यम् अभि-ष्यन्दिद्रव्यम्
*
अथ श्लीपदे पथ्यम् ।प्रच्छर्द्दनम् लङ्घनम् अस्रमोक्षः स्वेदः ।विरेकः परिलेपनम् पुरातनषष्टिकशालयः ।यवाः कुलत्थाः लशुनम् पटोलम् वार्त्ताकुः ।शोभाञ्जनम् कारवेल्लम् पुनर्नवा मूलकम् ।पूतिका एरण्डतैलम् सुरभीजलम् कटूनि ।तिक्तानि दीपनानि वातोद्भवे गुल्फोपरि-ष्टात् चतुरङ्गुले सिराव्यधः पैत्तिके गुल्फतलेशिराव्यधः कफजे अङ्गुष्ठमूले सिराव्यधः
*
श्लीपदे अपथ्यम् ।पिष्टान्नम् दुग्धविकृतम् गुडः आनूपमामि-षम् स्वादुरसः पारिपात्रसह्यविन्ध्यनदी-जलम् पिच्छिलम् गुरुद्रव्यम् अभिष्यन्दि-द्रव्यम्
*
अथ विद्रधौ पथ्यम् ।आमावस्थे रेचनलेपस्वेदास्रमोक्षणानि जीर्ण-श्यामाककलमौ कुलत्थः लशुनम् रक्त-शिग्रु निष्पावः कारवेल्लः पुनर्नवा ।श्रीपर्णी चित्रकम् क्षौद्रम् शोथोक्तानिसर्व्वाणि पक्वावस्थे शस्त्रकर्म्म पुराणरक्त-शालिः घृतम् तैलम् मुद्गरसः विलेपी ।घन्वजरसाः शालिञ्चशाकम् कदलम् पटो-लम् हिमवालुका चन्दनम् तप्ताम्बु ।शीताम्बु व्रणोदितं सर्व्वम्
*
विद्रधावपथ्यम् ।आमावस्थे शोथोक्तान्यपथ्यानि पक्वावस्थे व्रणो-क्तान्यपथ्यानि
*
अथ व्रणशोथव्रणसद्योव्रणनाडीव्रणेषुपथ्यम् ।विम्लापनम् रक्तमुक्तिः उपनाहः विपा-टनम् शोधनम् रोपणम् पुराणसित-शालयः यवः षष्टिकः गोधूमः जाङ्गलमृग-पक्षिणः विलेपी लाजमण्डः कटुतैलम् ।घृतम् मधु तैलम् मसूरम् तुवरी ।मुद्गयूषः शर्करा आषाढफलम् वार्त्ताकुः ।कर्कोटकम् पटोलम् कारवेल्लम् निम्ब-पत्रम् वेत्राग्रम् बालमूलकम् सुनिषण्ण-कम् शालिञ्चशाकम् तण्डुलीयः वास्तू-कम् त्रिफला पनसम् चोचम् दाडि-मम् कटुकाफलम् जीवन्ती सैन्धवम् ।द्राक्षा स्वादुतिक्तकषायाः स्निग्धोष्णद्रवो-त्तरान्नम् एषणम् शमनम् दाहः स्वेद-नम् बन्धनक्रिया व्रणावचूर्णनम् लेपः ।धूपनम् पत्रधारणम् उशीरम् बालव्यज-नम् चन्दनम् तिललेपनम् तप्तशीताम्बु ।कर्पूरम् पक्वतः परा वैकृताः
*
व्रणशोथव्रणसद्योव्रणनाडीव्रणेषु अपथ्यम् ।नवधान्यम् तिलः कलायः माषः कुलत्थः ।कृषरः हिमाम्भः विविधक्षीरेक्षुविकारः ।अम्लानि पत्रशाकम् अजाङ्गलमांसम् ।असात्म्यमन्नम् विदाहि विष्टम्भि गुरूणि ।कटु अम्लम् शीतम् लवणम् व्यवायः ।व्यायामः उच्चैः परिभाषणम् प्रियासमा-लोकनम् अह्नि निद्रा प्रजागरम् नितान्त-चंक्रमणम् यथास्थितं प्रागधिरोपणम् नस्यम् ।ताम्बूलम् अजीर्णता प्रचण्डवातः आतपः ।धूमः वृष्टिः रजः भयम् क्रोधः वमिः ।प्रहर्षः शोकः विरुद्धाशनम् अम्बुपानम् ।तीक्ष्णम् उष्णम् रूक्षम् विघट्टनम् कण्डू-यनम् काष्ठनखादितोदः निरन्नभावः विष-मोपचारः
*
अथ भग्ने पथ्यम् ।शीताम्बु चन्दनम् पङ्कप्रदेहः बन्धनक्रिया ।शालिः प्रियङ्गुः गोधूमः मुद्गसतीलयो-र्यूषः नवनीतम् घृतम् क्षीरम् तैलम् ।मांसरसः मधु पटोलम् लशुनम् शिग्रु ।पत्तूरम् बालमूलकम् द्राक्षा धात्री ।वज्रवल्ली लाक्षा बृंहणम्
*
भग्ने अपथ्यम् ।लवणम् कटुकम् क्षारः अम्लः मैथुनम् ।आतपः व्यायामः रूक्षान्नम्
*
