पतिव्रता (pativratA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte Hindi
Hindiपतिव्रता
पतिः-व्रता -
"भक्त, श्रद्धालु, निष्ठावती स्त्री, सती स्त्री "
Shabdartha Kaustubha
Kannadaपतिव्रता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪತಿಸೇವೆಯಲ್ಲಿ ನಿರತಳಾದ ಹೆಂಗುಸು/ಪತಿಸೇವೆಯೇ ವ್ರತವಾಗಿ ಉಳ್ಳ ಹೆಂಗುಸು
व्युत्पत्तिः - > पतिः पतिसेवा व्रतमस्याः
प्रयोगाः - > "भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः", "मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया"
उल्लेखाः - > कुमा० ६-८६, नैष० २-८९
विस्तारः - > ಇಲ್ಲಿ ಪತಿಶಬ್ದಕ್ಕೆ ಲಕ್ಷಣೆಯಿಂದೆ ಪತಿಸೇವೆಯೆಂದು ಅರ್ಥ
Wordnet
Sanskrit पतिव्रता
पतिः व्रतमिव धर्म्मार्थकामेषु कायवाङ्मनोभिः सदा उपास्यः अस्याः।
अस्मिन् ग्रन्थे पतिव्रतानां कथाः सन्ति। "पतिव्रतानां यद्धर्मम् तन्निबोध व्रजेश्वर"[श क]"
पतिव्रता, स्वाम्यानुरक्ता, सती, साध्वी
पतिः व्रतमिव धर्म्मार्थकामेषु कायवाङ्मनोभिः सदा उपास्यः अस्याः।
"सावित्री पतिव्रता आसीत।"
Sanskrit Tibetan
Tibetankhyim thabs las mi 'phro ba
पतिव्रता
अभिधानचिन्तामणिः
Sanskritकृतसापत्निकाध्यूढाधिविन्नाथ पतिव्रता ॥ ५२७ ॥
एकपत्नी सुचरित्रा साध्वी सत्यसतीत्वरी ।
पुंश्चली चर्षणी बन्धक्यविनीता च पांसुला ॥ ५२८ ॥
स्वैरिणी कुलटा याति या प्रियं साभिसारिका ।
कृतसापत्निका (स्त्री), अध्यूढा (स्त्री), अधिविन्ना (स्त्री), पतिव्रता (स्त्री), एकपत्नी (स्त्री), सुचरित्रा (स्त्री), साध्वी (स्त्री), सती (स्त्री), असती (स्त्री), इत्वरी (स्त्री), पुंश्चली (स्त्री), चर्षणी (स्त्री), बन्धकी (स्त्री), अविनीता (स्त्री), पांसुला (स्त्री), स्वैरिणी (स्त्री), कुलटा (स्त्री), अभिसारिका (स्त्री)
अभिधानरत्नमाला
Sanskritपतिव्रता
पतिव्रता, सुचरिता, सती, साध्वी
कुलबालिका कुलस्त्री पतिव्रता सुचरिता सती साध्वी ॥ ४९५ ॥
verse 2.1.1.495
page 0057
नाममाला
Sanskritसती, पतिव्रता, साध्वी, पतिवती, एकपती, मनस्विनी, आर्या
सती पतिव्रता साध्वी पतिवत्येकपत्यपि ।
मनस्विनी भवत्यार्या विपरीता निरूप्यते ॥ ३४ ॥
verse 0.1.1.34
page 0017
अमरकोशः
SanskritWord: पतिव्रता
Root: पतिव्रता
Gender: स्त्री
Number: all
Meaning(s):
⇒ girl
⇒ virtuous woman
⇒ devoted and virtuous wife
Shloka(s):
2|6|6|2 ► पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥ (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|6|2 ⇢ सुचरित्रा (सुचरित्रा) (स्त्री) ⇒ virtuous wife, virtuous woman, coriander [spanish parsley or cilantro]
