| YouTube Channel

पतितः (patitaH)

 
Apte Hindi
Hindi
पतितः
भू* क* कृ* - पत् + क्त
"गिरा हुआ, अवरूढ, उतरा हुआ"
पतितः
भू* क* कृ* - पत् + क्त
नीचे गिरा हुआ
पतितः
भू* क* कृ* - पत् + क्त
"(नैतिक दृष्टि से) पतित, भ्रष्ट, दुश्चरित्र"
पतितः
भू* क* कृ* - पत् + क्त
स्वधर्मभ्रष्ट
पतितः
भू* क* कृ* - पत् + क्त
"अपमानित, जातिबहिष्कृत"
पतितः
भू* क* कृ* - पत् + क्त
"युद्ध में हारा हुआ, पराजित, परास्त"
पतितः
भू* क* कृ* - पत् + क्त
"ग्रस्त, फंसा हुआ"
शब्दकल्पद्रुमः
Sanskrit
पतितः, त्रि, (पतति भ्रष्टो भवति स्वधर्म्मात् शास्त्र-विहितकर्म्मणः सदाचारादिभ्यो वा यः पत् +कर्त्तरि क्तः चलितः गलितः पतनाश्रयः ।पडा इति भाषा तत्पर्य्यायः प्रस्कन्नः ।इति हेमचन्द्रः
पातित्यविशिष्टः स्वधर्म्मच्युतः ।तस्य लक्षणं यथा, मार्कण्डेयपुराणे ।“स्वधर्म्मं यः समुच्छिद्य परधर्म्मं समाश्रयेत् ।अनापदि विद्बद्भिः पतितः परिकीर्त्तितः
”पातित्यकारणं यथा, मात्स्ये २०१ अध्याये ।“चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा प्रतिगृह्य ।पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति
”पतिता यथा, --“गराग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः ।क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम्
गिरिवृक्षप्रपातञ्च ये कुर्व्वन्ति नराधमाः ।कुशिल्पजीविनश्चैव सूनालङ्कारकारिणः
”तथा, --“ब्रह्मदण्डहता ये ये वै ब्राह्मणैर्हताः ।महापातकिनो ये पतितास्ते प्रकीर्त्तिताः
”तेषां दाहादिनिषेधो यथा, --“पतितानां दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ।न चाश्रुपातः पिण्डो वा कार्य्यंश्राद्धादिकं क्वचित्
”इति शुद्धितत्त्वे ब्रह्मपुराणम्
*
तेषां संसर्गनिषेधो यथा, वराहपुराणे ।“आसन्नशयनाच्चैनं भोजनात् कथनादिषु ।सम्बत्सरेण पतति पतितेन सहाचरन्
”प्रायश्चित्तेतरवैदिकर्म्मानधिकारी सन् नरक-भागी यथा, --“पतितैः संप्रयुक्तानामिमां शृणुत निष्कृतिम् ।सम्बत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद्यौनाच्छ्वासपानाशनासनात् ।यो येन पतितेनैव संसर्गं याति मानवः ।स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशुद्धये
”तेषामुदककार्य्यं यथा, --“पतितस्यौदकं कार्य्यं सपिण्डैर्ब्राह्मणैः सह ।निन्दितेऽहनि सायाह्ने ज्ञातिभिर्गुरुसन्निधौ
दासीघटमयं पूर्णं पर्य्यस्येत् प्रेतवत् सदा ।अहोरात्रमुपासीनं नाशौचं ब्राह्मणैः सह
निवर्त्तयेरंस्तस्मात्तु सम्भाषणसहासनम्
”इति मात्से २०१ अध्यायः
