| YouTube Channel

पतञ्जलिः (pataJjaliH)

 
Apte
English
पतञ्जलिः [patañjaliḥ],
N.
of the celebrated author of the Mahābhāṣya, the great commentary on Pāṇini's Sūtras
also of a philosopher, the propounder of the Yoga philosophy.
Apte Hindi
Hindi
पतञ्जलिः
पुं*
- -
"पाणिनि के सूत्रों पर लिखे गये-महाभाष्य के प्रसिद्ध निर्माता, दार्शनिक, योगदर्शन के प्रवर्तक"
पतञ्जलिः
पुं*
- -
महाभाष्य का प्रसिद्ध लेखक।कहते है कि यह ईसा से लगभग १५० वर्ष पूर्व हुआ।
शब्दकल्पद्रुमः
Sanskrit
पतञ्जलिः,
पुं,
(पतः पतन् वा अञ्जलिः नम-स्कार्य्यतया यस्मिन् शकन्ध्वादित्वात् साधुः ।)मुनिविशेषः तु पातञ्जलदर्शनपाणिनिटीका-महाभाष्यादिग्रन्थकर्त्ता तत्पर्य्यायः गोनर्द्दीयः२ इति हेमचन्द्रः
चूर्णिकृत् भाष्यकारः४ इति त्रिकाण्डशेषः
वररुचिः इतिशब्दरत्नावली
(केषाञ्चिन्मते योगसूत्रकारक-पतञ्जलेर्भाष्यकृत् पतञ्जलिर्भिन्न एव अनयो-रभेदतान्तु निर्द्दिशन्ति पाश्चात्याः
पातञ्जलयोग-शास्त्रन्तु पादचतुष्टयात्मकं तत्र प्रथमे पादे“अथ योगानुशासनम् ।” इति योगशास्त्रारम्भ-प्रतिज्ञां विधाय “योगश्चित्तवृत्तिनिरोधः ।”इत्यादिना योगलक्षणमुक्त्वा सप्रपञ्चसमाधि-निर्द्देशं कृतवान् भगवान् पतञ्जलिः
द्बितीयेतु “तपः स्वाध्यायेश्बरप्रणिधानानि क्रिया-योगः ।” इत्यादिना व्युत्थितचित्तस्य क्रियायोगंयमादीनि पञ्च वहिरङ्गाणि साधनानि निर-दिशत् तृतीये “देशबन्धश्चित्तस्य धारणा ।”इत्यादिना धारणाध्यानसमाधित्रयरूपमन्तरङ्गंसंयमपदवाच्यं तत्र अवान्तरफलं विभूतिजातञ्चउपदिदेश चतुर्थे पादे तु “जन्मौषधिमन्त्रतषःसमाधिजाः सिद्धयः ।” इत्यादिना ससिद्धिपञ्चकंमुख्यं प्रयोजनं कैवल्यं प्रधानादीनि पञ्चविंशति-तत्त्वानि क्लेशकर्म्मविपाकाशयैरसंश्लेष्टं पुरुषंस्वेच्छया निर्म्माणकायमधिष्ठाय लौकिकादि-सम्प्रदायप्रवर्त्तकं संसारदहने दग्धानां जीवानांनिस्तारकञ्च उपदिष्टवान्
)