पत्रं (patraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishपत्रं [पत्-ष्ट्रन्] 1 A leaf (of a tree)
धत्ते भरं कुसुमपत्रफलावलीनां Bv. 1. 94.
2 The leaf of a flower, lotus &c.
नीलोत्पलपत्रधारया Ś. 1. 18.
3 A leaf for writing upon, a paper, a leaf written upon
पत्रमारोप्य दीयतां Ś. 6 ‘commit to writing
’ V. 2. 14.
4 A letter, document
Pt. 1. 403.
5 Any thin leaf or plate of metal, a gold-leaf.
6 The wing of a bird, a pinion, feather of an arrow
R. 2. 31
Ku. 3. 27.
7 A vehicle in general (car, horse, camel &c.)
दिशः पपात पत्रेण वेगनिष्कंपकेतुना R. 15. 84
N. 3. 16.
8 Painting the person (particularly the face) with musk, sandal-juice or other fragrant substances
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयोः Gīt. 12
R. 13. 55.
9 The blade of a sword, knife &c.
10 A knife, dagger.
Comp.
अंगं {1} the Bhūrja tree. {2} red sanders.
अंगुलिः drawing lines of painting with the finger on the person (throat, forehead &c.) with coloured sandal, saffron, or any other fragrant substance.
अंजनं {1} ink. {2} blacking.
आढ्यं the root of long pepper.
आवलिः f. {1} red chalk. {2} a row of leaves. {3} the lines of painting drawn on the body with cosmetics as a decoration.
आवली {1} a row of leaves. {2} = °आवलि (3). {3} mixture of young Aśvattha leaves with barley and honey.
आहारः feeding on leaves.
ऊर्णं wove-silk, a silk-garment
स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते M. 5. 12.
उल्लासः the bud or eye of a plant.
काहला the noise or sound made by the flapping of wings or rustling of leaves.
कृच्छ्रं a sort of penance, drinking the infusion of leaves of various plants.
घना a plant with full leaves (सातल).
झंकारः the current of a river.
दारकः a saw.
नाडिका the fibre of a leaf.
परशुः a file.
पालः a long dagger, large knife. (
ली) {1} the feathered part of an arrow. {2} a pair of scissors.
पाश्या an ornament (a gold-leaf) on the forehead.
पुटं a vessel of leaves
R. 2. 65.
पुष्पा the holy basil.
बंधः adorning with flowers.
बा (वा) लः an oar.
भंगः
भांगिः
गी f. drawing lines or figures of painting on the face and person with fragrant and coloured substances, such as musk, saffron, sandal-juice, yellow pigment &c., as a mark of decoration
कस्तूरीवरपत्रभंगनिकरो मृष्टो न गंडस्थले Ś. Til. 7 (used frequently in K.).
यौवनं a young leaf or sprout.
रंजनं embellishing a page.
रथः a bird
व्यर्थीकृतं पत्ररथेन तेन N. 3. 6. °इंद्रः N. of Garuḍa. °इंद्रकेतुः N. of Viṣṇu
R. 18. 13.
लता a long knife or poniard.
रे (ले) खा,
वल्लरी,
वल्लिः,
वल्ली f. see पत्रभंग above
R. 6. 72, 16. 67
Rs. 6. 7
Śi. 8. 56, 59.
वाज a. furnished with feathers (as an arrow).
वाहः {1} a bird
Śi. 18. 73. {2} an arrow. {3} a letter-carrier.
विशेषकः lines of painting &c.
see पत्रभंग
Ku. 3. 33
R. 3. 55, 9. 29.
वेष्टः a kind of ear-ring
R. 16. 67.
शाकः a vegetable consisting chiefly of leaves.
शिरा the vein or fibre of a leaf.
श्रेष्ठः the Bilva tree.
सूचिः f. a thorn.
हिमं wintry or snowy weather.