➠ 2|6|6|2 ⇢ सती (सती) (स्त्री) ⇒ wife, female, her ladyship, your ladyship, virtuous woman, female ascetic, fragrant earth, two kinds of metre, good and virtuous or faithful wife
➠ 2|6|6|2 ⇢ साध्वी (साध्वी) (स्त्री) ⇒ faithful wife, virtuous woman, chaste or virtuous woman
➠ 2|6|6|2 ⇢ पतिव्रता (पतिव्रता) (स्त्री) ⇒ girl, virtuous woman, devoted and virtuous wife
Related word(s):
परा_अपरासंबन्धः ➡ स्त्री
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritपतिव्रता, (पतिर्व्रतमिव धर्म्मार्थकामेषु काय-वाक्मनोभिः सदोपास्योऽस्याः ।) स्वाम्यनु-रक्ता । तत्पर्य्यायः । सुचरित्रा २ सती ३साध्वी ४ । इत्यमरः । २ । ६ । ६ ॥
एकपत्नी ५ ।इति शब्दरत्नावली ॥
तस्या लक्षणं यथा, --“आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ।मृते म्रियेत यापत्यौ सा स्त्री ज्ञेया पतिव्रता ॥
”इति शुद्धितत्त्वम् ॥
* ॥
तस्या माहात्म्यं यथा, --नारद उवाच ।“कर्म्मणा केन राजेन्द्र ! तपसा वा तपोधन ! ।उत्तमाञ्च गतिं याति कृष्णवासः प्रशंस मेएवसुक्तस्तु धर्म्मात्मा नारदेनाब्रवीत्तदा ।यम उवाच ।न तस्या निषमो विप्र ! तपो नैव च सुव्रत ! ।उपवासो न दानञ्च न दमो वा महामते ! ॥
यादृशी तु भवेद्विप्र ! शृणु तत्त्वं समासतः ।प्रसुप्ते या प्रस्वपिति विबुद्धे जाग्रति स्वयम् ॥
भुङ्क्ते तु भोजिते विप्र ! सा मृत्युञ्जयति ध्रुवम् ।मौने मौना भवेद्या तु स्थिते तिष्ठति या स्वयम् ।सा मृत्युञ्जयते विप्र ! नान्यत् पश्यामि किञ्चन ॥
एकदृष्टिरेकमना भर्त्तुर्व्वचनकारिणी ।तस्या बिभीमहे सर्व्वे ये तथान्ये तपोधन ! ॥
देवानामपि सा साध्वी पूज्या परमशोभना ।भर्त्ता वाभिहिता वापि प्रणत्याख्यायिनी भवेत् ॥
वर्त्तमानापि विप्रेन्द्र ! प्रत्याख्यानापि सा यदा ।तदैव तं संश्रयति पतिं नान्यं कदाचन ॥
भर्त्तुर्मृत्युमुखं ब्रह्मन् ! या पश्यति वराङ्गना ।एवं याति भवेन्नित्यं भर्त्तुः प्रियहिते रता ॥
अनुविष्टेन भावेन भर्त्तारमनुगच्छति ।सा तु मृत्युमुखद्वारं न गच्छेद्ब्रह्मसम्भव ! ॥
एष माता पिता बन्धुरेष मे दैवतं परम् ।एवं शुश्रूषते या तु सा मां विजयते सदा ।पतिव्रता तु या साध्वी तस्याश्चाहं कृताञ्जलिः ॥
भर्त्तारमनुध्यायन्ती भर्त्तारमनुगच्छति ।भर्त्तारमनुशोचन्ती मृत्युद्बारं न पश्यति ॥
गीतवादित्रनृत्यानि प्रेक्षणीयान्यनेकशः ।न शृणोति न पश्येत मृत्युद्बारं न पश्यति ॥
स्नायन्ती तिष्ठती वापि कुर्व्वन्ती वा प्रसाधनम् ।नान्यञ्च मनसा ध्यायेत कदाचिदपि सुव्रता ॥