अथ भगन्दरे पथ्यम् ।आमे संशोधनम् लेपः लङ्घनम् रक्त-मोक्षणम् पक्वे यथाविधिशस्त्रवह्निक्षार-कर्म्माणि सर्षपः शालिः मुद्गः विलेपी ।जाङ्गलरसः पटोलम् शिग्रु वेत्राग्रम् ।पत्तूरम् बालमूलकम् तिलसर्षपयोस्तैलम् ।तिक्तवर्गः घृतम् मधु
*
भगन्दरे अपथ्यम् ।विरुद्धान्यन्नपानानि विषमाशनम् आतपः ।व्यायामः मैथुनम् युद्धम् पृष्ठयानम् ।गुरूणि रूढव्रणोऽपि नरः सम्बत्सरं एतत्सर्व्वं परिहरेत्
*
अथोपदंशे पथ्यम् ।छर्द्दिः विरेकः ध्वजमध्यनाडीवेधः ।जलौका परिपातनम् सेकः प्रलेपः यवः ।शालयः धन्वामिषम् मुद्गरसः घृतम् ।कठिल्लकम् शिग्रुफलम् पटोलम् शालिञ्च-शाकम् नवमूलकम् तिक्तम् कषायम् ।मधु कूपवारि तैलम्
*
उपदंशे अपथ्यम् ।दिवानिद्रा मूत्रवेगः गुर्व्वन्नम् मैथुनम् ।गुडः आयासः अम्लम् तक्रम्
*
अथ शूकदोषे पथ्यम् ।लेपः विरेकः असृङ्मोक्षः सर्पिःपानम् ।शालिः यवः जाङ्गलमांसम् मुद्गयूषः ।कठिल्लकम् पटोलम् शिग्रु ककोटम् ।पत्तूरम् बालमूलकम् वेत्राग्रम् आषाढ-फलम् दाडिमम् सैन्धवम् वचा कूपो-दकम् गन्धसारः कस्तूरी हिमवालुका ।तक्रम् कषायम् तैलम्
*
शूकदोषे अपथ्यम् ।मूत्रवेगः दिवानिद्रा व्यायामः मैथुनम् ।गुडः विदाहि गुरुद्रव्यम् तक्रम्
*
अथ कुष्ठरोगे पथ्यम् ।पक्षात् पक्षात् छर्द्दनम् मासात् मासाद्बिरे-चनम् त्र्यहात् त्र्यहात् नस्यम् षष्ठे षष्ठेमासि अस्रमोक्षणम् सर्पिर्लेपः पुराणाः यव-गोधूमशालिमुद्गाढकीमसूराः माक्षिकम् ।जाङ्गलामिषम् आषाढफलम् वेत्राग्रम् ।पटोलम् बृहतीफलम् काकमाची निम्ब-पत्रम् लशुनम् हिलमोचिका पुनर्नवा ।मेषशृङ्गम् चक्रमर्द्ददलम् भल्लातकम् पक्व-तालम् खदिरः चित्रकः वरा जाती-फलम् नागपुष्पम् कुङ्कुमम् प्रतनहविः ।कोषातकी करञ्जोमातिलसर्षपनिम्बेङ्गुदीभव-तैलम् लघूनि अन्नानि सरलदेवाह्वशिंशपा-गुरुसम्भवस्नेहः गोखरोष्ट्राश्वमहिषीणांमूत्राणि कस्तूरिका गन्धसारा तिक्तानि ।क्षारकर्म्म
*
कुष्ठरोगे अपथ्यम् ।पापकर्म्म कृतघ्नभावः गुरुनिन्दा गुरुधर्ष-णम् विरुद्धपानाशनम् दिवानिद्रा चण्डांशु-तापः विषमाशनम् स्वेदः रतम् वेग-रोधः इक्षुः व्यायामः अम्लम् तिलः ।माषः द्रवगुरुनवान्नानां भोजनम् विदाहि ।विष्टम्भि मूलकम् सह्याद्रिविन्ध्याद्रिसमुद्भव-नदीजलम् आनूपमांसम् दधि दुग्धम् ।मद्यम् गुडः
*
अथ शीतपित्तोदर्द्दकोठरोगेषु पथ्यम् ।छर्द्दिः विरेचनम् लेपः असृङ्मोक्षः ।पुराणशालिः जाङ्गलामिषमुद्गकुलत्थानां यूषः ।कर्कोटकम् कारवेल्लम् शिग्रु मूलकपो-तिका शालिञ्चशाकम् वेत्राग्रम् दाडिमम् ।त्रिफला मधु कटुतैलम् तप्तनीरम् पित्त-श्लेष्महरद्रव्यम् सर्व्वकटुतिक्तकषायाणि
*
शीतपित्तादावपथ्यम् ।विविधक्षीरेक्षुविकारः मत्स्यः उदकानूप-भवामिषम् नवीनमद्यम् वमिवेगरोधः ।प्राग्दक्षिणाशापवनः अह्नि निद्रा स्नानम् ।विरुद्धाशनम् आतपः स्निग्धम् अम्लम् ।मधुरम् कषायः गुर्व्वन्नपानानि
*
