| YouTube Channel

पथ्यादिगुग्गुलुः (pathyAdigugguluH)

 
शब्दकल्पद्रुमः
Sanskrit
पथ्यादिगुग्गुलुः,
पुं,
(पथ्या आदिर्यस्य तथाविघोगुग्गुलुः ।) औषधविशेषः यथा, --“पथ्या विभीतामलकीफलानांशतं क्रमेण द्विगुणाभिवृद्धम् ।प्रस्थेन युक्तञ्च पलङ्कषाणांद्रोणे जले संस्थितमेकरात्रम्
अर्द्धावशेषं क्वथितं कषायंभाण्डे पचेत्तत् पुनरेव लोहे ।अमूनि वह्नेरवतार्य्य दद्यात्द्रव्याणि संचूर्ण्य पलार्द्धकानि
विडङ्गदन्तीत्रिफलागुडूची-कृष्णात्रिवृन्नागरकोषणानि ।यथेष्टचेष्टस्य नरस्य शीघ्रंहिमाम्वुपानानि भोजनानि
निषेव्यमानो विनिहन्ति रोगान्सगृध्रसीं नूतनखञ्जताञ्च ।प्लीहानमुग्रं जठरार्त्तिगुल्मंपाण्डुत्वकण्डुत्वविवातरक्तम्
पथ्यादिको गुग्गुलुरेष नाम्नाख्यातः क्षितावप्रमितप्रभावः ।बलेन नागेन समं मनुष्यंजवेन कुर्य्यात्तुरगेण तुल्यम्
आयुःप्रकर्षं विदधाति चक्षु-र्ब्बलं तथा पुष्टिकरो विषघ्नः ।क्षतस्य सन्धानकरो विशेषा-द्रोगेषु शस्तः सकलेषु तज्ज्ञैः
”इति भावप्रकाशः