पञ्चमी (paJcamI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English पञ्चमी paJcamI 5th or ablative case
पञ्चमी paJcamI word in the ablative
पञ्चमी paJcamI brick having the length of 15
पञ्चमी paJcamI fifth day of the half month
पञ्चमी paJcamI particular rAgiNI or mUrchanA
पञ्चमी paJcamI termination of the imperative
पञ्चमी विभक्ति paJcamI vibhakti phrase ablative [ source of action/cause/motive - Gramm. ]
Monier Williams Cologne
EnglishApte Hindi
Hindiपञ्चमी
- पंचन् + मट्
चान्द्रमास के पक्ष की पाँचवीं तिथि
पञ्चमी
- पंचन् + मट्
"अपादान कारक, द्रौपदी का विशेषण"
पञ्चमी
- पंचन् + मट्
शतरंज की कपड़े की बिसात
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaपञ्चमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶುಕ್ಲ ಮತ್ತು ಕೃಷ್ಣಪಕ್ಷಗಳ ಐದನೆಯ ತಿಥಿ
विस्तारः - > पञ्चम - ಶಬ್ದದ ಸ್ತ್ರೀಲಿಂಗ.
पञ्चमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದ್ರೌಪದಿ/ಪಾಂಡವರ ಪತ್ನಿ
निष्पत्तिः - > डुमिञ्(प्रक्षेपणे) "क्विप्"
व्युत्पत्तिः - > पञ्च पतीन् मिनोति
विस्तारः - > "पञ्चमः सुन्दरे दक्षे पञ्चानामपि पूरणे। रागभेदे पञ्चमी तु द्रौपद्याम्" हेम०, "पञ्चमी पाण्डवस्त्रियाम्" विश्व०
पञ्चमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಂಚಮೀವಿಭಕ್ತಿ
L R Vaidya
EnglishAbhyankara Grammar
Englishपञ्चमी (1) the fifth case
ending of the fifth or ablative case as prescrib- ed by rules of Pāņini cf. अपादने पञ्चमी, P. II. 3-7, 10, etc. (2) the imperative mood
cf. Kāt.III.1.18. पञ्चमीनिर्देश statement by the abla- tive case, cf. डः सि धुट् P. VIII. 3.29
cf. उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् e. g. ङमो ह्रस्वादचि ङमुण्नित्यम् P. VIII. 3.32, Par. Sek. Pari. 70
cf. also उभयानिर्देशे विप्रतिषेधात्पञ्चमीनिर्देशः M. Bh. on P.I. 1.67 Vārt. 3.
Wordnet
Sanskrit पञ्चमी
मासस्य पञ्चमः दिनः
"माला पञ्चम्याम् आगच्छति"
पञ्चमी
चान्द्रमास्य कस्यापि पक्षस्य पञ्चतमा तिथिः।
"भारते श्रावणमासस्य शुक्लपक्षस्य पञ्चम्यां नागपञ्चम्याः पर्वं परम्परया सश्रद्धया मन्यन्ते।"
Sanskrit Tibetan
Tibetanlnga pa
१) पण्च २)पञ्चक ३) पञ्चम ४) पञ्चमी
lnga po
१) पञ्च २) पञ्चमी
Mahabharata
EnglishPañcamī, a river. § 574 (Jambūkh.): VI, 9, 333 (in Bhāratavarsha).
पुराणम्
Englishपञ्चमी / PAÑCAMĪ, An ancient river of uttara bhārata. People used to drink water from this river. Chapter 9, bhīṣma Parva).