अत्याज्या पतिता यथा, मत्स्यपुराणे ।“पतिता गुरवस्त्याज्या तु माता कदाचन ।गर्भधारणपोषाभ्यां तेन माता गरीयसी
”द्वादशवार्षिकव्रतनाश्यपापयुक्तः तस्य और्द्ध्व-देहिकविधिर्यथा, “पूर्व्वोक्तश्चात्महादेः दाहा-शौचादिनिषेधस्तदानीमेव वत्सरान्ते तु सर्व्व-मौर्द्धदेहिकं कुर्य्यात्
गोब्राह्मणहतानाञ्च पतितानां तथैव ।ऊर्ड्घं संवत्सरात् कुर्यात् सर्व्वमेवौर्ड्घदेहिकम्
”इति हेमाद्रौ षट्त्रिंशन्मतात्
एवं म्लेच्छीकृतानामपि गयाश्राद्धमपि कार्य्यम् ।“ब्रह्महा कृतघ्नश्च गोघाती पञ्चपातकी ।सर्व्वेते निष्कृतिं यान्ति गयायां पिण्डपातनात्
”इत्यग्निपुराणात्
*
एवं ब्राह्मेऽपि ।“क्रियते पतितानान्तु गते संवत्सरे क्वचित् ।देशधर्म्मप्रमाणत्वात् गयाकूपे स्वबन्धुभिः
मार्त्तण्डपादमूले वा श्राद्धं हरिहरौ स्मरन्
”सूर्यपदे इत्यर्थः
*
तत्र वर्षमध्ये कृत्यमुक्त-मपरार्के वायुपुराणे ।“शुक्लपक्षे तु द्बादश्यां कुर्य्यात् श्राद्धन्तु वत्सरम् ।द्वादशाहानि वा कुर्य्यात् शुक्ले प्रथमेऽहनि
”छागलेयः ।“नारायणवलिः कार्य्यो लोकगर्हाभयान्नरैः ।तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः
”व्यासः ।“नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते ।तस्य शुद्धिकरं कर्म्म तद्भवेन्नैतदन्यथा
”स चात्मघातादिप्रायश्चित्तं कृत्वा कार्य्यः तदुक्तंहेमाद्रौ षट्त्रिंशन्मते ।“कृत्वा चान्द्रायणं पूर्व्वं क्रिया कार्य्या यथाविधि ।नारायणवलिः कार्य्यो लोकगर्हाभयात् नरैः
पिण्डोदकक्रियाः पश्चात् वृषोत्सर्गादिकञ्च यत् ।एकोद्दिष्टानि कुर्व्वीत सपिण्डीकरणं तथा
”दिवोदासीये वृद्धशातातपस्तु इत्याह ।“पतिते मृते शुद्ध्यौ प्राजापत्यांस्तु षोडश ।मृते चापत्यरहिते कृच्छ्राणां नवतिं चरेत्
”इदं प्रायश्चित्तार्हपित्रादिविषयम् ।“इन्द्रियैरपरित्यक्ता ये मूढा विषादिनः ।घातयन्ति स्वमात्मानं चाण्डालादिहताश्च ये
तेषां पुत्त्राश्च पौत्त्राश्च दयया समभिप्लुताः ।यथाश्राद्धं प्रतन्वन्ति विष्णुनामप्रतिष्ठितम्
तथा ते संप्रवक्ष्यामि नमस्कृत्य स्वयम्भुवे
”इति हेमाद्रौ तेनैवोक्तेः
*
तत्रैव वौधायनोऽपि नारायणवलिं व्याख्या-स्यामोऽभिशस्तपतितसुरापात्मत्यागिनां ब्राह्मण-हतानाञ्च द्वादशवर्षाणि त्रीणि वा वारिमरणंयत्र यस्य तत्र तत्र कुर्व्वीतेति
*
गृह्यपरि-शिष्टे तु चण्डालादित्याद्युक्त्वा, --“दग्ध्वा शरीरं प्रेतस्य संस्थाप्यास्थीनि यत्नतः ।प्रायश्चित्तन्तु कर्त्तव्यं पुत्त्रैश्चान्द्रायणत्रयम्
”इत्युक्तम्
*
मदनरत्ने ।“ब्राह्मणहतानाञ्च द्बादशवर्षाणि त्रीणि वाकुर्व्वीतेति
