| YouTube Channel

पञ्चसुगन्धकं (paJcasugandhakaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चसुगन्धकं,
क्ली,
(पञ्च सुगन्धा यत्र ततः कप् ।)पञ्चप्रकारमुगन्धिद्रव्यम् यथा, --“कुसुमानि लवङ्गस्य तथा कक्कोलकाण्डयोः ।जातीफलानि कर्पूरमेतत् पञ्चसुगन्धकम्
”इति शब्दचन्द्रिका
अपि ।“कर्पूरकक्कोललवङ्गपुष्प-गुवाकजातीफलपञ्चकेन ।समांशभागेन योजितेनमनोहरं पञ्चसुगन्धकं स्यात्
”इति राजनिर्घण्टः