पताकी (patAkI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
पुराणम्
Englishपताकी / PATĀKĪ. A soldier of the kaurava army. duryodhana gave instructions to śakuni to attack arjuna taking patākī along with him for help. (Chapter 156, droṇa Parva).
शब्दकल्पद्रुमः
Sanskritपताकी, [न्] त्रि, (पताका विद्यतेऽस्य । पताका+ इनिः ।) वैजयन्तिकः । पताकाधारी । इत्य-मरः । २ । ८ । ७१ ॥
(यथा, महाभारते ।६ । १७ । २० ।“स तु गोवासनः शैव्यः सहितः सर्व्वराजभिः ।ययौ मातङ्गराजेन राजार्हेण पताकिना ॥
”)रिष्टारिष्टबोधकचक्रविशेषः । तस्य लिखनक्रमोयथा, --“तिर्य्यगूर्द्धगता रेखास्तिस्रो देयाः पताकया ।युताः कार्य्या वेधविदा सर्व्वसङ्गतरेखया ॥
दक्षस्थोद्गतरेखातो वामं मेषाद्यराशयः ।पञ्चाष्टयुग्मविंशाश्च शड्दशेन्द्राग्निसागराः ।कर्क्कटान्मीनपर्य्यन्तमङ्का देया यथाक्रमम् ॥
५ -- ४८ -- ३२ -- १४२० ६ १०बालस्य जन्मकालीनग्रहलग्नमजादिष ।विन्यस्य चिन्तयेत् प्राज्ञः शुभाशुभं यथाग्रहात् ॥
”तत्र शुभाशुभज्ञानं यथा, --“शुभदण्डयोगवेधैर्लग्नाद्बालस्य शोभनम् ।पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकालवित् ।बलेऽधिके दिनं मध्ये मासो हीने च हायनम् ॥
”वेधज्ञानं यथा, --“कर्केर्मीनधनुर्भ्याञ्च हरेः कीटघटेन च ।स्त्रियास्तौलिमृगाभ्याञ्च धटे मीनेन कन्यया ॥
धनुषो मृगकर्किभ्यां मकरे धनुषा स्त्रिया ।मीने कर्कितुलाभ्याञ्च मीनस्त्रीधनुषात्वजे ॥
तुलाकर्किमृगैर्द्वन्द्वे कीटकुम्भवृषेषु च ।सिंहवद्वेध एतेषु वामदक्षिणसंमुखैः ॥
राहुकेत्वर्कसौरारैः पापैर्विद्धो युतोऽशुभः ।तदन्यैर्युतविद्धस्तु लग्नराशिः शुभप्रदः ॥
”रिष्टिकालो यथा, --“एकोनविंशतिः कर्के सिंहे सप्तदशैव तु ।षट्त्रिंशदबलायाञ्च षड्विंशतिस्तुलाधरे ॥
वृश्चिके सिंहवज्ज्ञेयमूनत्रिंशच्छरासने ।षड्विंशं मकरे ज्ञेयं कुम्भे सप्तदश स्मृताः ॥
नव युग्मे तथा मीने मेषे षड्दशभिस्तथा ।वृषभे च तथा सिंहे युग्मेऽङ्कहरलोचने ॥
त्रितयाङ्कादियं संख्या दिनमासाब्दनिर्णये ।एकाङ्काद्द्विगृहाङ्काद्वा क्वचिद्रिष्टेश्च सम्भवः ॥
”अथ यामार्द्धाधिपज्ञानम् ।“वारेशादर्द्धयामेषु रात्र्यह्णोः पञ्चषट् क्रमात् ।अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्ति ते ।रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि ॥
रविशुक्रज्ञरात्रीशशनीज्यकुजभास्कराः ।दिने ऊह्याः परेष्वेवं तत्राध्यक्षाश्चतुर्ग्रहाः ॥
”अथ दण्डाधिपज्ञानम् ।“पापदण्डे भवेद्रिष्टिः शुभदण्डे शुभं भवेत् ।शुभग्रहस्य दण्डे तु कर्म्मारम्भाच्छुभं भवेत् ॥
यस्यार्द्धयामस्तस्यैव प्राग्दण्डः सर्व्वदा ततः ।षट् षट् परीत्य दण्डाश्च त्रयो रात्रौ मतायथा ॥
आदित्येभृगुजो बुधोऽपि च शशी सोमे शनीज्यौकुजोभौमेऽर्कः सितसोमजौ च शशिजे सोमः शनि-र्व्वाक्पतिः ।जीवेऽङ्गाररवी भृगुर्भृ गुसुते सौम्येन्दुमार्त्तण्डजाःकाले जीवमहीजतिग्नकिरणा रात्रौ च दण्डा-धिपाः ॥
यामार्द्धाधिपसंख्यातो द्वितीयस्तु तदर्द्धकः ।तदर्द्धात्तु तृतीयः स्यात्तदर्द्धात्तु तुरीयकः ॥
अङ्काभावे तु राहुः स्यात् तदङ्को वसुसंज्ञकः ।भग्नाङ्कस्य परित्यागाद्दिवादण्डाधिपा यथा ॥
रविदनुजबुधग्लौश्चन्द्रसूरासुरज्ञाःकुजरविदनुजज्ञाज्ञेन्दुसूरासुराश्च ।गुरुशशिरविदैत्याः शुक्रभौमार्कदैत्याःशनिकुजरविदैत्या दण्डपाल्वर्द्धयामे ॥
”शुभाशुभदण्डज्ञानं यथा, --“शेषावर्कस्य दण्डौ सततशुभकरावादिशेषौतथेन्दोःशेषो दण्डः कुजस्याप्यथ गुरुषुधयोराद्यमर्द्धंप्रशस्तम् ।आदिर्दण्डस्तथैको भृगुकुलनृपतेः सर्व्वकार्य्येष शस्तोदण्डाश्चत्वार एते क्वचिदपि समये नैव शौरेःप्रशस्ताः ॥
”पलपताकी यथा, --“प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचिच्छभम् ॥
रवौ च वेदा वसवः सुधांशौकुजे च वाणाः शशिजे तथाङ्काः ।शनावृतुर्दिक् च बृहस्पतौ स्या-द्राहौ तुरङ्गा भृगुजे च रुद्राः ॥
”बालस्य शुभाशुभफलं यथा, --“अशुभे दण्डसंयोगे सर्व्वत्र पुण्यवर्जिते ।बालस्य मरणं शीघ्रं यदि पापैः समन्वितम् ॥
अशुभग्रहदण्डे तु सर्व्वत्र पापवर्ज्जिते ।बालस्य कुशलं सर्व्वं शुभैर्यदि समन्वितम् ॥
अशुभो दण्डनाथो हि वेधश्चेत्तेन लभ्यते ।मरणं तत्र वक्तव्यं बालस्य नान्यथा भवेत् ॥
पापस्य दण्डमात्रे तु तद्योगवेधवर्जिते ।बालस्य कुशलं तत्र शुभैर्यदि समन्वितम् ॥
”इति ज्योतिषतत्त्वे पताकीवेधः ॥
(स्त्रियां ङीप् । सेना । यथा, रघुः । ४ । ८२ ।“न प्रसेहे स रुद्धार्कमधारावर्षदुर्द्दिनम् ।रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीम् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