अथाम्लपित्ते पथ्यम् ।ऊर्द्ध्वगे पूर्व्वं वमनम् अधोगे पूर्व्वं विरेचनम् ।पश्चादन्नाशनम् निरूहः शालिः यवः ।गोधूमः मुद्गः जाङ्गलजरसः तप्तशीत-जलानि शर्करा मधु शक्तुः कर्कोटकम् ।कारवेल्लम् पटोलम् हिलमोचिका वेत्रा-ग्रम् वृद्धकुष्माण्डम् रम्भापुष्पम् वास्तूकम् ।कपित्थम् दाडिमम् धात्री तिक्तानि ।कफपित्तहरपानान्नम्
*
अम्लपित्ते अपथ्यम् ।नवान्नम् विरुद्धद्रव्यम् पित्तकोपकरद्रव्यम् ।वेगरोधः तिलः माषः कुलत्थः तैल-भक्षणम् अविदुग्धम् धान्याम्लम् लवणम् ।अम्लम् कटु गुर्व्वन्नम् दधि मत्स्यः
*
अथ विसर्पे पथ्यम् ।विरेकः वमनम् लेपः लङ्घनम् रक्त-मोक्षणम् पुराणायवगोधूमकङ्गुषष्टिकशालयः ।मुद्गः मसूरः चणकः तुवरी जाङ्गलज-रसः नवनीतम् घृतम् द्राक्षा दाडि-मम् कारवेल्लकम् वेत्राग्रम् कुलकम् ।धात्री खदिरः नागकेशरम् लाक्षा ।शिरीषः कर्पूरम् चन्दनम् तिललेपनम् ।ह्नीवेरकम् मुस्तकम् सकलानि तिक्तानि
विसर्पे अपथ्यम् ।व्यायामः अह्नि शयनम् सुरतम् प्रवातः ।क्रोधः शोकः वमनम् वेगः असूयनम् ।शाकम् विरुद्धाशनम् दधि कूर्च्चिका ।सौवीरकादि अनेकविधकिलाटः गुर्व्वन्न-पानम् लशुनम् कुलत्थः माषः तिलः ।सकलमजाङ्गलमांसम् स्वेदः विदाहि लव-णम् अम्लम् कटु मद्यम् अर्कप्रभा
*
अथ विस्फोटे पथ्यम् ।विरेचनम् छर्द्दनम् लेपः लङ्घनम् पुरा-तनषष्टिकशालयः यवः मुद्गः मसूरः ।चणकः मुकुष्टकः धन्वामिषम् गव्यघृतम् ।कठिल्लकम् वेत्राग्रम् आषाढफलम् पटो-लम् ज्योतिष्मती निम्बदलम् चन्दनम् ।तैलम् सिताभ्रः तिललेपः लङ्घनम् ।बालम्
*
विस्फोटे अपथ्यम् ।स्वेदः व्यवायः व्यायामः क्रोधः गुर्व्व-न्नम् आतपः वमिवेगः पत्रशाकम् ।प्रवातः दिवास्वप्नः ग्राम्योदकम् आनूप-मांसम् विरुद्धान्यशनानि तिलः माषः ।कुलत्थः लवणाम्लकटूनि विदाहि रूक्षम् ।उष्णम्
*
अथ मसूर्य्यां पथ्यम् ।पूर्व्वं लङ्घनवान्तिरेचनशिरावेधाः शशाङ्को-ज्ज्वलजीर्णषष्टिकशालयः चणकः मुद्गः ।मसूरः यवः कपोतचटकदात्यूहक्रौञ्च-जीवञ्जीवशुकादयः पक्षिणः नङ्गलः काठि-ल्लम् आषाढकम् कर्कोटम् कदलम् ।शिग्रु रुचकम् द्राक्षा दाडिमम् मेध्य-बृंहणान्नपानम् कोलम् माषरसः अक्ष्णोःसेकविधौ गवेधुमधुकोद्भूतसुशीतोदकम् शम्बू-कोदरकोषनीरम् कर्पूरचूर्णम् पक्वे मुद्ग-रसः जाङ्गलरसः शालिञ्चशाकम् घृतम् ।निर्गुण्डीजलम् यक्षघूपविहितो धूपः शश्वद्-गोमयभस्मगुण्डनम् शुष्के शिलापिष्टयोःपिचुमर्द्दपत्रनिशयोरालेपः शेषे व्रणोक्त-क्रिया
*
मसूर्य्यामपथ्यम् ।रतम् स्वेदः श्रमः तैलम् गुर्व्वन्नम् ।क्रोधः आतपः दुष्टाम्बु दुष्टपवनः ।विरुद्धाशनम् निष्पावः आनूपशाकम् ।लवणम् विषमाशनम् कटु अम्लम् वेग-रोधः
*
अथ क्षुद्ररोगे पथ्यापथ्यम् यथा, --क्षुद्ररोगेषु सर्व्वेषु नानारोगानुकारिषु ।दोषान् दुष्यानवस्थाश्च निरीक्ष्य मतिमान् भिषक् ।तस्य तस्य रोगस्य पथ्यापथ्यानि सर्व्वशः ।यथादोषं यथादुष्टं यथादृष्टञ्च कल्पयेत्
*
अथ मुखरोगे पथ्यम् ।स्वेदः विरेकः वमनम् गण्डूषः प्रतिसार-णम् कवलः असृक्स्रुतिः नस्यम् धूमः ।शस्त्राग्निकर्म्मणी तृणधान्यम् यवः मुद्गः ।कुलत्थः जाङ्गलरसः बृहत्प्रोष्ठी कार-वेल्लम् पटोलम् बालमूलकम् कर्पूरनीरम् ।ताम्बूलम् तप्ताम्बु खदिरः घृतम् कटु ।तिक्तम्
