| YouTube Channel

पथ्यादिगुग्गुलु (pathyAdiguggulu)

 
शब्दकल्पद्रुमः
Sanskrit
पथ्यादिगुग्गुलुः,
पुं,
(पथ्या आदिर्यस्य तथाविघोगुग्गुलुः ।) औषधविशेषः यथा, --“पथ्या विभीतामलकीफलानांशतं क्रमेण द्विगुणाभिवृद्धम् ।प्रस्थेन युक्तञ्च पलङ्कषाणांद्रोणे जले संस्थितमेकरात्रम्
अर्द्धावशेषं क्वथितं कषायंभाण्डे पचेत्तत् पुनरेव लोहे ।अमूनि वह्नेरवतार्य्य दद्यात्द्रव्याणि संचूर्ण्य पलार्द्धकानि
विडङ्गदन्तीत्रिफलागुडूची-कृष्णात्रिवृन्नागरकोषणानि ।यथेष्टचेष्टस्य नरस्य शीघ्रंहिमाम्वुपानानि भोजनानि
निषेव्यमानो विनिहन्ति रोगान्सगृध्रसीं नूतनखञ्जताञ्च ।प्लीहानमुग्रं जठरार्त्तिगुल्मंपाण्डुत्वकण्डुत्वविवातरक्तम्
पथ्यादिको गुग्गुलुरेष नाम्नाख्यातः क्षितावप्रमितप्रभावः ।बलेन नागेन समं मनुष्यंजवेन कुर्य्यात्तुरगेण तुल्यम्
आयुःप्रकर्षं विदधाति चक्षु-र्ब्बलं तथा पुष्टिकरो विषघ्नः ।क्षतस्य सन्धानकरो विशेषा-द्रोगेषु शस्तः सकलेषु तज्ज्ञैः
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
पथ्यादिगुग्गुलु
पु०
औषधिविशेषे यथा “पथ्या विभीता-मलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् प्रस्थेनयुक्तञ्च पलंक्रमेण द्रोणे जले संस्थितमेकरात्रम् अ-र्द्धावशेषं क्वथितं कषायं भाण्डे पचेत्तत् पुतरेव लोहे ।अमूनि वह्नेरवतार्य्य दद्यात् द्रव्याणि संचूर्ण्य पला-र्द्धकानि विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृन्नाग-रकोषणानि यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाष्व-पानानि गोजनानि निषेव्यमाणी विनिहन्ति रो-गान् सगृध्रसीं नूतनखञ्जताञ्च प्लीहानमुग्रं जौ-रार्त्तिगुल्मं पाण्डुत्वकण्डुत्वविवातरक्तम् पथ्यादिकोगुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रमावः बलेननागेन समं मनुष्यं जवेन कुर्य्यात्तुरगेण तुल्यम् आयुः-प्रकर्षं विदधाति चक्षुर्बलं तथापुष्टिकरो विषघ्नः क्षतम्यसन्धानकरो विशेषाद्रोगेषु शस्तः सकलेवु तजज्ञैः” मावप्र०