देवता अर्च्चयन्ती वा भीजयन्त्यथ वा द्बिजान् ।पतिं न त्यजते चित्तात् मृत्युद्वारं न पश्यति ॥
भानौ चानुदिते या तु उत्थाय च तपोधन ! ।गृहं मार्जयते नित्यं मृत्युद्बारं न पश्यति ॥
चक्षुर्देहः स्वभावश्च यस्या नित्यं सुसंवृतम् ।शौचाचारसमायुक्ता सापि मृत्युं न पश्यति ॥
भर्त्तुर्मुखं प्रपश्यन्ती भर्त्तुश्चित्तानुसारिणी ।वर्त्तते च हिते भर्त्तुर्मृत्युद्बारं न पश्यति ॥
एवं कीर्त्तिमतां लोके दृश्यन्ते दिवि देवताः ।मानुषाणाञ्च भार्य्या वै तत्र देशे तु दृश्यते ॥
कथितैवं पुरा विप्र ! आदित्येन पतिव्रता ।मया तस्माचु विप्रर्षे ! यथावृत्तं यथाशुतम् ॥
गुह्यमेतत्ततो दृष्ट्वा पूजयामि पतिव्रताम् ॥
”इति वाराहे पतिव्रताचरित्रम् ॥
* ॥
पतिव्रताधर्म्मो यथा, --“पतिव्रतानां यद्धर्म्मं तन्निबोध व्रजेश्वर ! ।नित्यं भर्त्तर्य्युत्सुकया तत्पादोदकमीप्सितम् ।भक्तिभावेन सततं भोक्तव्यं तदनुज्ञया ॥
व्रतं तपस्यां देवार्च्चां परित्यज्य प्रयत्नतः ।कुर्य्याच्चरणसेवाञ्च स्तवनं परितोषणम् ॥
तदाज्ञारहितं कर्म्म न कुर्य्याद्वैरतः सती ।नारायणात् परं कान्तं ध्यायते सततं सती ॥
परपुंसां पुरञ्चैव सुवेशं पुरुषं परम् ।यात्रामहोत्सवं नित्यं नर्त्तकं गायनं व्रज ।परक्रीडाञ्च सततं नहि पश्यति सुव्रता ॥
यद्भक्ष्यं स्वामिनां नित्यं तदेवमपि योषिताम् ।नहि त्यजेत्तु तत्सङ्गं क्षणमेव च सुव्रता ॥
उत्तरे नोत्तरं दद्यात् स्वामिनश्च पतिव्रता ।न कोपं कुरुते शुद्धा ताडनाच्चापि कोपतः ॥
क्षुधितं भोजयेत् कान्तंदद्यात् पानञ्च तोषणे ।न बोधयेत्तं निद्रालुं प्रेरयत्येव कर्म्मसु ॥
पुत्त्राणाञ्च शतगुणं स्नेहं कुर्य्यात् पतिं सती ।पतिर्बन्धुर्गतिर्भर्त्ता दैवतं कुलयोषितः ॥
शुभं दृष्टा सुधातुल्यं कान्तं पश्यति सुन्दरी ।सस्मितं वदनं कृत्वा भक्तिभावेन यत्नतः ॥
पुरुषाणां सहस्रञ्च सती स्त्री च समुद्धरेत् ।पतिः पतिव्रतानाञ्च मुच्यते सर्व्वपातकात् ॥
नास्ति तेषां कर्म्मभोगः सतीनां व्रततेजसा ।तया सार्द्धञ्च निष्कर्म्मी मोदते हरिमन्दिरे ॥
पृथिव्यां यानि तीर्थानि सतीपादेषु तान्यपि ।तेजश्च सर्व्वदेवानां मुनीनाञ्च सतीषु च ॥
तपस्विनां तपः सर्व्वं व्रतिनां यत् फलं व्रज ।दाने फलं यद्दातॄ णां तत् सर्व्वं तासु सन्ततम् ॥
स्वयं नारायणः शम्भुर्विध ता जगतामपि ।सुराः सर्व्वे सुमुनयो भीतास्ताभ्याञ्च सन्ततम् ॥
सतीनां पादरजसा सद्यः पूता वसुन्धरा ।पतिव्रतां नमस्कृत्य मुच्यते पातकान्नरः ॥
त्रैलोक्यं भस्मसात् कर्त्तुं क्षणेनैव पतिव्रता ।स्वतेजसा समर्था सा महापुण्यवती सदा ॥
