पञ्चलाङ्गलक (paJcalAGgalaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaपञ्चलाङ्गलक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಒಂದು ಮಹಾದಾನ/ಐದು ನೇಗಿಲುಗಳಿಂದ ಉಳಬಹುದಾದ ಜಮೀನಿನ ದಾನ
शब्दकल्पद्रुमः
Sanskritपञ्चलाङ्गलकं, (मुक्तादिविभूषितदशवृष-युक्तानि सारदारुनिर्म्मितानि पञ्च लाङ्गलकानियस्मिन् ।) महादानभेदः । यथा, --“अथातः संप्रवक्ष्यामि महादानमनुत्तम् ।पञ्चलाङ्गलकं नाम महापातकनाशनमम् ॥
पुण्यां तिथिं समासाद्य युगादिग्रहणादिकम् ।भूमिदानं ततो दद्यात् पञ्चलाङ्गलकान्वितम् ॥
कर्व्वटं खेटकञ्चापि ग्रामं वा शस्यशालिनम् ।निवर्त्तनशतं वापि तदर्द्ध्वं वापि शक्तितः ॥
सारदारुमयान् कृत्वा हलान् पञ्च विचक्षणः ।सर्व्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान् ॥
वृषलक्षणसंयुक्तान् दशैव तु धुरन्धरान् ।सुवर्णशृङ्गाभरणान् मुक्तालाङ्गूलभूषितान् ॥
रौप्यपादाग्रतिलकान्रक्तकौशेयभूषणान् ।स्रग्दामचन्दनयुतान् शालायामधिवासयेत् ॥
पर्ज्जन्यादित्यरुद्रेभ्यः पायसं निर्व्वपेत् चरुम् ।एकस्मिन्नेव कुण्डे तु गुरुर्यस्मिन्निवेदयेत् ॥
पालाशाः समिधस्तद्वदाज्यं कृष्णतिलांस्तथा ।तुलापुरुषवत् कुर्य्यात् लोकेशावाहनं बुधः ॥
ततो मङ्गलशब्देन युक्तमाल्याम्बरो बुधः ।आहूय द्विजदाम्पत्यं हेमसूत्राङ्गरीयकैः ॥
कौशेयवस्त्रकटकैर्मणिभिश्चापि पूजयेत् ।शय्यां सोपस्करां तद्बद्धेनुमेकां पयस्विनीम् ॥
तथाष्टादश धान्यानि समन्तादधिवासयेत् ।ततः प्रदक्षिणं कृत्वा गृहीतकुसुमाञ्जलिः ॥
इममुच्चारयेन्मन्त्रमथ सर्व्वं निवेदयेत् ।यस्माद्देवगणाः सर्व्वे स्थावराणि चराणि च ॥
धुरन्धराङ्गे तिष्ठन्ति तस्माद्भक्तिः शिवेऽस्तु मे ।यस्माच्च भूमिदानस्य कलां नार्हन्ति षोडशीम् ॥
दानान्यन्यानि मे भक्तिर्धर्म्म एव दृढा भवेत् ।दण्डन सप्तहस्तेन त्रिंशद्दण्डान्निवर्त्तनम् ॥
त्रिभागहीनं गोचर्म्ममानमाह प्रजापतिः ।मानेनानेन यो दद्यात् निवर्त्तनशतं बुधः ॥
विधिनानेन तस्याशु क्षीयते पापसंहतिः ।तदर्द्धमथवा दद्यादपि गोचर्म्ममात्रकम् ।भवनस्थानमात्रं वा सोऽपि पापैः प्रमुच्यते ॥
यावन्ति लाङ्गलकमार्गमुखानि भूमे-स्तासां पतिर्दुहितुरङ्गजरोमकाणि ।तावन्ति शङ्करपुरे वर्षाणि तिष्ठे-द्भूमिप्रदानमथ यः कुरुते मनुष्यः ॥
गन्धर्व्वकिन्नरसुरासुरसिद्धसंघै-राधूतचामरमुपेत्य महाद्बमानम् ।सम्पूज्यते पितृपितामहबन्धुयुक्तःशम्भोः पुरं व्रजति चामरनायकः सन् ॥
इन्द्रत्वमप्यधिगतं क्षयमभ्युपैतिगोभूमिलाङ्गलधुरन्धरसंप्रदानात् ।तस्मादघौघपटलक्षयकारिभूमे-र्द्दानं विधेयमिति भूतिभवाभवाय ॥
”इति मात्स्ये २५७ अध्यायः ॥
वाचस्पत्यम्
Sanskritपञ्चलाङ्गलक महादानभेदे तत्स्वरूपं मत्स्यपु० यथा“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् । पञ्चलाङ्ग-लकं नाम महापातकनाशनम् । पुण्यां तिथिं समा-साद्य युगादिग्रहणादिकम् । भूसिदानं ततो दद्यात्पञ्चलाङ्गलकान्वितम् । कर्वटं खेटकं वापि ग्रामं वाशस्यशालिनम् । निवर्त्तनशतं वापि तदर्द्धं वापिशक्तितः । सारदारुमयान् कृत्वा हलान् पञ्च विच-क्षणः । सर्वोपकरणैर्युक्तानन्यान् पञ्च च काञ्चनान् ।कुर्य्यात् पञ्चषलादूर्ड्घनासहस्रपलायधि । दृषान् लक्ष-खसंयुक्तान् दश चैव घुरन्धरान् । सुवर्णशृङ्गा-भरणान् मुक्तालाङ्गूलभूषणान् । रूश्रपादाग्रतिलकान्रक्तकौषेयभूषणान् । स्रग्दागचन्दबयुतान् शालाया-मधिवासयेत्” इतःषरं तत्राध्याये २८३ अ० दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
