| YouTube Channel

पञ्चमूलं (paJcamUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चमूलं,
क्ली,
(पञ्चप्रकारं पञ्चगुणितं वा मूलम् ।)स्वनामख्यातपाचनम् तत् त्रिविधं वृहत् स्वल्पंतृणाख्यञ्च आद्यं यथा, --“विल्वश्योणाकगाम्भारीपाटला गणिकारिका ।कफवातहरं श्रेष्ठं पञ्चमूलमिदं महत्
”द्वितीयं यथा, --“शालपर्णी पृश्निपर्णी बृहतीद्वयगोक्षुरम् ।वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम्
”तृतीयं यथा, --“कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवः ।”इति चक्रपाणिदत्तः
अपि ।“विल्वाग्निमन्थश्योणाककाश्मर्य्यः पाटला तथा ।ज्ञेयं बृहत् पञ्चमूलं पञ्चमूलमिति स्मृतम्
शरेक्षदर्भ काशानां नलस्य मूलमेव ।सौश्रुतञ्चारकञ्चैव तृणाख्यं पञ्चमूलकम्
”इति शब्दचन्द्रिका
(पञ्चानां मूलानां समाहारः इति विग्रहेमूलपञ्चकम्
)