शब्दकल्पद्रुमः
Sanskritपञ्चमी, (पञ्चानां पाण्डवानां इयम् । अथवापञ्च पतीन् मिनोति सेवास्नेहादिभिर्बध्नाति या ।पञ्च + मी + क्विप् । मीधातुरत्र बन्धार्थः ।)पाण्डवपत्नी । द्रौपदी । इति मेदिनी ॥
(पञ्चानांपूरणी डट् ततो मट् स्त्रियां ङीप् ।) शारि-शृङ्खला । पाशार छक् इति भाषा । इति भूरि-प्रयोगः ॥
* ॥
तिथिविशेषः । सा च चन्द्रस्यपञ्चमकलाक्रियारूपा तदुपलक्षितकालश्च ।पञ्जिकाकारसङ्केतेन शुक्लपक्षे ५ कृष्णपक्षे २०एतदङ्कबोधिता ॥
* ॥
अथ पञ्चमीव्यवस्था ।सा च चतुर्थीयुता ग्राह्या युग्मात् ।“पञ्चमी च प्रकर्त्तव्या चतुर्थीसहिता विभो ! ॥
”इति स्कन्दपुराणाच्च ॥
* ॥
अथ नागपञ्चमी । यथा, -- देवीपुराणे ।“सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने ।पूजयेन्मनसादेवीं स्नुहीविटपसंस्थिताम् ॥
पद्मनाभे गते शय्यां देवैः सर्व्वैरनन्तरम् ।पञ्चम्यामसिते पक्षे समुत्तिष्ठति पन्नगी ॥
”देवैरिति सहार्थे तृतीया । तथा, --“देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् ।पञ्चम्याम्पूजयेन्नागाननन्ताद्यान्महोरगान् ।क्षीरं सर्पिस्तु नैवेद्यं देयं सर्व्वविषापहम् ॥
”एवं गारुडे तथैव नागानाह ।“अनन्तं वासुकिं पद्मं शङ्खं कम्बलमेव च ।तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम् ॥
कालीयं तक्षकञ्चैव पिङ्गलं मासि मासि च ।यजेत्तानसिते नागान् दष्टमुक्तो दिवं व्रजेत् ॥
”पुराणान्तरेऽपि ।“अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः ।कुलिकः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः ॥
”पुराणान्तरेऽपि ।“शेषः पद्मो महापद्मः कुलीरः शङ्खपालकः ।वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥
”अत्र च ।“योऽसौ चानन्तरूपेण ब्रह्माण्डं सचराचरम् ।पुष्पवद्धारयेन्मूर्द्ध्नि तस्मै नित्यं नमो नमः ॥
”इत्यनेन ओंकारपूर्व्वेण मत्स्यपुराणोक्तेनानन्तंपूजयेत् । रत्नाकरे ।“पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे ।स्वयञ्चापि तदश्नीयाद्ब्राह्मणांश्चैव भोजयेत् ॥
” * ॥
अथ श्रीपञ्चमी । भविष्योत्तरे । माघशुक्लपक्ष-मधिकृत्य, --“चतुर्थी वरदा नाम तस्यां गौरी प्रपूजिता ।सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥
”सम्बत्सरप्रदीपे ।“पञ्चम्यां पूजयेल्लक्ष्मीं पुष्पधूपान्नवारिभिः ।मस्याधारं लेखनीञ्च पूजयेन्न लिखेत्ततः ॥
माघे मासि सिते पक्षे पञ्चमी या श्रियः प्रिया ।तस्याः पूर्व्वाह्ण एवेह कार्य्यः सारस्वतोत्सवः ॥
”इत्युपादानात् श्रियः स्वरसत्याः । तथा च व्याडिः ।“लक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु ।उपकरणवेशरचनाविधासु च श्रीरितिप्रथिता ॥