*
मदनरत्ने ब्राह्मे ।“प्रमादादपि निःशङ्कस्त्वकस्माद्बिधिचोदितः ।चण्डालैर्ब्राह्मणैश्चौरैर्निहतो यत्र कुत्रचित्
तस्य दाहादिकं कार्य्यं यस्मान्न पतितस्तु सः ।चान्द्रायणं तप्तकृच्छ्रद्वयं तस्य विशुद्धये
यद्वा कृच्छ्रान् पञ्चदश कृत्वा तु विधिना दहेत् ।बुद्धिपूर्व्वमृतानान्तु त्रिंशत्कृच्छ्रं समाचरेत्
”इत्युक्तम् स्मृतिरत्नावल्यां तद्द्विगुणं प्रायश्चित्तंकृत्वा अर्व्वागप्यब्दात् सर्व्वं कार्य्यं इत्युक्तम् ।“आत्मनो घातशुद्ध्यर्थं चरेच्चान्द्रायणद्बयम् ।तप्तकृच्छ्रचतुष्कञ्च त्रिंशत्कृच्छ्राणि वा पुनः
अर्व्वाक् संवत्सरात् कुर्य्यात् दहनादि यथोदितम् ।कृत्वा नारायणवलिमनित्यत्वात्तदायुषः
इति
इदञ्चात्मवधनिमित्तं तज्जातिवधप्रायश्चित्तेनसमुच्चितं कार्य्यम् अतएव वौधायनेनोक्तम् ।द्वादशवर्षाणि त्रीणि वेति मदनपारिजातेस्मृत्यर्थसारे ब्रह्महादीनां तद्योग्यं प्रायश्चित्तंकृत्वा नारायणवलिः कार्य्य इत्युक्तम् एवं म्लेच्छी-कृतानामपि
*
यत्तु कश्चिदाह पुत्त्र-कृतेन प्रायश्चित्तेन पितुः पापनाशे मानाभावः ।आत्मघाते तु वचनादस्तु महापातके तु कथंस्यादिति स्वयमेव आत्मवधप्रायश्चित्तस्यजातिवधनिमित्तेन समुच्चयं वदन् हृदयशून्यएव नहि जातिवधनिमित्तं पुत्त्रैः कार्य्यमितिवचनमस्ति पुत्त्रकर्त्तृकसर्व्वप्रायश्चित्तादिविप्लवा-पत्तेः प्रागुक्तवौधायनवचनाच्चेति दिक् इदंप्रायश्चित्तार्हाणामेव प्रायश्चित्तानर्हाणान्तु पति-तौदकमात्रं कार्य्यमिति केचित् मदनपारि-जातादिस्वरसोऽप्येवम् वस्तुतस्तु तदर्हानर्हयो-र्व्वचनेऽनुपांदानात् अविशेषात् तत्रापि नारा-यणवलिर्गयाश्राद्धञ्चेति युक्तम्
*
पतितोदक-विधिस्तु मित्राद्यतिरिक्तविषय इत्यपरे यथा ।हेमाद्रौ ब्राह्मे ।“पतितस्य तु कारुण्यात् यस्तृप्तिं कर्त्तुमिच्छति ।स हि दासीं समाहूय सर्व्वगां दत्तवेतनाम्
अशुद्धघटहस्तान्तां यथावृत्तं ब्रवीत्यपि ।हे दासि ! गच्छ मूल्येन तिलानानय सत्वरम्
तोयपूर्णं घटञ्चेमं सतिलं दक्षिणामुखी ।उपविष्टा तु वामेन चरणेन ततः क्षिप
कीर्त्तयेः पातकिसंज्ञां त्वं पिबेति मुहुर्व्वद ।निशम्य तस्य वाक्यं सा लब्धमूल्या करोति तत्
एवं कृते भवेत्तृप्तिः पतितानां चान्यथा
”इति ।इदञ्च मृताहे कार्य्यम् पतितस्य दासी मृताह्निपदा घटमपवर्जयेदेतावतायमुपचरितो भव-तीति मदनरत्ने विष्णूक्तेः इदञ्चात्मत्यागि-विषयम् आत्मत्थागिनः पतितास्तेनाशौचोदक-भाजः स्युरित्युपक्रम्य विष्णुना एतस्याभिधाना-दिति गौडाः उपलक्षणत्वात् सर्व्वेषामिति तुयुक्तम् इति निर्णयसिन्धौ परिच्छेदः