| YouTube Channel

पञ्चमीव्रतं (paJcamIvrataM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चमीव्रतं,
क्ली,
(पञ्चम्यां माघशुक्लपञ्चमीमारभ्यषड्वर्षं यावत् प्रतिमासीयशुक्लपञ्चम्यां स्त्रियाकर्त्तव्यं व्रतम् नियमविशेषः ।) माघशुक्लपञ्चमीमारभ्य षड्वर्षपर्य्यन्तं प्रतिमासीयशुक्लपञ्चम्यांस्त्रीकर्त्तव्यनियमविशेषः तत्प्रयोगो यथा, तत्रादौकृतनित्यक्रिया यजमाना कुशहस्ताचम्य स्वस्ति-वाचनपूर्व्वकं सङ्कल्पं कुर्य्यात् विष्णुर्नमोऽद्य माघेमासि शुक्ले पक्षे पञ्चम्यां तिथौ अमुकगोत्रा श्री-अमुकी पुत्त्रपौत्त्राद्यनवच्छिन्नसन्ततिमहदैश्वर्य्य-सौभाग्यारोग्यसौन्दर्य्यावैधच्यप्राप्तिपूर्व्वकविष्णुलो-कप्राप्तिकामा अद्यारभ्य षड्वर्षपर्य्यन्तं प्रतिमा-सीयशुक्लपञ्चम्यां गणपत्यादिनानादेवतासलक्ष्मी-कवासुदेवपूजापूर्व्वकभविष्यपुराणोक्तकथाश्रवण-रूपषट्पञ्चमीव्रतमहं करिष्ये इति सङ्कल्प्यसूक्तं पाठयेत् ततः सामान्यार्घ्यादि आसनशुद्धि-भूतशुद्धिमातृकान्यासकराङ्गन्यासान्तं कृत्वा गणे-शादीन् संपूज्य लक्ष्मीं नारायणञ्च यथाशक्तिपूजयेत् ततो भोज्योत्सर्गं कृत्वा प्रणमेत्
*
अथ कथा ।“शेषशय्यासमासीनं लक्ष्मीधृतपदाम्वुजम् ।योगनिद्रान्वितं कृष्णं नारदः परिपृच्छति
केनोपायेन भगवन्नारी दुःखं विन्दति ।सौ भाग्यारोग्यसौन्दर्य्यपुत्त्रपौत्त्रादिकं लभेत्
इत्युक्तो माधवश्चक्रे लक्ष्मीमुखनिरीक्षणम् ।इङ्गिताकारतत्त्वज्ञा पद्मा पद्माक्षवल्लभा ।वल्लभाज्ञां पुरस्कृत्य प्रीता वचनमब्रवीत्
श्रीरुवाच ।षट्पञ्चमीव्रतं सम्यक् श्रूयतां पापनाशनम् ।सौभाग्यारोग्यसौन्दर्य्यपुत्त्रपौत्त्रधनप्रदम्
माघे मासि सिते पक्षे पञ्चमी या शुभा भवेत् ।तस्यामारभ्य कर्त्तव्यं षडब्दं व्रतमुत्तमम्
प्रतिमासि पञ्चम्यां लक्ष्मीं संपूज्य केशवम् ।पूजयेद्गन्धपुष्पाद्यैर्न्यैवेद्यैश्च पृथग्विधैः
कुर्य्याद्धोमञ्च विधिवत् गणेशस्य ग्रहस्य ।विष्णोर्लक्ष्म्याश्च वाग्देव्या दुर्गाया विभवक्रमात्
अन्येषाञ्च यथाशक्ति तिलाज्ययवधान्यकैः ।ततोऽश्नीयादलवणमादौ संवत्सरद्वयम्
तृतीये चतुर्थे हविष्यान्नञ्च भोजयेत् ।पञ्चमे फलमश्नीयात् षष्ठेकुर्य्यादुपोषणम् ।षष्ठे प्रतिष्ठा कर्त्तव्या भोजयेद्द्वादश द्बिजान्
तत्र षोडशदानानि हेमशृङ्गीमलङ्कृताम् ।दक्षिणासहितां दद्यादाचार्य्याय मुनीश्वर !
