| YouTube Channel

पटलं (paTalaM)

 
Apte 1890
English
पटलं [पट् वेष्टने कलच्] 1 A roof, thatch
विनमितपटलांतं दृश्यते जीर्णकुड्यं Mu. 3. 15.
2 A cover, covering, veil, coating (in general)
शिरसि मसीपटलं दधाति दीपः Bv. 1. 74.
3 A film or coating over the eyes.
4 A heap, multitude, mass, quantity
रथांगपाणेः पटलेन रोचिषां Śi. 1. 21
जलदपटलानि Pt. 1. 361
क्षौद्रपटलैः R. 4. 63
मुक्तापटलं 13. 17
तारकपटल Gīt. 7.
5 A basket.
6 Retinue, train.
7 A mark on the forehead or any other part of the body.
लः,
ली 1 A tree.
2 A stalk.
लः,
लं A section or chapter of a book.
Comp.
प्रांतः the edge of a roof.
शब्दकल्पद्रुमः
Sanskrit
पटलं,
क्ली,
(पटं विस्तृतं लाति पट् + ला +“आतोनुपेति” कः यद्बा पटतीति ।पट + “कृषादिभ्यश्चित् ।” उणां १०८ इतिकलच् ।) छदिः चाल इति भाषा नेत्ररोगः ।इत्यमरः २००
पिटकः परिच्छदः ।तिलकः (यथा, कलाविलासे २५ ।“अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता ।सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या
”)समूहे क्ली स्त्री इति मेदिनी
(यथा, भाग-वते १४ २६ ।“यस्यानवद्याचरितं मनीषिणोगृणन्त्यविद्यापटलं बिभित्सवः ।निरस्तसाम्यातिशयोऽपि यत् स्वयंपिशाचचर्य्यामचरत् गतिः सताम्
”)दृष्टेरावरकम् चक्षुर परदा इति भाषा ।यथाह माधवकरः ।“प्रथमे पटले दोषो यस्य दृष्ट्या व्यवस्थितः ।अव्यक्तानि सरूपाणि कदाचिदथ पश्यति
”दृष्ट्यां चत्वारि पटलानि रसरक्ताश्रयं वाह्यंद्वितीयं माससंश्रयं तृतीयं मेदःसंश्रितं चतुर्थंकालकास्थिसंश्रितम् तथा सुश्रुतः ।“तेजोजलाश्रितं वाह्यं तेष्वन्यत् पिशिताश्रितम् ।मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् ।पञ्चमाशसमं दृष्टेस्तेषां बाहुल्यमिष्यते
”इति अत्र तेजःशब्देन रक्तं जलशब्देन रसोव्याख्यातः तेषु पटलेषु वाह्यादिभेदेनाधिष्ठान-विशषप्रभावात् दोषाणां लिङ्गविशेषमाह प्रथमेपटले इत्यादि प्रथमे पटले सर्व्वाभ्यन्तरे तुवाह्ये इति विजयरक्षितः