सतीनाञ्च पतिः साध्वीपुत्त्रो निःशङ्क एव च ।नहि तस्य भयं किञ्चिद्देवेभ्यश्च यमादपि ॥
शतजन्मपुण्यवतां गृहे जाता पतिव्रता ।पतिव्रताप्रसूः पूता जीवन्मुक्तः पिता तथा ॥
सती स्त्री प्रातरुत्थाय त्यक्त्वा च रात्रिवाससम् ।भर्त्तारञ्च नमस्कृत्य करोति स्तवनं मुदा ॥
गृहकार्य्यं ततः कृत्वा स्नात्वा धौते च वाससी ।गृहीत्वा शुक्लपुष्पञ्च भक्तितः पूजयेत् पतिम् ॥
स्नापयित्वा सुपूतेन जलेन निर्म्मलेन च ।तस्मै दत्त्वा धौतवस्त्रं तत्पादौ क्षालयेन्मुदा ॥
आसने वासयित्वा च दत्त्वा भाले च चन्दनम् ।सर्व्वाङ्गलेपनं कृत्वा दत्त्वा माल्यं गलेऽपि च ॥
सामवेदोक्तमन्त्रेण भोगद्रव्यैः सुधोपमैः ।संपूज्य भक्तितः कान्तं स्तुत्वा च प्रणमेन्मुदा ॥
‘ॐ नमः कान्ताय शान्ताय सर्व्वदेवाश्रयायस्वाहा ॥
’इत्यनेनैव मन्त्रण दत्त्वा पुष्पञ्च चन्दनम् ।पाद्यार्घ्यधूपदीपांश्च वस्त्रं नैवेद्यमुत्तमम् ॥
जलं सुवासितं शुद्धं ताम्बू लञ्च सुसंस्कृतम् ।दत्त्वा स्तोत्रञ्च प्रपठेत् यत् कृतं पाठ्यमेव च ॥
ॐ नमः कान्ताय शास्त्रे च शिवचन्द्रस्वरूपिणे ।नमः शान्ताय दान्ताय सर्व्वदेवाश्रयाय च ॥
नमो ब्रह्मस्वरूपाय सतीप्राणपराय च ।नमस्याय च पूज्याय हृदाधाराय ते नमः ॥
पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च ।ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे ॥
पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः ।पतिश्च निर्गुणाधारो ब्रह्मरूप ! नमोऽस्तु ते ॥
क्षमस्व भगवन् ! दोषं ज्ञानाज्ञानकृतञ्च यत् ।पत्नीबन्धो ! दयासिन्धो ! दासीदोषं क्षमस्व च ॥
इदं स्तोत्रं महापुण्यं सृष्ट्याद्ये पद्मया कृतम् ।सरस्वत्या च धरया गङ्गया च पुरा व्रज ॥
सावित्र्या च कृतं पूर्व्वं ब्रह्मणे चापि नित्यशः ।पार्व्वत्या च कृतं भक्त्या कैलासे शङ्कराय च ॥
मुनीनाञ्च सुराणाञ्च पत्नीभिश्च कृतं पुरा ।पतिव्रतानां सर्व्वासां स्तोत्रमेतत् शुभावहम् ॥
इदं स्तोत्रं महापुण्यं या शृणोति पतिव्रता ।नरोऽन्यो वापि नारी वा लभते सर्व्ववाञ्छितम् ॥
अपुत्त्रो लभते पुत्त्रं निर्घनो लभते धनम् ।रोगी च मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ॥
पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत् ।फलञ्च सर्व्वतपसां व्रतानाञ्च व्रजेश्वर ! ॥
इदं स्तुत्वा नमस्कृत्य भुङ्क्ते सा तदनुज्ञया ।उक्तः पतिव्रताधर्म्मो गृहिणां श्रूयतां व्रज ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥
* ॥
