| YouTube Channel

पत्रकृच्छ्रः (patrakRcchraH)

 
शब्दकल्पद्रुमः
Sanskrit
पत्रकृच्छ्रः,
पुं,
(पत्रैः पत्रक्वाथैः साध्यः कृच्छ्रो-व्रतविशेषः ।) पर्णकृच्छ्रव्रतम् यथा, --“पर्णोदुम्बरराजीवविल्वपत्रकुशोदकैः ।प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः
”इति याज्ञवल्क्यः
“पलाशोदुम्बरारविन्द-श्रीवृक्ष-पर्णानामेकैकेंनक्वथितमुदकं प्रत्यहं पिबेत् कुशोदकञ्च एक-स्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः ।” इतिमिताक्षरा