*
मुखरोगे अपथ्यम् ।दन्तकाष्ठम् स्नानम्
अम्लम् मत्स्यः ।आनूपामिषम् दधि क्षीरम् गुडः ।मांसम् रूक्षान्नम् कठिनाशनम् अधो-मुखशयनम् गुरु अभिष्यन्दकारि दिवा-निद्रा
*
अथ कर्णरोगे पथ्यम् ।स्वेदः विरेकः वमनम् नस्यम् धूमः ।सिराव्यधः गोधूमः शालिः मुद्गः यवः ।प्रतनहविः लावः मयूरः हरिणः ।तित्तिरिः वनकुक्कुटः पटोलम् शिग्रु ।वार्त्ताकुः सुनिषण्णम् कठिल्लकम् रसायन-द्रव्यम् ब्रह्मचर्य्यम् अभाषणम्
*
कर्णरोगे अपथ्यम् ।विरुद्धान्नपानम् वेगरोधः प्रजल्पनम् दन्त-काष्ठम् शिरःस्नानम् व्यवायः श्लेष्मलम् ।गुरु कण्डूयनम् तुषारः
*
अथ नासारोगे पथ्यम् ।निर्व्वातनिलयस्थितिः प्रगाढोष्णीषधारणम् ।गण्डूषः लङ्घनम् नस्यम् धूमः छर्द्दिः ।सिराव्यधः कटुचूर्णं नासारन्ध्रे निःक्षिप्य त्रिःप्रवेशनम् स्वेदः स्नेहः शिरोऽभ्यङ्गः ।पुराणा यवशालयः कुलत्थमुद्गयोर्यूषः ।ग्राम्यजाङ्गलजा रसाः वार्त्ताकुः कुलकम् ।शिग्रु कर्कोटः बालमूलकम् लशुनम् ।दधि तप्ताम्बु वारुणी कटुत्रयम् कटु ।अम्लम् लवणम् स्निग्धम् उष्णम् लघु-भोजनम्
*
नासारोगे अपथ्यम् ।विरुद्धान्नम् दिवास्वप्नः अभिष्यन्दि गुरूणि ।स्नानम् क्रोधः शकृन्मूत्रवाष्पाणां वेगधार-णम् शोकः द्रवम् भूशय्या
*
अथ नेत्ररोगे पथ्यम् ।आश्च्योतनम् लङ्घनम् अञ्जनम् स्वेदः ।विरेकः प्रतिसारणम् प्रपूरणम् नस्यम् ।असृङ्मोक्षः शस्त्रक्रिया लेपनम् आज्य-पानम् सेकः मनोनिर्वृतिः अङ्घ्रिपूजा ।मुद्गः यवः लोहितशालिः लावः मयूरः ।वनकुक्कुटः कूर्म्मः कुलिङ्गः कपिञ्जलः ।कौम्भं हविः वन्यकुलत्थयूषः पेया विलेपी ।लशुनम् पटोलम् वार्त्ताकुः कर्कोटकः ।कारवेल्लम् नवीनमोचम् नवमूलकम् पुन-र्नवा मार्कवः काकमाची पत्तूरशाकम् ।कुमारिका द्राक्षा कुस्तुम्बुरु माणिमन्थम् ।लोध्रम् वरा क्षौद्रम् उपानहौ नारी-पयः चन्दनम् इन्दुखण्डम् तिक्तम् लघु
नेत्ररोगे अपथ्यम् ।क्रोधः शोकः मैथुनम् अश्रुवायुविण्मूत्र-निद्रावमीनां वेगरोधः सूक्ष्मेक्षणम् दन्त-विघर्षणम् स्नानम् निशाभोजनम् आतपः ।प्रजल्पनम् छर्द्दनम् अम्बुपानम् मधूक-पुष्पम् दधि पत्रशाकम् कठिल्लम् ।पिण्याकः विरूढकम् मत्स्यः सुरा ।अजाङ्गलमांसम् ताम्बुलम् अम्लम् लव-णम् विदाहि तीक्ष्णम् कटु उष्णम् ।गुर्व्वन्नपानम्
*
अथ शिरोरोगे पथ्यम् ।स्वेदः नस्यम् धूमपानम् विरेकः लेपः ।छर्द्दिः लङ्घनम् शीर्षवस्तिः रक्तोन्मुक्तिः ।वह्निकर्म्म उपनाहः जीर्णसर्पिः शालिः ।षष्टिकः यूषः दुग्धम् धन्वमांसम् पटो-लम् शिग्रु द्राक्षा वास्तूकम् कारवेल्लम् ।आम्रम् घात्री दाडिमम् मातुलुङ्गम् ।तैलम् तक्रम् काञ्जिकम् नारिकेलम् ।पथ्या कुष्ठम् भृङ्गराजः कुमारी मुस्तः ।उशीरम् चन्द्रिका गन्धसारः कर्परम्
*
शिरोरोगे अपथ्यम् ।क्षवजृम्भमूत्रवास्पनिद्राविष्ठानां वेगधारणम् ।अञ्जनम् दुष्टनीरम् विरुद्धान्नम् सह्यविन्ध्य-सरिज्जलम् दन्तकाष्ठम् दिवानिद्रा