पतिव्रतानामानि यथा, --सूर्य्यस्य सुवर्च्चला १ शक्रस्य शची २ वशिष्ठस्यअरुन्धती ३ चन्द्रस्य रोहिणी ४ अगस्त्यस्यलोपामुद्र ५ च्यवनस्य सुकन्या ६ सत्यवतःसावित्री ७ कपिलस्य श्रीमती ८ सौदासस्यमदयन्ती ९ सगरस्य केशिनी १० नलस्य दम-यन्ती ११ रामस्य सीता १२ शिवस्य सती १३नारायणस्य लक्ष्मीः १४ ब्रह्मणः सावित्री १५रावणस्य मन्दोदरी १६ । इति पुराणान्तरम् ॥
(गायत्रीस्वरूपा भगवती । यथा, देवीभागवते ।१२ । ६ । ९६ ।“पतिव्रता पवित्राङ्गी पष्पहासपरायणा ।प्रज्ञावती सुता पौत्त्री पुत्त्रपूज्या पयस्विनी ॥
”)
वाचस्पत्यम्
Sanskritपतिव्रता स्त्री पतिर्व्रतमिव नियतोपास्यत्वात् यस्याः ।साध्व्यां स्त्रियाम् अमरः तद्धर्माश्च काशी० ख० ४ अ०उक्ता यथा“पतिब्रतेयं कल्याणी लोपामुद्रा सधर्मिणी । तवा-ङ्गच्छायया तुल्या यत्कथा पुण्यकारिणी । पतिव्रता-स्वरुन्धत्या सावित्र्याप्यनुसूयया । शाण्डिल्यया चसत्या च लक्ष्म्या च शतरूपया । मेनया च सुनीत्याच मंज्ञया स्वाहया तथा । तथैमा वर्ण्यते श्रेष्ठा नतथान्येति निश्चितम् । भुङ्क्ते भुक्ते त्वयि मुने!तिष्ठति त्वयि तिष्ठति । विनिद्रिते च निद्राति प्रथमंप्रतिबुध्यते । अनलङ्कृतमात्मानं तव नो दर्शयेत्कचित् । कार्य्यार्थं प्रोषिते क्वापि सर्वमण्डनवर्जिता ।न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये । पुरुषान्तर-नामापि न गृह्णाति कदाचन । आक्रुष्टाषि नचा-क्रोशेत् ताडिताषि प्रसीदति । इदं कुरु कृतं स्वामिन्!मन्यतामिति वक्ति च । आहूता गृहकर्मणि त्यक्त्वागच्छति सत्वरम् । किमर्थं व्याहृता नाथ! सप्रसादो-ऽभिधोयताम् । न चिरं तिष्ठते द्वारि न द्वारमुप-सेवते । अदापितं त्वया किञ्चित् कस्मैचिन्न ददात्यपि ।पूजोपकरणं सर्वमनुक्ता साधयेत् स्वयम् । नियमोदक-बर्हींषि पत्रपुष्याक्षतादिकम् । प्रतीणामाणावसरंयथाकालोचितं हि यत् । तदुपस्थापयेत् सर्वमनुद्विग्नातिहृष्टवत् । सेवते भर्तुरुच्छिष्टमिष्टमन्नकलादिकम् ।महाप्रसाद इत्युक्त्वा पतिदत्तं प्रतीच्छति । अविभज्य नचाश्रीयात् देवपित्रतिथिष्वपि । परिचारकवर्गेषुनोषु भिक्षुकुलेषु च । संयतोपस्करा दक्षा हृष्टाव्ययपराङ्मुखी । कुर्य्यात् त्वयाऽननुज्ञाता नीषवासव्रतादिकम् । दूरतो वर्जयेदेषा ममाजोत्सवदर्शनम् ।न गच्छेत् तोर्थयात्रादिविवाहप्रेक्षणादिषु । सुखसुप्तंसुखासीनं वसन्तञ्च यदृच्छया । आन्तरेष्वपि कार्य्येषुपतिं नोत्थापयेत् क्वचित् । स्त्रीधर्मिणी त्रिरानन्तुस्वमुखं नैव दर्शयेत् । स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुध्यति । सुस्नाता भर्तृवदनमीक्षतेऽन्यखन क्वचित् । अथ वा मनसि ध्यात्वा पतिं भानुं विलो-कयेत् । हरिद्रां कुङ्कुमञ्चैव सिन्दूरं कज्जलं तथा ।कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं तथा । केशसंस्कारकवरीकरकर्णविभूषणम् । भर्तुरायुष्यमिच्छन्ती दूरयेन्नपतिव्रता । न रजक्या न हैतुक्या तथा श्रमणया न च ।न च दुर्भगया क्वापि सणित्वं कुरुते सती । भर्तृवि-द्वेषिणीं नारीं नैषा सम्भाषते क्वचित् । नैकाकिनीक्वचिद्भूयान्न लग्ना स्न्याति च क्वचित् । नोदूखले ननुषले न वर्द्धन्यां दृषद्यपि । न यन्त्रके न देहल्यांसती चीपविशेत् क्वचित् । विना व्यवायसमयं प्राग-ल्भ्यं न क्वचिच्चरेत् । यत्र यत्र रुचिर्भर्तुस्तत्र प्रेम-बती सदा । इदमेव व्रतं स्त्रीणामयमेको वृषः परः ।इयमेका देवपूजा भर्तुर्वाक्यं न लङ्वयेत् । क्लीवं वादुरवस्थं वा व्याधितं वृद्धमेव वा । सुस्थितं दुस्थितंवापि पतिमेकं न लङ्घयेत् । हृष्टा हृष्टे विषण्णास्याविषण्णास्ये प्रिये सदा । एकरूपा भवेत् पुण्या सम्पत्सुच विपत्सु च । सर्पिर्लवणतैलादिक्षयेऽपि च पति-ब्रता । पतिं नास्तीति न ब्रूयादायासेषू न योजयेत् ।तीर्थस्नानार्थिनी नारी पतिपादोदकं पिवेत् । शङ्करा-दपि विष्णोर्वा पतिरेकोऽधिकः स्त्रियाः । व्रतोपवास-नियमं पतिमुल्लङ्य नाचरेत् । आयुष्यं हरते भर्तुर्मृतानिरयमृच्छति । भर्तुः प्रत्युत्तरं दद्यान्नारी या क्रोध-तत्परा । कुक्कुरी जायते ग्रामे शृगालो निर्जनेवने । स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ।कभ्यर्च्य चरणौ भर्तुर्भोक्तव्यं कृतनिश्चयम् । उच्चा-सनं न सेवेत न ब्रजेत् परवेश्मसु । न त्रपाकरवाक्यानिवक्तव्यानि कदाचन । अपवादो न वक्तव्यः कलहं दूरत-स्त्यजेत् । गुरूणां सन्निधौ चापि नोच्चैर्ब्रूयान्न वाहसेत् । या भर्त्तारं परित्यज्य रहञ्चरति दुर्मतिः ।उलूकी जायते क्रूरा वृक्षकोटरशायिवी । ताडिताताडितुं येच्छेत् सा नारी वृषदंशिका । कटाक्षयतियाऽन्यंवै केकराक्षी तु सा भवेत् । या भर्त्तारं परित्यज्यमिष्टमश्नाति केवलम् । ग्रामे सा शूकरी भूयाद्बहि-र्वा तुषविड्भुजा । बा हुङ्कृत्य प्रियं ब्रूते सा मूकाजायते खलु । या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनःपुनः । वृष्टिं विलुप्य भर्त्तुर्या कञ्चिदम्यं समीक्षते ।काणा वा विमुखी वावि कुरूपापि च जायते । वाह्या-दायान्तमालोक्य त्वरिता च जलासनैः । ताम्बूलैर्व्यज-नैश्चैव पादमंवाहनादिभिः । तथैव चाटुवचनैः खेद-संनोदनैः परैः । या पियं प्रीणयेत् प्रीता त्रिलोकीप्रीणिता तया । मितं ददाति हि पिता मितं भ्रातामितं सुनः । अमितस्य हि दातारं मर्तारं षूजयेत्सदा । भर्त्ता देवो गुरुर्भर्त्ता धर्मतीर्थव्रतानि च ।