| YouTube Channel

पञ्चाम्रं (paJcAmraM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चाम्रं,
क्ली,
(अमन्ति रसानि प्राप्नुवन्तीति अम-गत्यादिषु + “अमितम्योर्दीर्धश्च ।” उणां १६ ।इति रक् दीर्घश्चोपधायाः इति आम्रा वृक्षाः ।पञ्चानां आम्राणामश्वत्थादिवृक्षाणां समाहारः ।)वृक्षविशेषाणां समाहारः यथा, --“अश्वत्थमेकं पिचुमर्द्दमेकंन्यग्रोधमेकं दश पुष्पजातीः ।द्वे द्वे तथा दाडिममातुलङ्गेपञ्चाम्रवापी नरकं याति
”इति वराहपुराम्
अपि ।“अश्वत्थ एकः पिचुमर्द्द एकोद्वौ चम्पकौ त्रीणि केशराणि ।स्रप्ताथ ताला नव नारिकेलाःपञ्चाम्ररोपी नरकं याति
”इति तिथितत्त्वम्