*
अथ स्त्रीरोगे पथ्यापथ्यम् ।यत्पथ्यं यदपथ्यञ्च रक्तपित्तेषु कीर्त्तितम् ।प्रदरेषु यथादोषं तत्तन्नारी भजेत्त्यजेत्
वातव्याधिमतां पथ्यमपथ्यञ्च यदीरिम् ।योनिव्यापत्सु सर्व्वासु तद्विद्याच्च यथामलम्
*
अथ गर्भिणीपथ्यम् ।शालिः षष्टिकः मुद्गः गोधूमः लाजशक्तुः ।नवनीतम् घृतम् क्षीरम् रसाला मधु ।शर्करा पनसम् कदलम् धात्री द्राक्षा ।अम्लम् स्वादु शीतलम् कस्तूरी चन्दनम् ।माला कर्पूरम् अनुलेपनम् चन्द्रिका ।स्नानम् अभ्यङ्गः मृदुशय्या हिमानिलः ।सन्तर्पणम् प्रियवाक् मनोरमविहारः प्रिय-ङ्करान्नपानम्
*
गर्भिण्या अपथ्यम् ।स्वेदनम् वमनम् क्षारः कलहः विषमा-शनम् असात्म्यम् नक्तसञ्चारः चौर्य्यम् ।अप्रियदर्शनम् अतिव्यवायः आयासः भारः ।गुरुप्रावरणम् अकालजागरणं स्वप्नश्च ।कठिनोत्कटकासनम् शोकः क्रोधः भयम् ।उद्वेगः श्रद्धा वेशविधारणम् उपवासः ।अध्वगमनम् तीक्ष्णोष्णगुरुविष्टम्भिभोजनम् ।नक्तम् निरशनम् श्वभ्रकूपेक्षणम् मद्यम् ।आमिषम् उत्तानशयनम् स्त्रीणामनीप्सि-तम्
*
अष्टममासमारभ्य गर्भिण्या अपथ्यं यथा, --तथा रक्तस्रुतिं शुद्धिं वस्तिमायासतोऽष्टमात् ।एभिर्गभः स्रवेदामः कुक्षौ शुष्येन्म्रियेत वा
भजेन्न नित्यं तिक्ताम्लकटूषणकषायकान् ।वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः
पित्तलैः खलती पिङ्गः श्वित्री पङ्गः कफात्मभिः ।अपथ्यमिदमुद्दिष्टं गर्भिणीनां महर्षिभिः
*
अथ प्रसूतायाः पथ्यम् ।लङ्घनम् मृदुस्वेदः गर्भकोष्ठविशोधनम् ।अभ्यञ्जनम् तैलपानम् कटुतिक्तोष्णसेवनम् ।दीपनम् पाचनम् मद्यम् पुराणषष्टि-शालयः कुलत्थः लशुनम् शिग्रु वार्त्ताकुः ।बालमूलकम् पटोलम् मातुलुङ्गम् ताम्बू-लम् दाडिमद्बयम् श्लेष्मानिलघ्नानि सप्ता-हात् परं किञ्चित् बृंहणम् द्बादशाहात् परंआमिषम् सार्ड्घमासात्परं आहारादियन्त्रणा-त्यागः
*
प्रसूताया अपथ्यम् ।श्रमः नस्यम् रक्तमुक्तिः मैथुनम् विषमा-शनम् विरुद्धान्नम् वेगरोधः असात्म्यम् ।अतिभोजनम् दिवानिद्रा अभिष्यन्दि वि-ष्टम्भि गुरुभोजनम्
सूतिकाख्येष रोगेषु वातश्लेष्मोचितानि ।तत्तद्रोगानुकूल्ये पथ्यापथ्यानि निर्द्दिशेत्
*
अथ बालरोगे पथ्यापथ्यम् ।नृणां ज्वरादिषु यत् पथ्यापथ्यं बालानामौचि-त्यात् तद्विधेयम् मन्दाग्नौ यत् पथ्यापथ्यंबालानां पारिगर्भिके तद्बिधेयम् आगन्तुको-न्मादिनां यत् पथ्यापथ्यं बालानां ग्रहरोगिणांतद्योज्यम्
*
अथ विषरोगे पथ्यम् ।अरिष्टाबन्धनम् मन्त्रक्निया छर्द्दिः विरे-चनम् रूषणम् शोणिताकृष्टिः परिषेकः ।अवगाहनम् हृदयावरणम् नस्यम् अञ्ज-नम् प्रतिसारणम् उत्कर्त्तनम् प्रधमनम् ।प्रलेपः वह्निकर्म्म उपधानम् प्रतिविषम्