”ध्यानं यथा, --“तरुणशकलमिन्दोर्ब्रिभ्रती शुभ्रकान्तिःकुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ।निजकरकमलोद्यल्लेखनीपुस्तकश्रीःसकलविभवसिद्ध्व्यै पातु वाग्देवता नः ॥
”इति शारदोक्तं ध्यायेत् । पाद्यादिभिः पूजयित्वा ।“भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः ।वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥
”स्वाहेति ब्रह्मपुराणीयेन त्रिः पूजयेत् । मत्स्य-सूक्ते । बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् ।सरस्वतीं संपूज्य, --“यथा न देवो भगवान् ब्रह्मा लोकपितामहः ।त्वां परित्यज्य सन्तिष्ठेत्तथा भव वरप्रदा ॥
वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् ।न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः ।एताभिः पाहि तनुभिरष्टाभिर्म्मां सरस्वति ! ॥
”इति मत्स्यपुराणीयैः प्रार्थयेत् ॥
* ॥
अथ पञ्चमीव्रतम् ।तच्च शुद्धकाले माघशुक्लपञ्चम्यामारभ्य षड्वर्ष-पर्य्यन्तं प्रतिमासीयशुक्लपञ्चम्यां कार्य्यम् । यथा, --“क्षीरोदे च पुरा सुप्तं लक्ष्मीसमन्वितं हरिम् ।प्रणम्य परिपप्रच्छ नारदो मुनिसत्तमः ॥
नारद उवाच ।केनोपायेन देवेश ! नारीणाञ्च सुखं भवेत् ।सौभाग्यमतुलं याति तन्मे त्वं वक्तुमर्हसि ॥
श्रुत्वा तद्वचनं देवो नारदस्य महात्मनः ।संप्रेक्ष्य कमलां सव्ये ब्रूहि देवि शुभानने ! ॥
इङ्गितं पत्युरालोक्य पद्मपत्राक्षवल्लभा ।वल्लभं तं पुरस्कृत्य प्रीत्या व्रतमुवाच ह ॥
देव्युवाच ।अस्ति श्रीपञ्चमीनाम व्रतं परमदुर्लभम् ।यत् कृत्वा प्राप्यते लोकैः सुखं सौभाग्यमुत्तमम् ॥
”तत्र मां पूजयेद्भक्त्या माधवञ्च प्रयत्नतः ।गन्धैः पुष्पैश्च वस्त्रैश्च धूपैर्नानाविधैः फलैः ॥
श्रद्धया पूजयेद्भक्त्या माघादौ पञ्चमीदिने ।इमां ब्रह्मपुराणोक्तां या करोति च पञ्चमीम् ॥
लक्ष्मीसमा भवेन्नारी इह लोके परत्र च ।विधानं शृणु धर्म्मज्ञ ! यादृशी पञ्चमी मम ॥
वर्षाणि षट् प्रकर्त्तव्या परमप्रीतिमानसा ।शुद्धकाले तु संप्राप्ते पञ्चमी या शुभा भवेत् ॥
तस्यामारभ्य कर्त्तव्यं व्रतं पापप्रणाशनम् ।स्वयं यतात्मा भूत्वा च आरभेद्व्रतमुत्तमम् ॥
आद्यद्वयमलवणेन हविष्येण द्वयं तथा ।फलेनैकन्तु कर्त्तव्यमुपवासैः प्रतिष्ठयेत् ॥
प्रतिष्ठाया विधिरयं काञ्चनस्य श्रियं हरिम् ।ब्राह्मणञ्च सपत्नीकं पूर्व्वेद्यु रधिवासयेत् ॥
पञ्चम्यामृत्विजं विप्रमाचार्य्यञ्च द्धिजोत्तमम् ।पूजा च विविधा कार्य्या मूलमन्त्रेण भक्तितः ॥
होमञ्च तिललाजानां शतं कुर्य्यात् पृथक् पृथक् ।नैवेद्यं विविधं कुर्य्यात् लड्डुक पूपमुत्तमम् ॥
आसनं पाद्यमर्ध्यञ्च तथाप्याचमनीयकम् ।वासौ यज्ञोपवीतञ्च गन्धपुष्पफलं तथा ॥
