| YouTube Channel

पणाः-पणौ-पणाः (paNAH-paNau-paNAH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पण व्यवहारे स्तुतौ च”@} 2 3 व्यवहारार्थे आयप्रत्ययाभावो वैयाकरणसम्प्रदायागत इति धातुपाठव्याख्यासु सर्वत्र साग्रहं साध्यते।
‘न चोपलेभे वणिजां पणायान्।।’ 4, ‘गोपायितसाररत्नभाण्डं विपणायन्ति वणिग्जनाश्च यत्र।।’ 5 इत्यादिप्रयोगानुसारात् व्यवहारार्थेऽपि आयप्रत्ययप्रयोगः नासाधुत्वज्ञापक इति प्रतिभाति।
विद्वांसः प्रमाणमत्र।]] 6 पणायकः-यिका, पाणकः-णिका, 7 पणायकः-यिका, पाणकः-णिका, पिपणिषकः-षिका, 8 पिपणायिषकः-षिका, 9 पम्पणकः-पंपणकः-णिका
पणायिता-त्री, पणिता-त्री, पणाययिता-त्री, पाणयिता-त्री, पिपणिषिता-त्री, पिपणायिषिता-त्री, पम्पणिता-त्री
-- पणाययन्-पाणयन्-न्ती
-- पणाययिष्यन्-पाणयिष्यन्-न्ती-ती
10 11 पणमानः, पणाययमानः-पणयमानः, पिपणायिषमाणः-पिपणिषमाणः, पम्पण्यमाणः
पणायिष्यमाणः-पणिष्यमाणः-पणाययिष्यमाणः, पाणयिष्यमाणः, पिपणायिषिष्यमाणः-पिपणिषिष्यमाणः, पम्पणिष्यमाणः 12 सुपाण्-सुपाणौ-सुपाणः, पणाः-पणौ-पणाः
पणायितम्-पणितम्-तः, पणायितः-पाणितः, पिपणायिषितः-पिपणिषितः, पम्पणितः-तवान्
पणायः-पणः, पणायः-पाणः, पिपणायिषुः-पिपणिषुः, पम्पणः
पणायितव्यम्-पणितव्यम्, पणाययितव्यम्-पाणयितव्यम्, पिपणायिषितव्यम्-पिपणिषितव्यम्, पम्पणितव्यम्
पणायनीयम्-पणनीयम्, पणायनीयम्-पाणनीयम्, पिपणायिषणीयम्-पिपणिषणीयम्, पम्पणनीयम्
पणाय्यम्- 13 पण्यम्- 14 पाण्यम्, 15 पणाय्यम्-पाण्यम्, पिपणायिष्यम्-पिपणिष्यम्, पम्पण्यम्
ईषत्पणः-दुष्पणः-सुपणः
-- -- पणाय्यमानः-पण्यमानः, पणाय्यमानः-पाण्यमानः, पिपणायिष्यमाणः-पिपणिष्यमाणः, पम्पण्यमानः
पणायः- 16 पणः-पाणः, मूलकपणः, शाकपणः-क्षीणपणः, 17 18 आपणः, 19 पणायः-पाणः, पिपणायिषः-पिपणिषः, पम्पणः
-- पणायितुम्-पणितुम्, पणाययितुम्-पाणयितुम्, पिपणायिषितुम्-पिपणिषितुम्, पम्पणितुम्
पणाया- 20 पणितिः, पणायना-पाणना, पिपणायिषा-पिपणिषा, पम्पणा
पणायनम्-पणनम्, पणायनम्-पाणनम्, पिपणायिषणम्-पिपणिषणम्, पम्पणनम्
पणायित्वा-पणित्वा, पणाययित्वा-पाणयित्वा, पिपणायिषित्वा-पिपणिषित्वा, पम्पणित्वा
प्रपणाय्य-प्रपण्य, प्रपणाय्य-प्रपाण्य, प्रपिपणायिष्य-प्रपिपणिष्य, प्रपम्पण्य
पणायम् -पाणम् २, पणायित्वा -पणित्वा २, पणायम् -पाणम् २, पणाययित्वा २- पाणयित्वा २, पिपणायिषम् -पिपणिषम् २, पिपणायिषित्वा -पिपणिषित्वा २, पम्पणम्
पम्पणित्वा
21 इत्यनेन इण्प्रत्ययः, आयप्रत्ययस्य लुक् भवति।
पाणिः = हस्तः।]] पाणिः, 22 वणिक्, 23 इतीन्प्रत्यये रूपम्।
विपणिः = पण्यवीथिका।]] विपणिः।
