| YouTube Channel

पञ्चाम्र (paJcAmra)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चाम्रं,
क्ली,
(अमन्ति रसानि प्राप्नुवन्तीति अम-गत्यादिषु + “अमितम्योर्दीर्धश्च ।” उणां १६ ।इति रक् दीर्घश्चोपधायाः इति आम्रा वृक्षाः ।पञ्चानां आम्राणामश्वत्थादिवृक्षाणां समाहारः ।)वृक्षविशेषाणां समाहारः यथा, --“अश्वत्थमेकं पिचुमर्द्दमेकंन्यग्रोधमेकं दश पुष्पजातीः ।द्वे द्वे तथा दाडिममातुलङ्गेपञ्चाम्रवापी नरकं याति
”इति वराहपुराम्
अपि ।“अश्वत्थ एकः पिचुमर्द्द एकोद्वौ चम्पकौ त्रीणि केशराणि ।स्रप्ताथ ताला नव नारिकेलाःपञ्चाम्ररोपी नरकं याति
”इति तिथितत्त्वम्
वाचस्पत्यम्
Sanskrit
पञ्चाम्र
न०
“अश्वत्थमेकं पिचुमर्दमेकं न्यग्रोधमेकं दशपुष्प-जातीः द्वे द्वे तथा दडिममातुलङ्गे पञ्चाम्रवापीनरकं याति” इति वराहपु० उक्ते “अश्वत्थ एकःपिचुमर्द एको द्वौ चम्पकौ त्रीणि केसराणि स-प्वाथ ताला नव नारिकेलाः पञ्चाम्रवापी नरकं नयाति” तिथि० त० उक्ते अश्वर्थादौ वस्तुतः पञ्चाना-माम्राणां वापीत्युत्तरपदद्विगुः तात्पर्यवशात् अश्वत्थादीनांवापीत्यध्याहारेणान्वयः इति बोध्यम्