धूपः संज्ञाप्रबोधनम् शालिः षष्टिकः कोर-दूषः प्रियङ्गुः मुद्गः हरेणुः तैलम् सर्पिः ।शिखितित्तिरिलावैणगोधाखुश्वाविदामिषम् ।वार्त्ताकुः कुलकम् धात्री निव्पावः तण्डु-लीयः मण्डुकपर्णी जीवन्ती सुनिषण्णम् ।उपोदिका कालशाकम् लशुनम् दाडि-मम् विकङ्कतम् प्राचीनामलकम् पथ्या ।कपित्थम् नागकेशरम् गोच्छागनरमूत्राणि ।तक्रम् शीताम्बु शर्करा अबिदाहीन्य-न्नानि सैन्धवम् मधु कुङ्कुमम् पश्चिमो-त्तरवातः हरिद्रा सितचन्दनम् मुस्तम् ।शिरीषः कस्तूरी तिक्तानि मधुराणि ।हेमचूर्णम्
*
विषरोगे अपथ्यम् ।क्रोधः विरुद्धाशनम् अध्यशनम् व्यवायः ।ताम्बूलम् आयासः प्रवातः सर्व्वाम्लम् ।सर्व्वलवणम् नानाविधसंस्वेदनम् निद्रा ।भयम् धूमविधिः क्षुधा
*
अथ रोगसङ्करे पथ्यम् ।एषां गदानां यदि सङ्करः स्या-त्तत्र प्रयत्नेन भिषङ्मनीषी ।उक्तेषु पथ्येषु विरोधि यद्य-त्तत्तत् प्रयुञ्जीत चिकित्सितेषु
*
रोगसङ्करे अपथ्यम् ।अपथ्यानि सर्व्वाणि तत्तदरोगोचितानि ।रुग्बलाबलविद्वैद्यो वर्ज्जयेद्ब्याधिसङ्करे
*
अथ वातिकरोगे पथ्यम् ।अभ्यङ्गः परिमर्द्दनम् शमनम् संस्नेहनम् ।बृंहणम् स्नेहः स्वेदनम् आसना शय-नम् संवाहनम् वस्तिः नस्यम् प्राव-रणम् समीरणपरित्यागः अवगाहः शिरो-वस्तिः विस्मरणम् दिवाकरकरः स्नानम् ।विस्मापनम् तैलद्रोणी सरसता गाढोप-नाहः सुरा भूशय्या सुखशीलता स्वा-द्वम्ला रसाः मज्जा तैलम् वसा घृतम् ।नवमाषः कुलत्थः तिलः गोधूमः मुद्गः ।कलमः शालिः षष्टिकः पेया धान्य-जलम् पयः कृषरः मस्तुः सुखोष्णो-दकम् गोमूत्रम् नलदाम्बु दधि पयः-पेटी यवः कूर्च्चिका आनूपाःरुरुखड्गि-कोलमहिषाः एणः धन्वोद्भवाः सर्पद्बिट्-कृकवाकुतित्तिरिकुलिङ्गाः कुम्भीरः तिमि-ङ्गिलः मकरः गण्डूपदः कच्छपः रोहित-मत्स्यः वर्म्मिः मदगुरः सिलिन्धः एरङ्गः ।शृङ्गी इल्लिशः प्रोष्ठी गर्गरः पर्व्वतः ।अन्ये जलजन्तवः वार्त्ताकुः कुलकम् शिग्रु ।लशुनम् द्राक्षा आम्रम् आम्रातकम् ।धात्री दाडिमम् अम्लवेतसफलम् कोलम् ।कपित्थम् शिवा पक्वतालम् वकुलम् ।गोकण्टकः वास्तूकम् शुक्लाक्षी गणिका ।सरस्रा मन्दारपत्रम् ताम्बूलम् सित-शर्करा लवणः लोध्रः तुरुष्कः अगुरु ।श्रीवासः सुरदारु गुग्गुलुः ग्रन्थाह्वः ।कुङ्कुमम् स्निग्धोष्णविधिः सञ्चूर्णितं हेमरजतं सीसकञ्च जात्युत्पाटनमल्लिकापुष्पाणांविशाला माला
*
वातिकरोगे अपथ्यम् ।चिन्ता जागरणम् असृङ्मोक्षः वमिः ।लङ्घनम् व्यायामः गजवाजिवाहनविधिः ।सन्धारणम् मैथुनम् आघातः अपतर्प-णम् प्रपतनम् धातुक्षयः क्षोभणम् ।शोकः चंक्रमणम् विरुद्धाशनम् सम्पक्व-भुक्तक्रमः वृद्धत्वम् जलदागमः रजनी-शेषः अपराह्णः भयम् रूक्षात्यल्पकषाय-तिक्तकटुकक्षारातिशीतानामशनम् तृण-धान्यम् उद्रिका आढकी कङ्गुः उद्दालः ।मुकुष्टकः कोद्रवः यवः श्यामाकः जूर्णा-दयः शिम्बी जम्बु राजमाषः चणकः ।मुद्गः कुलत्थः विषम् शालूकम् क्रमुकम् ।कशेरु तलकम् कठिल्लकम् तिन्दुकम् ।कर्कोटम् नवतालशस्यम् तालास्थिमज्जा ।नदीतडागजलम् करका निक्षारबीजम् ।पिण्याकः शिशिराम्बु रासभपयः पत्र-शाकम् त्रिवृत् भूनिम्बम् कटुका करी-रम् अखिलशुष्कामिषम् माक्षिकम् धूमः ।बद्धमरुत् रजः परिभवः खट्वा
*