Hindi
Hindiएक पत्ता
शब्दकल्पद्रुमः
Sanskritप(त्र)त्त्रं, (पतति वृक्षात् । पत ऌ गतौ +“सर्व्वधातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति ष्ट्रन् ।)वृक्षावयवविशेषः । पाता इति भाषा । तत्-पर्य्यायः । पलाशम् २ छदनम् ३ दलम् ४ पर्णम्५ छदः ६ । इत्यमरः । २ । ४ । १४ ॥
पात्रम् ७छादनम् ८ वर्हम् ९ वर्हणम् १० पत्रकम् ११ ।इति शब्दरत्नावली ॥
* ॥
विष्णवे पत्रविशेष-दानफलं यथा नारसिंहे ५२ अध्याये ।“पत्राण्यपि सपुष्पाणि हरेः प्रीतिकराणि च ।प्रवक्ष्यामि नृपश्रेष्ठ ! शृणुष्व गदतो मम ॥
अपामार्गपत्रं प्रथमं तस्माद्भृङ्गारकं परम् ।तस्मात्तु खादिरं श्रेष्ठं ततश्च शमिपत्रकम् ॥
दूर्व्वापत्रं ततः श्रेष्ठं ततोऽपि कुशपत्रकम् ।पत्रं तस्माद्दमनकं ततो विल्वस्य पत्रकम् ॥
विल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम् ।एतेषाञ्च यथालब्धैः पत्रैर्वा योऽर्च्चयेद्धरिम् ॥
सर्व्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
”देवीप्रीतिकरपत्राणि यथा, --“अपामार्गस्य पत्रन्तु ततो भृङ्गारपत्रकम् ।ततोऽपि गन्धिनीपत्रं वलाहकमतः परम् ॥
तस्मात् खदिरपत्रन्तु वञ्जुलस्तवकस्तथा ।आम्रन्तु वकगुच्छस्तु जम्बूपत्रं ततः परम् ॥
बीजपूरस्य पत्रन्तु ततोऽपि कुशपत्रकम् ।दूर्व्वाङ्कुरं ततः प्रोक्तं शमीपत्रमतः परम् ॥
पत्रमामलकं तस्माद्दामपत्रमतः परम् ।सर्व्वतो विल्वपत्रन्तु देव्याः प्रीतिकरं मतम् ॥
”इति कालिकापुराणे ९८ अध्यायः ॥
* ॥
तेजपत्रम् । तत्पर्य्यायः । तमालपत्रम् १ पत्रकम्२ छदनम् ३ दलम् ४ पालाशम् ५ अंशुकम् ६वासः ७ तापसम् ८ सुकुमारकम् ९ वस्त्रम् १०तमालकम् ११ रामम् १२ गोपनम् १३ वस-नम् १४ तमालम् १५ सुरनिर्गन्धम् १६ । अस्यगुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफ-वातविषवस्तिकण्डूतिदोषनाशित्वम् । मुखमस्तक-शोधनत्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।भावप्रकाशे ।“पत्रकं मधुरं किञ्चित्तीक्ष्णोष्णं पिच्छिलं लघु ।निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ॥
”(पत्यते स्थानात् स्थानान्तरे अनेन । पत + “दाम्नी-शसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।”३ । २ । १८२ । इति करणे ष्ट्रन् ।) वाहनम् ।शरपक्षः । पक्षिपक्षः । इति मेदिनी ॥
* ॥
(पत्यते पात्यते शास्त्रबोधायवर्णनिचयोऽनेन ।पत् + करणे ष्ट्रन् । अन्तर्निवन्तत्वात् तथात्वम् ।(लिखनाधारः । पात् इति भाषा । यथा, ज्योतिस्तत्त्वे ।“षाण्मासिके तु सम्प्राप्ते भ्रान्तिः संजायते यतः ।धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥
