| YouTube Channel

पण्डकः-ण्डिका (paNDakaH-NDikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पडि गतौ”@} 2 पण्डकः-ण्डिका, पण्डकः-ण्डिका, पिपण्डिषकः-षिका, पापण्डकः-ण्डिका
इत्यादीनि सर्वाणि रूपाणि भौवादिककण्ठतिवत् 3 ज्ञेयानि।
4 पण्डा, 5 गोष्ठेपण्डः, अस्य धातोः इमे रूपे अधिके इति ज्ञेयम्।
6
प्रासङ्गिक्यः
01
=>
(९६४)
02
=>
(१-भ्वादिः-२८१। सक। सेट्। आत्म।)
03
=>
(१४९)
04
=>
[[४। स्त्रियां भावादौ ‘गुरोश्च हलः’ (३-३-१०३) इत्यप्रत्ययः। पण्डा = मतिः ज्ञानं च, गत्यर्थानां ज्ञानार्थत्वात्। ‘तदस्य संजातं तारकादिभ्यः--’ (५-२-३६) इतीतच्प्रत्यये पण्डितः इति रूपम्।]]
05
=>
[[५। पण्डतीति पण्डः। पचाद्यच्। क्षेपे गम्ये गोष्ठेषण्ड इति ‘पात्रेसमितादयश्च’ (२-१-४८) इत्यत्र निपातनात् सप्तम्या अलुक्।]]
06
=>
[पृष्ठम्०८३७+ ३०]
1 {@“पडि नाशने”@} 2 इदित्करणात् णिचो वैकल्पिकत्वम्।
पण्डकः-ण्डिका, पिपण्डयिषकः-षिका, पण्डकः-ण्डिका, पिपण्डिषकः-षिका, पापण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककण्ठयतिवत् 3 ज्ञेयानि।
पापप्रपण्डी 4।
प्रासङ्गिक्यः
01
=>
(९६५)
02
=>
(१०-चुरादिः-१६१५। सक। सेट्। उभ।)
03
=>
(१५०)
04
=>
[[आ। ‘इत्यादिवादिषु जनेषु विमोटितारिः पापप्रपण्डिपदपांसुरवाज्यधामा।’ धा। का। ३। २३।]]