अथ पैत्तिके पथ्यम् ।सर्पिःपानविधिः विरेचनम् असृङ्मोक्षः ।सितशालिः गोधूमः आढकिः धान्यकम् ।चणकः मुद्गः मसूरः यवः पर्य्यूषित-मण्डः पयः पयःपेटी वरा माक्षिकम् ।लाजाः धन्वरसः घृतानि सिता शीतो-दकम् उद्भिदः कर्कोटम् कदलम् कण्टकि-फलम् वेत्राग्रम् आषाढकम् मृद्वीका ।कोमलकुलकम् कुष्माण्डम् इर्व्वारुः तुम्बी ।पर्पटकः अल्पमारिषदलम् कठिल्लकम् ।दाडिमम् धात्री कोमलतालशस्यम् ।अभया खर्जूरम् औडुम्बरम् विश्वम् ।कषायः तिक्तः मधुरः मधूकम् वरी ।कांस्यम् अयः रजतम् हेम कटुका ।निम्बः त्रिवृत् चन्दनम् हर्म्म्यम् भूमि-गृहम् सुशीतलवनम् धारागृहम् चन्द्रिका ।रम्भाम्भोरुहनव्यपत्रशयनम् शीताः प्रदेहाः ।भूशय्या मणिः प्रदोषसमयः गीतम् ।प्रियालिङ्गनम् स्नानम् मित्रसमागमः ।प्रियकथा मन्दानिलः अभ्युक्षणम् वादित्र-श्रवणम् मनोरमतरभावाः सुलास्येक्षणम् ।पुन्नागोत्पलपाटलाब्जसुमनःकह्लारपुष्पाणि ।कर्परम् प्रनीरनीरम् शीतक्रिया
*
पैत्तिके अपथ्यम् ।धूमः स्वेदनम् आतपः निधुवनम् सन्धा-रणम् क्रोधः क्षारः अध्वा गजवाजि-वाहनविधिः तीक्ष्णकर्म्म व्यायामः अन्न-विदाहकारिसमयः ग्रीष्मः विरुद्धाशनम् ।मध्याह्नः जलदात्ययः रजनीमध्यम् मध्य-वयः व्रीहिः वेणुफलम् तिलः लशुनम् ।माषः कुलत्थः गुडः निष्पावः मदिरा ।अतसी प्रहीजलम् घान्याम्लम् उष्णोदकम् ।जम्बीरम् नलदाम्बु हिङ्गु लकुचम् ।मूत्रम् भल्लातकम् ताम्बूलम् दधि सर्षपः ।वदरम् तैलाशनम् तिन्तिडी कटु अम्लम् ।लवणम् विदाहि
*
अथ श्लैष्मिके पथ्यम् ।छर्द्दिः लङ्घनम् अञ्जनम् निधुवनम् ।प्रोद्वर्त्तनम् स्वेदनम् चिन्ता जागरणम् ।श्रमः अतिगमनम् तृड्वेगधारणम् गण्डूषः ।प्रतिसारणम् प्रधमनम् हस्त्यश्वयानम् ।धूमः प्रावरणम् नियुद्धम् अतिसंक्षोभः ।नस्यम् भयम् रूक्षोष्णविधिः पुरातन-शालिः षष्टिका निष्पावः तृणधान्यम् ।चणकः मुद्गः कुलत्थरसः क्षारः सर्षप-तैलम् उष्णजलम् धन्वामिषम् राजिका ।वेत्राग्रम् कुलकम् कठिल्लकम् वार्त्ताकुः ।औडुम्बरम् कर्कोटम् लशुनम् मोचकुसु-मम् शक्राशनम् शूरणः निम्बम् मूलक-पोतिका वरुणः तिक्ता त्रिवृत् माक्षि-कम् ताम्बूलम् नलदाम्बु जीर्णमदिरा ।व्योषम् वरा गोजलम् लाजाः सुभृष्ट-तण्डुलभवम् तिक्तम् सुखोष्णालयः कांस्यम् ।अयः अञ्जनम् मौक्तिकम् कटुः कषाय-रसः
*
श्लैष्मिके अपथ्यम् ।स्रेहः अभ्यञ्जनम् आसनम् अस्ह्नि शय-नम् स्नानम् विरुद्धाशनम् पूर्व्वाह्णः ।शिशिरः वसन्तसमयः रात्र्यादिः आद्य-वयः भुक्तमात्रसमयः अन्नपानकरणम् ।माषः नवतण्डुलः मत्स्यः मांसम् इक्षु-विकृतिः दुग्धविकृतिः तालास्थिमज्जा ।द्रवः पेया भव्यम् उपोदिका पनसम् ।छत्राकम् आषाढकम् खर्ज्जूरम् अनु-लेपनम् पयःपेटी पयः पायसः स्वादु ।अम्लम् लवणम् गुरूणि तुहिनम् सन्तर्प-णम्
*
अथ वसन्तर्त्त्यौ पथ्यम् ।वमनम् व्यवायः व्यायामः भेदः भ्रमणम् ।अग्निसेवा कटुः तिक्तः विदाहि तीक्ष्णम् ।कषायः मध्वोदनम्
*
वसन्तर्त्तावपथ्यम् ।दिवानिद्रा सन्तर्पणम् आलस्यम् सुधांशु-सेवा पिण्डालुकम् स्वादु गुरूदकान्नम् ।पिष्टम् दधि क्षीरम् घृतम्