”धातुमयपत्राकृतिद्रव्यम् । पतर् इति तवक् इतिच भाषा । यथा, तुलापुरुषदाने दानसागरे ।“सुवर्णपत्राभरणा च कार्य्यासुलोहपार्श्वद्बयशृङ्खलाभिः ॥
” * ॥
(पात्यते स्थानात् स्थानान्तरं समाचारोऽनेन ।)पत्री । लिपिः । तस्य रज्ञ्जनं यथा, --“सुवर्णरूप्यरङ्गाद्यै रञ्जयेत् पत्रमुत्तमम् ।सामान्योत्तममध्यानां पत्ररञ्जनमीरितम् ॥
” * ॥
अथ पत्रप्रमाणम् ।“षडङ्गुलाधिकं हस्तं पत्रमुत्तममीरितम् ।मध्यमं हस्तमात्रं स्यात् सामान्यं मुष्टिहस्तकम् ॥
”अथ पत्रभङ्गप्रकारः ।“पत्रन्तु त्रिगुणीकृत्य ऊर्द्धे तु द्बिगुणं त्यजेत् ।शेषभागे लिखेद्बर्णान् गद्यपद्यादिसंयुतान् ॥
” * ॥
अथ पत्रस्य रचनक्रमः ।“राजलेखकमाहूय नृपो ब्रूयात् प्रयत्नतः ।पत्रं कुरु यथायोग्यं गद्यपद्यादिसंयुतम् ॥
पण्डितद्बयमानीय लेखको रहसि स्थितः ।यथायोग्यानुसारण पत्रं कुर्य्यान्मनोरमम् ॥
दिनद्वयं त्रयं वापि विचार्य्य पण्डितेन वै ।स्वभ्रान्तेर्दूषणं ज्ञात्वा विलिखेत् पत्रपुस्तके ॥
सामान्यपत्रे संलिख्य रहसि श्रावयेन्नृपम् ।नृपाज्ञया शुभे पत्त्रे विलिखेद्राजलेखकः ॥
” * ॥
अथ लेखनप्रकारः ।“अङ्कुशं प्रथमं दद्यात् मङ्गलार्थं विचक्षणः ।मध्ये विन्दुसमायुक्तमधः सप्ताङ्कसंयुतम् ॥
७ँ ॥
तदधः स्वस्ति विन्यस्य ततो गद्यं सुशोभनम् ।ततः श्रीशब्दरूपाणि पदन्यासक्रमं लिखेत् ॥
भाषया संस्कृतेनैव कुशलं विलिखेत् सुधीः ।ततः शुभाशुभां वार्त्तां संस्कृतैः प्राकृतैस्तथा ॥
ततः प्रमाणसन्देशं ततो वार्त्तां नियोजयेत् ।कीर्त्तिप्रीतियुतं पद्यं ततः किमधिकादिकम् ॥
पत्रप्रेषणश्लोकञ्च अङ्कमासादिसंयुतम् ।सर्व्वेषामेव पत्रेषु लिखनञ्चैवमीरितम् ॥
सर्व्वेषामेव पत्राणां विधिं ज्ञात्वा लिखेत्तु यः ।स्वदेशे कीर्त्तिमाप्नोति तथा देशान्तरेष्वपि ॥
एवं शास्त्रक्रमं ज्ञात्वा यो लिखेद्राजपत्रकम् ।स राजमन्त्रिभिः सार्द्धं यशः प्राप्नोत्यनुत्तमम् ॥
शास्त्रसन्दर्भमज्ञात्वा यो लिखेद्राजपत्रकम् ।स राजमन्त्रिभिः सार्द्धं दुर्य्यशो महदाप्नुयात् ॥
” * ॥
अथ पत्रनयनक्रमः ।“राजपत्रं नयेन्मूर्द्ध्नि ललाटे पात्रमन्त्रिणाम् ।गुरुपत्रं नयेन्मूर्द्ध्नि ब्राह्मणानान्तथैव च ॥
यतिसन्न्यासिनाञ्चैव स्वामिनश्च तथैव च ।सादरेणैव यत्नेन तथा मूर्द्धनि धारयेत् ॥
भार्य्यापुत्त्रस्य मित्रस्य हृदये धारयेत् सुधीः ।प्रवीराणां कण्ठदेशे पत्रधारणमीरितम् ॥
एतेषाञ्चैव पत्राणामुक्तं धारणलक्षणम् ।अन्येषामपि पत्राणां नियमो नात्र दर्शितः ॥
