| YouTube Channel

पञ्जरं (paJjaraM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्जरं,
क्ली,
(पञ्ज्यते रुध्यते उदरयन्त्रमनेन पजि-रोधे + अरन् ।) कायास्थिवृन्दम् शरीरास्थि-पञ्जरम् (यथा, पञ्चदशी १७३ ।“देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता ।विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत्
”पञ्ज्यते रुध्यते पक्ष्यादिरत्र ।) पक्ष्यादिबन्धगृहम् ।इत्यमरभरतौ पिँज्रा इति भाषा तत्-पर्य्यायः शालारम् इति जटाधरः
(यथा, हेः रामायणे ६५ ।“तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः ।शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः
”)