छत्रं धूपः प्रदीपश्च ताम्वूलं फलमेव च ।गौः शय्या कम्बलञ्चैव हिरण्यं रजतं तथा ॥
ब्राह्मणेभ्यः प्रदेयानि दक्षिणासंयुतानि च ।यथोक्तेन विधानेन या कुर्य्यात् पञ्चमीव्रतम् ॥
आसप्तकुलमुद्धृत्य विष्णुलोकमवाप्नुयात् ।शचीव पुरुहूतस्य रतीव मदनस्य च ॥
शङ्करस्य यथा गौरी तथा भवति सा शुभा ।मासि मासि सिते पक्षे पञ्चमी या प्रकीर्त्तिता ॥
तस्यां पूज्या सदा देवी भक्तितः कमलोद्भवा ।लक्ष्मीसमा भवेन्नारी षट्पञ्चमीव्रतेन वै ॥
श्रीपञ्चमीव्रतं रम्यं या करोति पतिव्रता ।तस्याहं स्थिरतां यामि यथा नारायणे स्थिरा ॥
मत्प्रसादान्मुनिश्रेष्ठ ! सर्व्वसौभाग्यमाप्नुयात् ॥
”इति ब्रह्मपुराणोक्तषट्पञ्चमीव्रतकथा समाप्ता ॥
अथ पञ्चमीजातफलं यथा ।“भूपालमान्यो मनुजः सुगात्रःकृपासमेतो विदुषां वरेण्यः ।वाग्मी गुणी बन्धुजनैकमान्यःप्रसूतिकाले यदि पञ्चमी स्यात् ॥
”इति कोष्ठीप्रदीपः ॥
विद्याविशेषः । तद्विवरणं यथा, --“कामं विष्णुयुतं देवि ! शक्तिभायेन्द्रमेव च ।महामायां ततः पश्चात् वाग्भवं बीजमुद्धरेत् ॥
”विष्णुयुतं अकारयुक्तमित्यर्थः । शक्तिरेकारः ।माया ईकारः ।“वियच्चन्द्रस्ततः पश्चात् कलौ नकुलिरेव च ।मायास्वरेण संयुक्तं नादबिन्दुकलान्वितम् ॥
प्रथमं कामराजस्य बीजं परमदुर्लभम् ।वियद्विष्णुयुतं कामो हंसः शक्रस्ततः परम् ॥
महामाया ततः पश्चात् स्वप्नावतीति कथ्यते ॥
”हंसो हकारः । एतद्द्वितीयं कामकूटम् ॥
* ॥
“मादनं शिववीजञ्च वायुबीजं ततः परम् ।इन्द्रबीजं ततः पश्चात् महामायां समुद्धरेत् ॥
”इति तृतीयम् । इयं मधुमती ॥
* ॥
“शिवबीजं तथा कामं इन्द्रं देवीं नियोजयेत् ।महामायां ततः पश्चात् शक्तिकूटं समुद्धरेत् ॥
”देपीं सकारम् ।“वाग्भबं प्रथमं कूटं शक्तिकूटन्तु पञ्चमम् ।मध्यकूटत्रयं देवि ! कामराजं मनोहरम् ।कथिता पञ्चमी विद्या त्रैलोक्यसुभगोदया ॥
” * ॥
ईश्वर उवाच ।“शृणु देवि ! महाभागे शक्तिकूटं सुदुर्लभम् ।वाग्भवं प्रथमं कूटं कामराजं त्रिकूटकम् ॥
शक्तिकूटं प्रवक्ष्यामि तव स्नेहात् विशेषतः ।जीवप्राणौ महादेवि ! मादनं तदनन्तरम् ॥
इन्द्रबीजं ततः पश्चात् भुवनेशी तु पञ्चमम् ॥
”जीवः सकारः । प्राणो हकारः । इति वा शक्ति-कूटम् ॥
* ॥
“अथवा देवदेवेशि ! सौभाग्यायाश्च वाग्भवम् ।कूटत्रयं कामराजं शक्तिबीजञ्च पूर्व्ववत् ।एषा शाक्ता महादेवि ! पञ्चमी परमेश्बरी ॥
”अस्या वाग्भवं कूटं हित्वा सौभाग्यायाः प्रथम-कूटं वाग्भवं कूटमित्यर्थः । कामराजकूटत्रयंपञ्चम्या एव ।“वामनेत्रादिकूटं वा भगादिकूटमेव वा ।अरिहा सिद्धिदा विद्या सर्व्वदोषविवर्ज्जिता ॥
”भग एकारः । एतेनाष्टधा पञ्चमी वाम्भवशक्ति-कूटभेदेन ॥
* ॥
यामले ।“द्विविधा पञ्चमी विद्या पञ्चपञ्चाक्षरी परा ।मध्ये षडक्षरी चैव शक्तिश्च चतुरक्षरी ॥
