| YouTube Channel

पञ्चवल्कलं (paJcavalkalaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चवल्कलं,
क्ली,
(पञ्चानां वल्कलानां समा-हारः ।) वल्कलपञ्चकम् यथा, --“न्यग्रोधोडुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।सर्व्वैरेकत्र संयुक्तैः पञ्चवल्कलमुच्यते
”अपि ।“न्यग्रोधोडुम्बराश्वत्थप्लक्षपिप्पलपीतनाः ।क्षीरिवृक्षाश्च पञ्चैषां वल्कलं पञ्चवल्कलम्
”इति शब्दचन्द्रिका
अस्य गुणाः ।“पञ्चैते क्षीरिणो वृक्षास्तेषां त्वक् पञ्चलक्षणम् ।त्वक्पञ्चकं हिमं ग्राहि व्रणशोथविसर्पजित्
”इति राजनिर्घण्टः