”अथ पत्रपठनप्रकारः ।“पत्रं धृत्वा नमस्कृत्य पूर्व्वाग्रं स्थापयेत् सुधीः ।दक्षिणाग्रेण सदसि नृपाग्रे राजलेखकः ॥
पत्रं वितत्य सदसि द्विवारं मनसा पठेत् ।स्फुटं पश्चात् प्रवक्तव्यमक्षोभो राजलेखकः ॥
रहसि श्रावयेत् पत्रं शुभं वा यदि वाशुभम् ।पत्रं श्रुत्वा विदित्वार्थं सभायां श्रावयेत्ततः ॥
रहस्य-पत्रं रहसि नृपाग्रे श्रावयेद्द्विजः ।अशुभं नैव सदसि शुभं पत्रं नृपाज्ञया ॥
एवं क्रमेण पत्रार्थं श्रावयित्वा द्विजोत्तमः ।नृपतेः सन्निधौ स्थित्वा नृपाज्ञामनुवर्त्तते ॥
”अथ पत्रचिह्नानि ।“ऊर्द्ध्वे षडङ्गुलं त्यक्त्वा वर्त्तुलं चन्द्रविम्बवत् ।कस्तूरीकुङ्कुमैः कुर्य्याद्राजपत्रं सुचिह्नितम् ॥
मन्त्रिणां कुङ्कुमेनैव पण्डितस्यैव चन्दनैः ।गुरूणां चन्दनेनैव सिन्दूरेणैव स्वामिनः ॥
भार्य्यायाश्चाप्यलक्तेन चन्दनैः पितृपुत्त्रयोः ।सन्न्यासिनां चन्दनेन यतीनां कुङ्कुमेन च ॥
रक्तचन्दनपङ्केन भृत्यस्य समुदीरितम् ।शोणितेनैव शत्रूणां पत्रचिह्नं प्रकल्पयेत् ॥
एतेषाञ्चैव सर्व्वेषां यथायोग्यानुसारतः ।पत्रस्योर्द्ध्वे तु मतिमान् कुर्य्यात् चिह्नं सुवर्त्तुलम् ॥
”अथ राजपत्रस्य कोणच्छेदनप्रकारः ।“दक्षिणे पत्रकोणस्य अधस्तात छेदयेत् सुधीः ।एकाङ्गुलप्रमाणेन राजपत्रस्य चैव हि ॥
”अथ राजपत्रादेः पदन्यासः ।“महाराजाधिराजञ्च दानशौण्डं तथैव च ।तथा सच्चरितं योज्यं कल्पवृक्षादिकं न्यसेत् ॥
यथायोग्यानुसारेण तथैव गुणभेदतः ।राजपत्रेषु सर्व्वेषु पदन्यासक्रमं विदुः ॥
”अथ मन्त्रिपत्रस्य ।“प्रवरं गुणमेदेन तथा सच्चरितादिकम् ।विन्यस्य विलिखेत् प्राज्ञो मन्त्रिपत्रे पदक्रमम् ॥
”अथ पण्डितस्य ।“संख्यावद्वन्दितपदं शास्त्रार्थनिपुणादिकम् ।पण्डितानाञ्च पत्रेषु विलिखेद्वै पदक्रमम् ॥
”अथ गुरुपत्रस्य ।“सांख्यसिद्धान्तनिपुणं सनमस्कारकं पदम् ।विन्यस्य विलिखेत् प्राज्ञो गुरुपत्रपदक्रमम् ॥
”अथ स्वामिपत्रस्य ।“प्रवर्य्यं सनमस्कारं प्राणप्रियादिकं पदम् ।विन्यस्य विलिखेद्धीमान् स्वामिपत्रपदक्रमम् ॥
”अथ भार्य्यापत्रस्य ।“प्राणप्रियापदं साध्वीं तथा सच्चरितादिकम् ।भार्य्यापत्रं लिखेद्विद्बान् पदक्रममनुत्तमम् ॥
”अथ पुत्त्रस्य ।“प्राणपुत्त्रपदं तद्वत्तथा सच्चरितादिकम् ।आशीर्व्वचनसंयुक्तं पुत्त्रपत्रपदक्रमम् ॥
”अथ पितृपत्रस्य ।“प्रभुवर्य्यं नमस्कारं तथा सच्चरितादिकम् ।विन्यस्य विलिखेत् पुत्त्रः पितृपत्रपदक्रमम् ॥
”अथ सन्न्यासियतिपत्रस्य ।“सर्व्ववाञ्छाविनिर्मुक्तं सर्व्वशास्त्रार्थपारगम् ।सन्न्यासियतिपत्रेषु विलिखेच्च पदक्रमम् ॥
