| YouTube Channel

पञ्चलाङ्गलकं (paJcalAGgalakaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चलाङ्गलकं,
क्ली,
(मुक्तादिविभूषितदशवृष-युक्तानि सारदारुनिर्म्मितानि पञ्च लाङ्गलकानियस्मिन् ।) महादानभेदः यथा, --“अथातः संप्रवक्ष्यामि महादानमनुत्तम् ।पञ्चलाङ्गलकं नाम महापातकनाशनमम्
पुण्यां तिथिं समासाद्य युगादिग्रहणादिकम् ।भूमिदानं ततो दद्यात् पञ्चलाङ्गलकान्वितम्
कर्व्वटं खेटकञ्चापि ग्रामं वा शस्यशालिनम् ।निवर्त्तनशतं वापि तदर्द्ध्वं वापि शक्तितः
सारदारुमयान् कृत्वा हलान् पञ्च विचक्षणः ।सर्व्वोपकरणैर्युक्तानन्यान् पञ्च काञ्चनान्
वृषलक्षणसंयुक्तान् दशैव तु धुरन्धरान् ।सुवर्णशृङ्गाभरणान् मुक्तालाङ्गूलभूषितान्
रौप्यपादाग्रतिलकान्रक्तकौशेयभूषणान् ।स्रग्दामचन्दनयुतान् शालायामधिवासयेत्
पर्ज्जन्यादित्यरुद्रेभ्यः पायसं निर्व्वपेत् चरुम् ।एकस्मिन्नेव कुण्डे तु गुरुर्यस्मिन्निवेदयेत्
पालाशाः समिधस्तद्वदाज्यं कृष्णतिलांस्तथा ।तुलापुरुषवत् कुर्य्यात् लोकेशावाहनं बुधः
ततो मङ्गलशब्देन युक्तमाल्याम्बरो बुधः ।आहूय द्विजदाम्पत्यं हेमसूत्राङ्गरीयकैः
कौशेयवस्त्रकटकैर्मणिभिश्चापि पूजयेत् ।शय्यां सोपस्करां तद्बद्धेनुमेकां पयस्विनीम्
तथाष्टादश धान्यानि समन्तादधिवासयेत् ।ततः प्रदक्षिणं कृत्वा गृहीतकुसुमाञ्जलिः
इममुच्चारयेन्मन्त्रमथ सर्व्वं निवेदयेत् ।यस्माद्देवगणाः सर्व्वे स्थावराणि चराणि
धुरन्धराङ्गे तिष्ठन्ति तस्माद्भक्तिः शिवेऽस्तु मे ।यस्माच्च भूमिदानस्य कलां नार्हन्ति षोडशीम्
दानान्यन्यानि मे भक्तिर्धर्म्म एव दृढा भवेत् ।दण्डन सप्तहस्तेन त्रिंशद्दण्डान्निवर्त्तनम्
त्रिभागहीनं गोचर्म्ममानमाह प्रजापतिः ।मानेनानेन यो दद्यात् निवर्त्तनशतं बुधः
विधिनानेन तस्याशु क्षीयते पापसंहतिः ।तदर्द्धमथवा दद्यादपि गोचर्म्ममात्रकम् ।भवनस्थानमात्रं वा सोऽपि पापैः प्रमुच्यते
यावन्ति लाङ्गलकमार्गमुखानि भूमे-स्तासां पतिर्दुहितुरङ्गजरोमकाणि ।तावन्ति शङ्करपुरे वर्षाणि तिष्ठे-द्भूमिप्रदानमथ यः कुरुते मनुष्यः
गन्धर्व्वकिन्नरसुरासुरसिद्धसंघै-राधूतचामरमुपेत्य महाद्बमानम् ।सम्पूज्यते पितृपितामहबन्धुयुक्तःशम्भोः पुरं व्रजति चामरनायकः सन्
इन्द्रत्वमप्यधिगतं क्षयमभ्युपैतिगोभूमिलाङ्गलधुरन्धरसंप्रदानात् ।तस्मादघौघपटलक्षयकारिभूमे-र्द्दानं विधेयमिति भूतिभवाभवाय
”इति मात्स्ये २५७ अध्यायः