ततः षड्डल्लकं दद्यात् सर्व्वालङ्कारभूषितम् ।काञ्चनप्रतिमायुग्मलक्ष्मीनारायणान्वितम्
विधिनानेन या कुर्य्यात् पञ्चमीव्रतमुत्तमम् ।स्ववंशांस्तु समुद्धृत्य विष्णुलोकमवाप्नुयात्
एतत्ते कथितं विप्र ! मर्त्यलोके प्रकाशितम् ।शोकसन्तापहानिश्च वृथादुःखं जायते
धर्म्म्यं यशस्यमायुष्यमैश्वर्य्यञ्चापि वर्द्धयेत् ।याश्च कुर्व्वन्ति भूर्लोके तासां सर्व्वं षुखावहम्
श्रीरुवाच ।शृणु सत्यं मुनिश्रेष्ठ ! देव्या यत् कथितं मयि ।तदनुष्ठानसर्व्वन्तु प्रतिष्ठाञ्च द्बिजोत्तम् !
या करोति व्रतं साध्वी सर्व्वकामफलं लभेत् ।तस्याः श्रीर्निश्चला गेहे सत्यं सत्यं हि नारद !
यथेन्द्राणी महेन्द्रस्य लक्ष्मीर्लक्ष्मीपतेर्यथा ।शङ्करस्य यथा गौरी सापि भर्त्तुर्भवेत्तथा
या पञ्चमीव्रतं कुर्य्यात् सा भवेच्च पतिव्रता ।यथोक्तविधिना या तु कुर्व्वीत व्रतमुत्तमम्
पुत्त्रपौत्त्रधनैश्वर्य्यं पञ्चमीकरणादपि ।एतत्ते कथितं सर्व्वं तत्त्वं कमललोचन !
नारद उवाच ।केनापि कथितं पूर्व्वं कृतं केनापि वा पुनः ।प्राप्तं कुत्र त्वया देवि ! श्रोतुमिच्छामि तद्बद
श्रीरुवाच ।माघे मासि सिते पक्षे पञ्चम्याञ्च महामुने ! ।निशावसानसमये चन्द्रभागां महानदीम्
हंससङ्घैः समाकीर्णां नलिनीपुलिनोज्ज्वलाम् ।तत्र गौरी शची मेधा सावित्री चोर्व्वशी परा
नारायणं समारोप्य कुर्व्वन्ति व्रतमुत्तमम् ।काम्यव्रतमिदं पद्मे ! लभते फलमुत्तमम्
हर्षवतीञ्च तां वीक्ष्य प्रोवाच कमलालया ।पुष्पञ्च देहि मे धूपं दीपं नैवेद्यडल्लकम्
मया तव प्रसादेन क्रियते व्रतमुत्तमम् ।ततस्तासां फलैः पुष्पैर्नैवेद्यैश्च व्रतं कृतम्
ततस्तासां प्रसादेन वल्लभाहं जनार्द्दन ! ।त्वयि देव जगन्नाथ ! नरनारीगणेन
भक्त्या मया ते कथितं मर्त्यलोके प्रकाशितम् ।या करोति व्रतं ह्येतत् यथाविधिविधानतः
इह लोके सुखं भुक्त्वा नारायणपुरं व्रजेत् ।श्रुत्वा व्रतस्य माहात्म्यं व्रतमेतत् चरन्ति याः
किञ्चिद्दुष्कृतं लोके तासां सत्यं वदाम्यहम् ।हरन्ति तासां पापानि याश्च शृण्वन्त्यहर्निशम्
नारायणं नमस्कृत्य प्रपूज्य विसर्ज्जयेत्
”इति भविष्यपुराणोक्ता षट्पञ्चमीव्रतकथासमाप्ता