| YouTube Channel

पतङ्गं (pataGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
पतङ्गं,
क्ली,
(पत् गत्यैश्वर्य्ययोः बाहुलकात्अङ्गच् ।) सुतम् पारदम् इति मेदिनी
चन्दनभेदः इति शब्दचन्द्रिका
पतङ्गं,
क्ली,
(पत्रमिव अङ्गं यस्य पृषोदरात्-साधु ।) रक्तचन्दनम् इति शब्दरत्नावली
वृक्षविशेषः वकम् इति भाषा तत्पर्य्यायः ।पत्राङ्गम् रक्तकाष्ठम् सुरङ्गदम् पत्रा-ण्यम् पट्टरङ्गम् भार्य्यावृक्षः रक्तकः ८लोहितम् रङ्गकाष्ठम् १० रोगकाष्ठम् ११कुचन्दनम् १२ पट्टरञ्जनकम् १३ सुरङ्गम् १४ ।अस्य गुणाः कटुत्वम् रूक्षत्वम् अम्लत्वम् ।शीतत्वम् गौल्यत्वम् वातपित्तज्वरविष्फो-टोन्मादभूतनाशित्वञ्च इति राजनिर्घण्टः
अपि भावप्रकाशे ।“पतङ्गन्तु रक्तसारं सुरङ्गं रञ्जनं तथा ।पटरञ्जनमाख्यातं पत्तूरञ्च कुचन्दनम्
पतङ्गं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् ।हरिचन्दनवज्ज्ञेयं विशेषाद्दाहनाशनम्