प्रासङ्गिक्यः
01
=>
(९६६)
02
=>
(१-भ्वादिः-४३९-सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(भट्टिकाव्ये ३-२७)
05
=>
(रावणार्जुनीये ८-३०)
06
=>
[[१। ण्वुलि, ‘गुपूधूपविच्छिपणिपनिभ्य आयः’ (३-१-२८) इति आयप्रत्ययः। ‘आयादय आर्धधातुके वा’ (३-१-३१) इति आर्धधातुकेषु वि{??}ल्पेन भवति। तेन तृजादिष्वपि आयप्रत्ययपक्षे, आयप्रत्ययाभावपक्षे रूपाणि सर्वाण्यपि गुपू- धातुवत् (४११) ज्ञेयानि।]]
07
=>
[[२। णिजन्तेऽपि पूर्ववदायप्रत्ययविकल्पः। तेन रूपद्वयं ज्ञेयम् सर्वत्र।]]
08
=>
[[३। सनोऽप्यार्धधातुकत्वात् आयप्रत्ययविकल्पः। तेन सर्वत्र रूपद्वयं गुपिवत् (४११) ज्ञेयम्।]]
09
=>
[[४। यङन्ते आयप्रत्ययो भवति। आयप्रत्ययवेलायां धातोरनेकाच्त्बाद् यङ एवा- प्रसक्तेः। तेन यङन्ताण्ण्वुलि, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति अभ्यासस्य नुकि, ‘स पदान्तवद् वाच्यः’ (वा। ७-४-८५) इति वचनात् ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः।]]
10
=>
[पृष्ठम्०८३८+ २३]
11
=>
[[१। अवयवे कृतस्यानुदात्तेत्त्वस्य आयप्रत्ययाभावे शुद्धे धातौ आत्मनेपदसम्पादनेन सार्थक्यम्। तत्र पनिना धातुना साहचर्यात् स्तुतावेवायप्रत्ययः। व्यवहारे तु न। तेन व्यवहारार्थादत्र शुद्धात् शानच्।]]
12
=>
[[२। क्विपि, ‘अनुनासिकस्य क्विझलोः--’ (६-४-१५) इति दीर्घः। आयप्रत्ययपक्षे तु वलि लोपे रूपम्।]]
13
=>
[[३। व्यवहारार्थे ण्यतं बाधित्वा ‘अवद्यपण्यवर्या गर्ह्यंपणितव्यानिरोधेषु’ (३-१-१०१) इति क्यप्। अन्यत्र पाण्यम् इत्येव।]]
14
=>
[[आ। ‘ऋष्यमूकेऽनवद्योऽस्ति पण्यभ्रातृवधः कपिः।’ भ। का। ६-५१।]]
15
=>
[[B। ‘पणाय्यरूपाः पनिताकृतीन् ययुर्भामिन्य एवाक्षमया स्वकामुकान्।।’ धा। का। १। ५७।]]
16
=>
[[४। ‘नित्यं पणः परिमाणे’ (३-३-६६) इति भावादावप् प्रत्ययः। स्तुतौ तु पाणः इत्येव।]]
17
=>
[[C। ‘अथ क्लमादनिक्वाणाः नराः क्षीणपणा इव।’ भ। का। ७। ५८।]]
18
=>
[[५। एत्य अत्र आपणते इत्यापणः। ‘गोचरसञ्चरवहव्रजापणनिगमाश्च’ (३-३-११९) इति घप्रत्ययान्तः संज्ञायां निपात्यते। आपणः = क्रयविक्रयव्यवहारार्हा पण्यवीथिका।]]
19
=>
[पृष्ठम्०८३९+ २०]
20
=>
[[१। ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति पर्युदासात् इडत्र भवति। आय- प्रत्ययपक्षे तु प्रत्ययान्तत्वादकारप्रत्ययः।]]
21
=>
[[२। ‘अशिपणाय्यो रुड्लुकौ च’ [द। उ। १-६१]
22
=>
[[३। ‘पणेरिज्यादेश्च वः’ (द। उ। ४-८) इत्यनेन इजिप्रत्यये धात्वादेश्च वकारादेशे रूपम्। वणिक् = आपणिकः।]]
23
=>
[[४। ‘इन्’ [द। उ। १-४६]