| YouTube Channel

पञ्चाङ्गं (paJcAGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चाङ्गं,
क्ली,
पञ्चानां अङ्गानां एकवृक्षस्य त्वक्-पत्रपुष्पमूलफलानां समाहारः यथा, --“त्वक्पत्रकुसुमं मूलं फलमेकस्य शाखिनः ।एकत्र मिलितञ्चैतत् पञ्चाङ्गमिति संज्ञितम्
”इति राजनिर्घण्टः
पुरश्चरणविशेषः यथा, --“जपहोमौ तर्पणञ्चाभिषेको विप्रभाजनम् ।पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते
”इति तन्त्रसारः
वारतिथिनक्षत्रयोगकरणात्मकपञ्जिका यथा, --“तिथिर्वारश्च नक्षत्रं योगः करणमेव ।पञ्चाङ्गस्य फलं श्रुत्वा गङ्गास्नानफलं लभेत्”
इति ज्योतिषम्