”सामान्यस्य ।“सामान्यभृत्यशत्रूणां विनियोज्यामुकं प्रति ।शस्त्रावशेषितपदं छागतुल्यादिकं तथा ॥
एतेषामेव पत्रेषु यथायोग्यानुसारतः ।विन्यस्य विलिखेत् प्राज्ञः पदक्रममनुत्तमम् ॥
”श्रीशब्दविन्याससंख्या यथा, --“षड्गुरोः स्वामिनः पञ्च द्वे भृत्येचतुरो रिपौ ।श्रीशब्दानां त्रयं मित्रे एकैकं पुत्त्रभार्य्ययोः ॥
” * ॥
अथ राज्ञः प्रशस्तिः ।स्वस्तिगीर्व्वाणचयचूडारत्रराजिरोचिश्चुम्बित-चन्द्रचूडचरणनखेन्दुवृन्दचन्द्रिकासन्दोहास्वाद-चतुरचेतश्चकोरवरविषमसमरसञ्चरत्प्रबलतर-तुरगखुरपुटपटलदलितभूपृष्ठोत्तिष्ठद्भूयिष्ठधूलि-धाराधूसरितसकलहरिदन्तरप्रचण्डभुजदण्ड-भ्राजमानखरतरासिवित्रासितप्रत्यर्थिपृथ्वीपति-सार्थप्रार्थितानुकम्पासुधासम्पातानवरतविद्बद्दा-रिद्र्यविद्रावणद्रविणराशिविश्राणनसमुपार्ज्जितो-र्ज्जितयशोमरालावलिकवलितवलिदधीचिसञ्चित-यशोमृणालजालभूपालकुलतिलकश्रीयुतमहा-राजाधिराजेषु ॥
१ ॥
स्वस्तिप्रचण्डदोर्दण्डखण्डखण्डितारिमण्डल-मुण्डोन्मुक्तमुक्तावलीमण्डितसंग्रामाङ्गनरिङ्गमा-णानेकवारणवाहादिकायकाण्डवक्रतरनक्रचक्र-चंक्रमणदुरतिक्रमणीयापगापतिप्रभूतयशश्चन्द्र-चन्द्रिकाद्योतविद्योतितात्खिलजगन्मण्डलविविध-द्रविणार्पणसन्तोषितसूरिसमूहस्तूयमानावदात-कीर्त्तिनर्त्तकीनर्त्तनलीलालेपलेपितगीतिधुरीणो-र्व्वश्यादिवेश्याजनसविलासगीयमानगुणश्रवणा-न्दोलिताखण्डश्रवणकुण्डलपरितःप्रसर्पितप्रताप-तपनोत्तापितारातिततिसमध्यासितनिकुञ्जकुञ्ज-प्रस्तुतसौन्दर्य्यगाथाप्रमुदितश्रीमन्नारायणचरण-किङ्करश्रीयुतमहाराजदानशौण्डेषु ॥
२ ॥
* ॥
अथ मन्त्रिप्रशस्तिः ।स्वस्तिश्रीमत्समस्तसामन्तसेवकनिर्व्वाहकेषु ।कोषगोकृषिकृषीवलगजवाजिगृहपरिवारहर्ष-हेतुनीतिसेतुरक्षणनिपुणेषु । अस्मद्विश्वासैक-निकेतनेषु श्रीश्रीमन्त्रिप्रवीरेषु आशीराशिनिवे-दनकोऽयं वर्णभूतोऽत्रत्यं भव्यमावेदयन् तत्रत्यंभव्यमव्याहतमनुदिनमनुक्षणं पृच्छति स्म ॥
* ॥
अथ गुरुप्रशस्तिः ।स्वस्तिश्रीनारायणपदपाथोरुहनिःसरन्मक-रन्दमघुपायमानमानसेषु । विविधविद्याविद्योति-ताखिलगुणगणालङ्कृतवेदवेदाङ्गपारगस्वाश्रमो-चिताचारसम्पन्नपरमहंसपरिव्राजकाचार्य्यसेव्य-मानश्रीगोविन्दस्वरूपगुरुचरणारविन्देषु कोटि-शः प्रणामाः ॥
* ॥
अथ भार्य्यायाः स्वामिप्रशस्तिः ।स्वस्तिश्रीमदुद्दामप्रेमहेमभूषितास्मदादिभक्त-जनेषु । कर्णयोरधिष्ठानेषु । नेत्रयोरधिदैवतेषु ।कामस्य परिणामेषु । चतुर्व्वर्गप्रदायकेषु । ममा-पररूपेषु । श्रीमत्स्वामिचरणारविन्देषु । गोविन्दइवेन्दिरायाः शङ्कर इव गिरिजायाः महेन्द्र इवपुलोमजायाः प्रतिदिनं वर्द्धमाना समाराधनाप्रणामपूर्व्वमास्ताम् ॥
