| YouTube Channel

पडि (paDi)

 
Indian Epigraphical Glossary
English
paḍi (EI 21), a measure.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पण्ड्
मूलधातुः:
पडि
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
पण्डते
धातुः:
पण्ड्
मूलधातुः:
पडि
धात्वर्थः:
नाशने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
पण्डयति-ते
धातुप्रदीपः
Sanskrit
पडिँ पडि गतौ
- पण्डते पण्डा पण्डितः ।। 274 ।।
क्षीरतरङ्गिणी
Sanskrit
पडिँ पडि गतौ
- पण्डते पण्डितः पाण्डुः पाण्डुरोगो हरिणवर्णश्च नगपांशुपांडुभ्यो रः (52107 काशिका) पाण्डुरः पाण्डुस्त्वौणादिक (द्र0 उ0 138) पण्डः क्लीबः 275
धातुवृत्तिः
Sanskrit
पडिँ पडि (अर्थः) गतौ
( पण्डते पण्डितः गोष्ठेपण्डितः ) "पात्रेसमितादयश्च'' इति क्षेपे सप्तमीतत्पुरुषः तत्रैव पाठादलुक्, गोष्ठएव पण्डितो सदसीति क्षेपावगतिः पण्डः अच् पणतेर्वा "अमन्ताड्डः'' पण्डस्यापत्यं, पाण्डारः "आरगुदीचाम्'' इत्यत्र रकापि गोधार इति सिद्धे आरग्वचनादन्यत्रापि भवतीति वृत्तावुक्तम् नाशर्थचुरादौ 278
पडिँ पडि
मानकरूपान्तरम् - पसिँ
पसि (अर्थः) नाशने
( पण्डयति पण्डति पंसयति पंसति पांसुः ) "अर्जिदृशि'' इत्यादिनोप्रत्ययो दीर्घश्च पण्डतइति गतौ शपि 80-71
कृदन्तरूपमाला
Sanskrit
1 {@“पडि गतौ”@} 2 पण्डकः-ण्डिका, पण्डकः-ण्डिका, पिपण्डिषकः-षिका, पापण्डकः-ण्डिका
इत्यादीनि सर्वाणि रूपाणि भौवादिककण्ठतिवत् 3 ज्ञेयानि।
4 पण्डा, 5 गोष्ठेपण्डः, अस्य धातोः इमे रूपे अधिके इति ज्ञेयम्।
6
प्रासङ्गिक्यः
01
=>
(९६४)
02
=>
(१-भ्वादिः-२८१। सक। सेट्। आत्म।)
03
=>
(१४९)
04
=>
[[४। स्त्रियां भावादौ ‘गुरोश्च हलः’ (३-३-१०३) इत्यप्रत्ययः। पण्डा = मतिः ज्ञानं च, गत्यर्थानां ज्ञानार्थत्वात्। ‘तदस्य संजातं तारकादिभ्यः--’ (५-२-३६) इतीतच्प्रत्यये पण्डितः इति रूपम्।]]
05
=>
[[५। पण्डतीति पण्डः। पचाद्यच्। क्षेपे गम्ये गोष्ठेषण्ड इति ‘पात्रेसमितादयश्च’ (२-१-४८) इत्यत्र निपातनात् सप्तम्या अलुक्।]]
06
=>
[पृष्ठम्०८३७+ ३०]
1 {@“पडि नाशने”@} 2 इदित्करणात् णिचो वैकल्पिकत्वम्।
पण्डकः-ण्डिका, पिपण्डयिषकः-षिका, पण्डकः-ण्डिका, पिपण्डिषकः-षिका, पापण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककण्ठयतिवत् 3 ज्ञेयानि।
पापप्रपण्डी 4।
प्रासङ्गिक्यः
01
=>
(९६५)
02
=>
(१०-चुरादिः-१६१५। सक। सेट्। उभ।)
03
=>
(१५०)
04
=>
[[आ। ‘इत्यादिवादिषु जनेषु विमोटितारिः पापप्रपण्डिपदपांसुरवाज्यधामा।’ धा। का। ३। २३।]]