| YouTube Channel

पञ्चवक्त्र (paJcavaktra)

 
शब्दसागरः
English
पञ्चवक्त्र
m.
(-क्त्रा)
1. SIVA.
2. A lion.
E.
पञ्च five, and वक्त्र a face.
Capeller Eng
English
पञ्चवक्त्र
a.
five-faced
m.
E.
of Śiva.
Yates
English
पञ्च-वक्त्र (क्त्रः) 1.
m.
Shiva
a lion.
Wilson
English
पञ्चवक्त्र
m.
(-क्त्रः)
1 ŚIVA.
2 A lion.
E.
पञ्च five, and वक्त्र a face.
Monier Williams Cologne
English
पञ्च—वक्त्र
mfn.
5-faced,
Hariv.
R.
पञ्च—वक्त्र
m.
N.
of Śiva,
Dhūrtas.
of one of the attendants of Skanda,
MBh.
a lion,
L.
Shabdartha Kaustubha
Kannada
पञ्चवक्त्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಈಶ್ವರ/ಪರಶಿವ/ಮಹಾದೇವ
व्युत्पत्तिः - > पञ्च वक्त्राण्यस्य
विस्तारः - > ವಿವರಕ್ಕೆ "ಪಂಚಮುಖ" ಪದದಲ್ಲಿ ನೋಡಿ
पञ्चवक्त्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಿಂಹ
व्युत्पत्तिः - > पञ्च विशालं वक्त्रमस्य
प्रयोगाः - > "वेलाचलादर्भकपञ्चवक्त्रान् विहङ्गपातेन जिघृक्षमाणान्"
उल्लेखाः - > याद० १८-८६
पञ्चवक्त्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವ್ಯಾಘ್ರ/ಹುಲಿ
पञ्चवक्त्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರುದ್ರಾಕ್ಷ
विस्तारः - > "पञ्चपूर्वास्तु वक्त्रस्य व्याघ्रे सिंहे हरे" वैज०
L R Vaidya
English
paMcan-vaktra {% m. %} 1. an epithet of Śiva
2. (with the mouth wide open) a lion.(The word is used at the end of names of learned men to express veneration or high scholarship, e.g. जगन्नाथतर्कपंचानन.)
Mahabharata
English
Pañcavaktra, a warrior of Skanda. § 615u (Skanda): IX, 45, 2578.
शब्दकल्पद्रुमः
Sanskrit
पञ्चवक्त्रः,
पुं,
(पञ्च वक्त्राणि यस्य ।) शिवः (“विश्वाद्यंविश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्
”इति शिवध्यानम्
)अस्य मन्त्रा यथा, --“समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः ।ॠनॄकशून्याः सार्द्धचन्द्रा उपान्ते नाभिसंहिताः
एभिः पञ्चाक्षरैर्म्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् ।क्रमात् सम्मदसन्दोहमादगौरवसंज्ञकाः
प्रासादन्तु भवेत् शेषं पञ्चमन्त्राः प्रकीर्त्तिताः ।एकैकेन तथैवैकं वक्त्रं मन्त्रेण पूजयेत्
एकं समुदितं कृत्वा पञ्चभिर्व्वा प्रपूजयेत् ।प्रासादेनाथवा पञ्चवक्त्रं देवं प्रपूजयेत्
सम्मदादिषु मन्त्रेषु प्रासादन्तु प्रशस्यते ।शम्भोः प्रसादनेनैव यस्मादवृत्तस्तु मन्त्रकः
तेन प्रासादसंज्ञोऽयं कथ्यते मुनिपुङ्गवैः ।तस्मात् सर्व्वेषु मन्त्रेषु प्रासादः प्रीतिदः प्रभोः
आमोदकारकः शम्भोर्म्मन्त्रः सम्मद उच्यते ।मनःप्रपूरणश्चापि सन्दोहः परिकीर्त्तितः
आकर्षको भवेन्मादो गुरुत्वाद्गौरवाह्वयः ।एतद्व्यस्तं समस्तञ्च मन्त्रं शम्भोः प्रकीर्त्तितम्
पञ्चाक्षरञ्च यन्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् ।स्वयन्तेनैव मन्त्रेण आराधयतमीश्वरम्
*
ध्यानञ्च शृणु वक्ष्यामि सम्यग्वेतालभरवौ ।पञ्चवक्त्रं महाकायं जटाजूटविभूषितम्
चारुचन्द्रकलायुक्तं मूर्द्ध्नि व्यालौघसंगतम् ।बाहुभिर्द्दशभिर्युक्तं व्याघ्रचर्म्मास्वराम्बरम्
कालकूटधरं कण्ठे नागहारोपशाभितम् ।कोटीरबन्धनं बाहुभूषणञ्च भुजङ्गमाः
विभूतिं सर्व्वगात्रेषु ज्योत्स्नार्पितस्वरोचिषम् ।भूतिसंलिप्तसर्व्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः
नेत्रैस्तु पञ्चदशभिर्ज्योतिष्मद्भिर्विभूषितम् ।वृषभोपरि संस्थन्तु गजकृत्तिपरिच्छदम्
सद्योजातं वामदेवमघोरञ्च ततः परम् ।तत्पुरुषं यथेशानं पञ्चवक्त्रं प्रकीर्त्तितम्
सद्योजातं भवेद्बक्त्रं शुद्धस्फटिकसन्निभम् ।पीतवर्णं तथा सौम्यं वामदेवं मनोहरम्
नीलवर्णमघोरन्तु दंष्ट्राभीतिविवर्द्धनम् ।रक्तं तत्पुरुषं देवं दिव्यमूर्त्तिं मनोहरम्
श्यामलञ्च तथेशानं सर्व्वदैव शिवात्मकम् ।चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयञ्च तथोत्तरे
अघोरं दक्षिणे देवं पूर्व्वे तत्पुरुषन्तथा ।ईशानं मध्यतो ध्येयं चिन्तयेद्भक्तितत्परः
शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् ।दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः शृणु
अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् ।अष्टैश्वर्य्यसमायुक्तं ध्यायेत्तु हृद्गतं शिवम्
”इति कालिकापुराणे ५० अध्यायः
*
पञ्चमुखरुद्राक्षः यथा स्कान्द्रे, --“पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।अगम्यागमनाच्चैव अभक्ष्यस्य भक्षणात् ।मुच्यते सर्ब्बपापेभ्यः पञ्चवक्त्रस्य धारणात्
”इति तिथितत्त्वम्
(पञ्चं विस्तृतं वक्त्रं वदनं यस्य इति विग्रहे ।सिंहः
)
वाचस्पत्यम्
Sanskrit
पञ्चवक्त्र
पु०
पञ्च वक्त्राण्यस्य महादेवे रुद्राक्षभेदे चपञ्चमुखशब्दे दृश्यम् पञ्चवदनादयोऽप्यत्र
Capeller
German
पञ्चवक्त्र füfgesichtig, Bein. Śiva's.