| YouTube Channel

पत्त्रलबण (pattralabaNa)

 
वाचस्पत्यम्
Sanskrit
पत्त्रलबण
न०
पत्रविशेषेण पक्वं लबणम् शा० त० सुश्रु-तोक्ते लबणभेदे “गन्धर्वहस्तकमुष्ककनक्तमालाटरूष-कपूतीकारग्बधचित्रकादीनां पत्राण्यार्द्राणि लवर्णेनसहोद्रखलेऽवक्षुद्य स्नेहघटे प्रक्षिप्यावलिप्य गोशकृद्भिर्द्दा-हयेदेतत् पत्रलबणमुपदिशन्ति वातरोगेषु”