*
अथ ग्रीष्मर्त्तौ पथ्यम् ।चन्दनम् शीतवातः छाया अम्बु कक्षा-शयनम् प्रसूनम् सद्यःपयोभावितशीतभक्तम् ।विशिष्टद्रव्यम् प्रियभोजंनम्
*
ग्रीष्मर्त्तावपथ्यम् ।कटु तिक्तम् उष्णम् क्षारम् अम्लम् ।रौद्रम् भ्रमणम् अग्निसेवा उन्निद्रता ।भास्करतप्ततोयस्नानम् अतिपानम् दधि ।तक्रम् तैलम्
*
अथ वर्षासु पथ्यम् ।लवणम् अम्लम् मिष्टम् सारम् प्रियम् ।स्निग्धम् गुरु उष्णम् बल्यम् अभ्यङ्गः ।उद्वर्त्तनम् अग्निसेवा तप्तान्नपानम् दधि
वर्षास्वपथ्यम् ।पूर्व्वपवनः वृष्टिः घर्म्मः हिमः श्रमः ।नदीनीरम् दिवास्वप्नः रूक्षम नित्यमैथु-नम्
*
शरदि पथ्यम् ।शीतरसाम्बुपानम् तरुच्छाया चन्दनम् ।इन्दुसेवा सिता मुद्गः मसूरम् गव्य-दुग्धम् इक्षुः शाल्योदनम्
*
शरद्यपथ्यम् ।लवणम् अम्लम् तीक्ष्णम् कटु पिष्टम् ।अतसी विदाहि सुरा नालम् दधि ।तक्रम् तैलम् क्रोधः उपवासः आतपः ।मैथुनम्
*
अथ हिमर्त्तौ पथ्यम् ।तप्तजलम् उपनाहः पयः अन्नम् पानम् ।घृतम् स्त्रीसेवा वह्निसेवा गुरूणि यथेष्ट-भुक्तम्
*
हिमर्त्तावपथ्यम् ।दिवानिद्रा कुभोजनम् अभोजनम् लङ्घ-नम् पुरातनान्नम् लघुपाकि शैत्यम् ।वार्ग्धोदनम् शीतजलावगाहः
*
शिशिरे पथ्यम् ।स्त्री वाह्नसेवा मतस्यः अजमांसम् दधि ।दुग्धम् सर्पिः
*
शिशिरेऽपथ्यम् ।तीक्ष्णोष्णकट्वम्लकषायतिक्तानि सामुद्रकम् ।आर्द्रभोजनम् दिवानिद्रा चन्दनम् चन्द्र-सेबा शीतजलस्नानादि
*
माघे विशेषो यथा ।माघे शीतद्रवमिष्टपिष्टंकन्दः कदल्या गुरुशालिभक्तम् ।इति षडृतुपथ्यापथ्याधिकारः
*
आगन्तुकज्वराणां पथ्यापथ्यं ज्वराधिकारेन लिखितमतोऽत्र लिख्यते ।“अभिघातसमुत्थाने पानाभ्यङ्गौ सर्पिषः ।क्षतजे व्रणजे चापि क्षतव्रणचिकित्सितम्
ओषधीगन्धविषजे विषपित्तप्रसाधनम् ।अभिचाराभिशापोत्थे जपहोमादिभेषजम्
उत्पातग्रहपीडोत्थे दानस्वस्त्ययनादयः ।क्रोधोत्थिते पित्तहरं कामजे कामजित्क्रिया
कामशोकभयोद्भूते सर्व्वा वातहरी क्रिया ।आश्वासनञ्चेष्टलाभो हर्षदायीनि यानि
विशेषतः पुनश्चात्र कामक्रोधसमुत्थिते ।भयशोकसमुद्भूते कामक्रोधोक्तमौषधम् ।भूताभिषङ्गजे भूतबन्धावेशनताडनम् ।मनःक्षोभसमुत्पन्ने मनसः सान्त्वनानि
इत्यागन्तुज्वरे पूर्व्वैर्भिषाग्भिः पथ्यमिष्यते ।विष्णोर्नामसहस्रस्य पाठनं श्रवणं श्रुतेः
देवानां ब्राह्मणानाञ्च गुरूणामपि पूजनम् ।ब्रह्मचर्य्यं तपो होमः प्रदानं नियमो जपः
साधूनां दर्शनं सत्यं रत्नौषधिविधारणम् ।मङ्गलाचरणञ्चेति वर्गः सर्व्वान् ज्वरान् जयेत्
”आगन्तुकज्वरे अपथ्यम् ।“अधिवासनकर्म्माणि रक्तस्रग्वस्त्रर्धारणम् ।वमिवेगं दन्तकाष्ठमसात्म्यमपि भोजनम्
विरुद्धान्यन्नपानानि विदाहीनि गुरूणि ।दुष्टाम्वुक्षारमम्लांनि पत्रशाकं विरूढकम्
नलदाम्बु ताम्वूलं कलिङ्गं लकुचं फलम् ।आडीमत्स्यञ्च पिण्याकं छत्त्राकं पिष्टवैकृतम्
अभिष्यन्दीनि चैतानि ज्वरितः परिवर्ज्जयेत्
”इति पथ्यापथ्यविनिश्चयः समाप्तः