* ॥
अथ भर्त्तुर्भार्य्याप्रशस्तिः ।स्वस्तिश्रीमत्समस्तप्रेमपारलावण्यमूर्त्तौ प्रिय-तमायां नेत्रयुम्मस्य कनीनिकायामिव चन्द्रस्यक्षणदायामिव कमलाकरस्य कमलिन्यामिवपथिकस्य छायायामिव तृषातुरस्य शीतलामृत-धारायामिव मम सप्रेम निवेदयन्ती पत्रीशुभाशीराशीन्निवेदयतु सर्व्वदा ॥
* ॥
अथ पुत्त्रस्य पितरं प्रति प्रशस्तिः ।स्वस्तिश्रीमदभिनववशम्बदचित्तचिन्तितस्वीयानुरागानुरञ्जितानुगृहीतस्वगृह्यवर्गेषु । निज-चरणसरोज-रञ्जितपरागसं रक्तास्म दादिभाल-स्थलविशालभाग्यसम्भावुक्षु । श्रीयुतपितृचरण-सरोरुहेषु । अकिञ्चित्करकिङ्करस्य मम वद्ध-करसम्पुटस्यावनीपृष्ठलग्नाः साष्टाङ्गप्रणतयःसहस्रमजस्रं विज्ञाप्यञ्च ॥
* ॥
अथ पितुः पुत्त्रं प्रति प्रशस्तिः ।स्वस्तिश्रीविश्वेश्वरचरणसरोरुहानुग्रहसमा-सादितातिविततानवद्यविद्याविलासपीयूषपर-म्परापराभावुकानुपममाधुरीधुरीणविविधगुणा-लङ्कृतनिजवंशावतंससकलविश्वासनिधाननिज-कुलपवित्रीकृतात्मप्रायेषु । श्रीयुतशुद्धाचारपरि-पूरितपुत्त्रेषु शुभाशिषां राशयः सन्तु विज्ञा-प्यञ्च ॥
* ॥
अथ सन्न्यासियतिप्रशस्तिः ।स्वस्तिश्रीमत्परमहंसपरिव्राजकाचार्य्यकरण-निपुणतापराङ्मुखेषु । विषमविषयदोषदर्शन-दूषितप्रपञ्चरचनाविभावेषु । वेदवेदान्तसांख्य-सिद्धान्तबद्धदेवप्रकृतिपुरुषविवेकज्ञानशीलेषु ।संख्यावन्मुख्यवन्दितचरणारविन्दस्वाश्रमोचिता-चारपरिपालनपवित्रीकृतधरित्रीतलेषु । सकल-भूदेव-पूजित-श्रीयुत-गोस्वामि-चरणारविन्देषु ।ममावनीसंलग्नाः साष्टाङ्गप्रणामसहस्रमजस्रं ॐनमो नारायणायेति मन्त्रेणाकलितमस्तु ॥
* ॥
अथ भृत्यप्रशस्तिः ।१ँस्वस्तिभगवच्चरणपरायणसकलद्रविणाधि-रक्षकगोमहिष्यादिप्रतिपालकनिखिलवंशानु-सेवकवशंवदामुकभृत्यं प्रति ॥
* ॥
अथारिप्रशस्तिः ।स्वस्तिसमराङ्गनभ्रष्टप्रतिभटयशःपरिपूरित-सकलसामन्तराजधानीविजृम्भितवीरशस्त्राव-शेषितनिजवंशानुरक्षकसततपरित्रस्तशरणा-गतामुकं प्रति ॥
* ॥
अथ विवेकिनां प्रशस्तिः ।स्वस्तिश्रीभगवत्पदपङ्कजपूजनोपचितपुण्य-पुञ्जपवित्रीकृतान्तःकरणदिग्विलासिनीविसर-द्धम्मिल्लमिलन्मल्लीमालाकलायशोऽनुबन्धिनिर-वधिवसुविश्राणनाधरीकृतसुरपुरभूमीरुहेषु ।स्वस्तिश्रीमत्परमेश्वरपादपाथोरुहास्वाद-चतुरचित्तचञ्चरीकभूवृन्दारकवृन्दावनजनिता-मितयशःपटीरपङ्कपटलालङ्कृतदिगङ्गनागणस्तन-तटप्रबलप्रतापौर्व्वखर्व्वीकृतप्रत्यर्थिसार्थगर्व्वाकू-पारपारेषु ।” इति वररुचिकृतपत्रकौमुदी ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
