| YouTube Channel

पठन्ति (paThanti)

 
Sanskrit Tibetan
Tibetan
brjod pa
१) अनुव्याहरत् २) अभिधान ३) अभिधायिन् ४) अभिधीयते ५) आभिलाप ६) अभिलाप्य ७) अभिहित ८) आख्यान ९) आचक्षते १०) आम्नात ११) आम्नायते १२) आरोचन १३) आह १४) इरित १५) उक्त १६) उच्चारण १७) उच्चारयितव्य १८) उच्यते १९) उच्यमान २०) उदाहार २१) उदीरयति २२) उद्दिष्ट २३) उद्भावक २४) उद्भावन २५) उद्भावना २६) उद्भावित २७) उपदिश्यमान २८) कथयत् २९) कथ्यते ३०) कीर्ति ३१) ख्याप्यते ३२) जल्प ३३) जल्पते ३४) निश्चारयति ३५) पठन्ति ३६) पर्याय ३७) पाठ ३८) प्रकाशित ३९) प्रभावना ४०) प्रयुक्त ४१) प्रलाप ४२) प्रव्याहार ४३) प्रशंसा ४४) भणामि ४५) भाषते ४६) भाषिन् ४७) मत ४८) मन्त्रणा ४९) युक्त ५०) लपति ५१) वक्तव्य ५२) वक्ति ५३) वक्तुम् ५४) वचन ५५) वर्ण ५६) वर्णित ५७) वाचक ५८) वाचना ५९) वाचिन् ६०) वाद ६१) व्यपदेश ६२) व्याहरमाण ६३) व्याहार ६४) सूचयसि ६५)
कृदन्तरूपमाला
Sanskrit
1 {@“ब्लेष्क दर्शने”@} 2 3 ‘बष्क दर्शने’ इति पूर्वलिखितस्य 4 धातोः क्षीरस्वामिसम्मतः पाठ एवम्।
अत्र क्षीरतरङ्गिण्याम्, ‘कर्तुरगाढत्वेऽपि ब्लेष्को वर्तना इत्येके।’ इत्युक्तम्।
एतेन ज्ञायते-- ‘ब्लेष्क दर्शने कर्तृशैथिल्ये’ इति संहितापाठे द्वावपि धातू मेलयित्वा केचित् पठन्ति
तदानीं कर्तुः अगाढत्वे = शैथिल्ये ब्लेष्कधा- तोर्वृत्तिं केचिदिच्छन्ति--इति।
एवञ्च दर्शने, कर्त्रगाढार्थे केचिदमुं धातुं पठन्तीति बोध्यम्।]] ब्लेष्ककः-ष्किका, बिब्लेष्कयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगन्धयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(११३४)
02
=>
(१०-चुरादिः-१९१६। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(११०७)
05
=>
(३७५)
1 {@“लु2न्च अपनयने”@} 3 4 “केचिदमुमुदितं पठन्ति, तदनार्षम्
राजदन्तादिषु 5 ‘मृष्टलुचितम्’ इति पाठात्” इति मा।
धा।
वृत्तिः।
अयं भावः--उदित्त्वेन क्त्वायामिड्विक- ल्पनात् ‘यस्य विभाषा’ 6 इति निष्ठायामिण्निषेधः स्यात् इति।]] 7 लुञ्चकः-ञ्चिका, लुञ्चकः-ञ्चिका, लुलुञ्चिषकः-षिका, लोलुचकः-चिका
लुञ्चिता-त्री, लुञ्चयिता-त्री, लुलुञ्चिषिता-त्री, लोलुचिता-त्री
8 लुञ्चन्-न्ती, लुञ्चयन्-न्ती, लुलुञ्चिषन्-न्ती
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिक- कुञ्चतिवत् 9 ज्ञेयानि।
लुञ्चितम्, 10 लुञ्चित्वा-लुचित्वा, इमानि रूपाण्यधि- कानीति विशेषः।
क्विपि-लुक्-लुञ्चौ-लुञ्चः
ण्यन्तात् तु लुन्-लुञ्चौ-लुञ्चः
इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५०९)
02
=>
[ञ्च]
03
=>
(१-भ्वादिः-१८७। सक। सेट्। पर।)
04
=>
[[[अ]
05
=>
(२-२-३१)
06
=>
(७-२-१५)
07
=>
[पृष्ठम्११७३+ २५]
08
=>
[[आ। ‘चुकोच यत्रोत्कुचिताङ्गमुन्मुदः क्रौञ्चोऽपि लुञ्चन् हृदि सम्यगार्तताम्।।’ धा। का। १-२५।]]
09
=>
(२२२)
10
=>
[[१। क्त्वायाम् ‘वञ्चिलुञ्च्युतश्च’ (१-२-२४) इति कित्त्वविकल्पनात् पक्षे नलोपे रूपद्वयम् इति ज्ञेयम्।]]
1 {@“षिधु संराद्धौ”@} 2 ‘सिधेः सिध्यति संराद्धौ--’ 3 इति देवः।
संराद्धिः = निष्पत्तिः।
“केचिदूदितं पठन्ति
तदसत्।
अनुदात्तोपदेशवै- यर्थ्यात्” इति माधवः।