तस्मात् सर्वं परित्यज्य पतिमेकं समर्च्चयेत् । जीवहीनोयथा देहः क्षणादशुचितां व्रजेत् । गर्तृहीना तथायोषा सुस्नाताप्यशुचिः सदा । अमङ्गलेभ्यः सर्वेभ्योबिधवाह्यत्यमङ्गला । विधवादर्शनात् सिद्धिर्जातु यातुर्नजायते । विहाय मातरं चैकां सर्वामङ्गलवर्जिताम् ।तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम् । कन्यां विवा-हसमये वाचयेयुरिति द्विजाः । पत्युः सहचरी भूयाजीवतोऽजीवतः सदा । भर्त्ता सदानुयातव्यो देहवत्छायया स्त्रिया । चन्द्रमा ज्योत्स्नया यद्वद्विद्युत्वान्विद्युता यथा । अनुव्रजन्ती भर्त्तारं गृहात् पितृवनंमुदा । पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् । व्याल-ग्राही यथा व्यालं बलादुद्धरते बिलात् । एवमुत्क्रम्यदूतेभ्यः पतिं स्वर्गं नयेत् सती । यमदूताः पलायन्तेसतीमालोक्य दूरतः । अपि दुष्कृतकर्माणं समुत्सृज्यच तत्पतिम् । न तथा विभिमो वह्नेर्न तथा विद्युतोयथा । आपतन्तीं समालोक्य वयं दूताः पतिव्रताम् ।तपनस्तप्यतेऽत्यन्तं दहनोऽपि च दह्यते । कम्पन्ते सर्व-तेजांसि दृष्ट्वा पातिव्रतं महः । यावत् स्वलोमसंख्यास्तितावत् कोट्ययुतानि च । भर्ता स्वर्गसुखं भुङ्क्ते रम-माणा पतिव्रता । धन्या सा जननी लोके धन्योऽसौजनकः पुनः । धन्यः स च पतिः श्रीमान् येषां गेहेपतिव्रता । पितृवंश्या मातृबंश्याः पतिवंश्यास्त्रयस्त्रयः ।पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते । शील-भङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् । पितुर्मातुस्तथापत्युरिहामुत्र च दुःखिता । पतिव्रतायाश्चरणी यत्रयत्र स्पृशेद् भुवम् । तत्रेति भूमिर्मन्येत नात्र भारोऽस्तिपावनी । बिभ्यत् पतिब्रतास्पर्शं कुरुते भानुमानपि ।सोमो गन्धवहश्चापि स्वपवित्राय नान्यथा । आपःपतिव्रतास्पशंमभिलिप्सन्ति सर्वदा । अद्य जाड्यविनाशोनो जातास्त्वद्यापि पावनाः । गृहे गृहे न किं नार्य्योरूपलाबण्यगर्विताः । परं विश्वेशभक्त्यैव लभ्यतेस्त्री पतिव्रता । भार्य्या मूलं गृहस्यस्य भार्य्या मूलंसुखस्य च । भार्य्या धर्मफलावाप्त्यै भार्य्या सन्तान-वृद्धये । परलोकस्त्वयं लोको जीयते भार्य्यया द्वयम् ।देवपित्रतिथीज्यादि नाभार्य्यः कर्म चार्हति । गृहस्थःस हि विज्ञेयो यस्य गेहे पतिव्रता । ग्रस्यतेऽन्यः पति-पदं राक्षस्या जरयाऽथ वा । यथा गङ्गावगाहेन शरीरंपावनं भवेत् । तथा पतिव्रतादृष्ट्या शुभया पायनंमवेत्” । “आर्त्तार्त्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता” शु० त० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
