| YouTube Channel

पञ्चाम्नायः (paJcAmnAyaH)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चाम्नायः,
पुं,
(पञ्चसंख्यकः आम्नायः ।) शिवस्यपञ्चवक्त्रविनिर्गतस्तन्त्रशास्त्रविशेषः यथा, --“पूर्व्वाम्नायः पूर्व्वमुखः पश्चिमः पश्चिमामुखः ।दक्षिणो दक्षिणस्तद्वदुत्तरश्चोत्तरः परः
निरुत्तरं तथा चोर्द्ध्वं सिद्धान्तागमरूपिणम् ।ऊर्द्ध्वाम्नायपरिज्ञानं नाल्पस्य तपसः फलम्
”अन्यत्र ।“पूर्व्वाम्नायः शब्दरूपो दक्षिणः कर्णरूपकः ।पश्चिमः प्रश्नरूपः स्यादुत्तरश्चोत्तरस्तथा
ऊर्द्ध्वाम्नायस्तत्त्वबोधः केवलानुभवात्मकः
”इत्यादि इति भैरवतन्त्रम्
मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गता ।”इति कुलार्णवतन्त्रम्
*
“विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि ।सद्योजातं वामदेवमघोरस्य ततः परम्
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्त्तितम्
सद्योजातस्य वै शुक्लं शुद्धस्फटिकसन्निभम् ।पीतवर्णं तथा सौम्यं वामदेवं मनोहरम्
कृष्णवर्णमघोरस्य समं भीमविवर्द्धनम् ।रक्तं तत्पुरुषं देवि ! दिव्यमूर्त्ति मनोहरम्
श्यामलस्य तथेशानं सर्व्वदेवशिवात्मकम् ।चिन्तयेत् पश्चिमे चाद्यं द्वितीयस्य तथोत्तरे
अघोरं दक्षिणे देवं पूर्व्वे तत्पुरुषं तथा ।ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः
”इति निर्व्वाणतन्त्रे पटलः
*
अन्यत् षडाम्नायशब्दे द्रष्टव्यम्