4 सिद्ध्यः, 5 सिधित्वा-सेधित्वा-सिद्ध्वा, 6 सिद्धः, 7 साङ्काश्यसिद्धः, 8 अन्नं साधयन्, तपः सेधयन्, इति विशेषरूपाणि।
इतराणि सर्वाण्यपि पूर्वधातुवत् ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१८३६)
02
=>
(४-दिवादिः-११९२। सक। अनि। पर।)
03
=>
(श्लो। ११६)
04
=>
[[१। ‘पुष्यसिंद्ध्यौ नक्षत्रे’ (३-१-११६) इति निपातनात् नक्षत्रविशेषे वाच्ये सति धातोः क्यप्। ण्यतोऽपवादः। सिद्ध्यति अस्मिन्नुपक्रान्तं कार्यमिति सिद्ध्यः = पुष्यनक्षत्रः। अन्यत्र सेध्यम् इति ण्यदेव।]]
05
=>
[[२। उदित्त्वादिड्विकल्पः, ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। तेन रूपत्रयम्।]]
06
=>
[[३। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायामिण्निषेधः। संज्ञायां क्तप्रत्ययोऽयम्। सिद्धा इति देवयोनिविशेषाः।]]
07
=>
[[४। सांकाश्ये सिद्धः सांकाश्यसिद्धः। ‘सिद्धशुष्कपक्वबन्धैश्च’ (२-१-४१) इति सप्तमीसमासः। ‘नेन्सिद्धबध्नातिषु च’ (६-३-१९) इति सप्तम्या अलुको निषेधः
\n\n अन्यथा, ‘साङ्काश्ये--’ इति सप्तम्याः ‘तत्पुरुषे कृति--’ (६-३-१४) इति अलुक् श्रूयेत। तत्र सूत्रे बहुलग्रहणादेव क्वचिदलुकोऽप्रवृत्तौ तु नात्र सिद्धग्रहणं करणमित्यास्तां तावत्।]]
08
=>
[[५। ‘सिद्ध्यतेरपारलौकिकेऽर्थे’ (६-१-१४९) इति णावात्वम्। परलोकसाधनभूते तु ‘तपः सेधयन्’ इत्यत्र आत्वम्।]]
1 {@“षूद क्षरणे”@} 2 क्षरणम् = निरसनम्।
‘--निस्सरणम्’ इति केचित्।
3 मधुसूदनः इत्यादिषु हिंसार्थकत्वमपि दृश्यते।
4 सूदिता, 5 सूदः,
सामान्यरूपाणि भौवादिककन्दतिवत् 6 बोध्यानि।
चुरादावपि केचित् ‘षूद’ इति पठन्ति
रूपेषु कोऽपि विशेषः।
प्रासङ्गिक्यः
01
=>
(१८५१)
02
=>
(१-भ्वादिः-२५। सक। सेट्। आत्म।)
03
=>
[[१। मधुं = तन्नामकमसुरं सूदयति = हिनस्ति इति मधुसूदनः। नद्यादिषु (३-१-१३४) पाठात् ण्यन्तात् कर्तरि ल्युः। ‘सात् पदाद्योः’ (८-३-१११) इति मूर्धन्यनिषेधः।]]
04
=>
[[२। ‘सूददीप--’ (३-२-१५३) इति ताच्छीलिकस्य अनुदात्तेत्त्वलक्षणयुचो निषेधात् ‘तृन्’ (३-२-१३५) इति तृन्।]]
05
=>
[[३। पचाद्यच्। सूदः = सूपकारः, पङ्कश्च।]]
06
=>
(१६३)
1 {@“सश्च गतौ”@} 2 भ्वादिषु षस्जधातुप्रकरणे माधवीयेऽभिहितम्--“अत्र सश्चिमपि केचित् पठन्ति
-- ‘तमजिह्वा असश्चत’ इत्यादि दृश्यते” इति।
“चान्तो- ऽयं3 इति शिवः--सश्चति” इति क्षीरस्वामी।
‘अति नः सश्चतो 4 नय’ 5 इति चान्तप्रयोगोऽपीति तट्टीका।
तन्मतेन धातुरयं लिख्यते।
सश्चकः-श्चिका, सश्चकः-श्चिका, सिसश्चिषकः-षिका, सासश्चकः-श्चिका
सश्चिता-त्री, सश्चयिता-त्री, सिसश्चिषिता-त्री, सासश्चिता-त्री
इत्यादीनि रूपाणि यथासम्भवमूह्यानि।
प्रासङ्गिक्यः
01
=>
(१९००)
02
=>
(१-भ्वादिः-२०२। सक। सेट्। पर।)
03
=>
(षस्ज)
04
=>
[पृष्ठम्१३७२+ २६]
05
=>
(ऋक् १-४२-७)
1 {@“हुडि वरणे”@} 2 वरणम्-स्वीकारः।
‘हरणम्’ इति मैत्रेयः।
हुण्डी = धनप्रक्षेपस्थानम्।
3 हुण्डिका = मुद्रा।
भौवादिककुण्ठतिवत् 4 रूपाण्यूह्यानि।
‘भ्वादावेव द्रमिडाः ‘हुडि सङ्घाते’ इति पठन्ति, आर्यास्तु पठन्ति
इति काश्यपमतप्रदर्शनपूर्वकं माधवीये प्रतिपादितम्।
प्रासङ्गिक्यः
01
=>
(२०१०)
02
=>
(१-भ्वादिः-२६९। सक। सेट्। आत्म।)
03
=>
[पृष्ठम्१४१७+ २७]
04
=>
(२०९)