”षडिति कामराजविद्याया मध्यकूटमित्यर्थः ।शक्तिरिति कामराजस्य शक्तिकूटमित्यर्थः ।एषा चतुर्द्धा वाग्भवकूटमेदात् । एतयोः काम-राजस्य तृतीयकूटन्तु तत्रैव ॥
* ॥
“कामबीजं महेशानि ! शिवबीजं ततः परम् ।तदधो हंसबीजन्तु इन्द्रबीजं विचिन्तयेत् ॥
महामायां ततः पश्चात् कूटं परमदुर्लभम् ॥
”एषा पूर्व्ववदष्टधा । अन्या चतुर्द्धा ॥
* ॥
तथा तत्त्वबोधे ।“कामाकाशपरा शक्र संस्थानकृतरूपिणी ॥
”परा सकारः । संस्थानकृतरूपिणी महामाया ॥
* ॥
तथा च तन्त्रे ।“कामबीजं महेशानि ! शम्भुबीजं ततः परम् ।तदधश्चन्द्रबीजन्तु पृथ्वीबीजं ततो लिखेत् ।तदन्ते च महामाया कूटं परमदुर्लभम् ॥
”एषा पूर्व्ववदष्टधा । अन्या चतुर्द्धा । तेन षट्-त्रिंशद्रूपिणी पञ्चमी ॥
* ॥
हंसमाहेश्वरे ।“वामकेश्वरविद्यायाः कूटं वाग्भवमुत्तमम् ।एकारादि वागभवन्तु कूटं वाग्भवमुत्तमम् ॥
एकारादि वाग्भवन्तु सौभाग्यायाश्च वाग्भवम् ।एषा च पञ्चमी विद्या त्रैलोक्यवशकारिणी ॥
” * ॥
श्रीक्रमे ।“एतासां चैव विद्यानां प्राणं शृणु वरानने ! ।रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ॥
शक्त्यन्ते तु महादेवि ! हंसं मायां रमां तथा ।एभिर्युक्तेन देवेशि ! विद्याजपनमाचरेत् ॥
”जपश्च सप्तवारमेव दीपन्यां तथा दर्शनात् ।एतासां पूर्व्वोक्तश्रीक्रमोक्तविद्यानाम् ॥
* ॥
पञ्चम्यान्तु विशेषो यथा ।“रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ।शक्त्यन्ते तु महेशानि ! हंसं मायां रमां तथा ॥
कामराजत्रये देवि ! ककारं शक्रसंयुतम् ।मायाबिन्द्वीश्वरयुतं सूर्य्यकोटिसमप्रभम ॥
प्रथमं कामकूटस्य चाद्ये नियोजयेदिदम् ॥
वान्तं वह्निंसमायुक्तं वामनेत्रविभूषितम् ॥
नादबिन्दुसमायुक्तं श्रियो बीजमुदाहृतम् ।द्वितीयं कामबीजन्तु जपेदुक्त्वा च सुन्दरि ! ॥
गगनं वह्निसंयुक्तं वामनेत्रविभूषितम् ।नादबिन्दुसमायुक्तं मायाबीजं प्रकीर्त्तितम् ॥
मधुमतीं जपेच्चापि सर्व्वकामफलप्रदाम् ॥
”इति तन्त्रसारः ॥
* ॥
* ॥
रागिणीविशेषः । साच वसन्तरागस्य प्रिया । यथा, --“वसन्ती पञ्चमी दौली वहारी रूपमञ्जरी ।रागिण्य ऋतुराजस्य वसन्तस्य प्रिया इमाः ॥
”अस्या ध्यानं यथा, --“सङ्गीतगोष्ठीषु गरिष्ठभावंसमाश्रिता गायनसम्प्रदायैः ।खर्व्वाङ्गिणी नूपुरपादपद्मासा पञ्चमी पञ्चमवेदवेत्त्री ॥
”इति सङ्गीतदर्पणः ॥
(नदीविशेशः । यथा, महाभारते । ६ । ९ । २६ ।“वरां वीरकराञ्चापि पञ्चमीञ्चमहानदीम् ॥
”)
वाचस्पत्यम्
Sanskritपञ्चमी स्त्री पञ्च पतीन् मिनोति वध्नाति प्रेम्णा मी--वन्धेपिक्व् । पञ्चपाण्डवपतिकायां १ द्रौपद्र्याम् २ शारिशृङ्ख-लायाञ्च (पाशारछक) पञ्चन् + पूरणे मट् । पञ्चानां पूरण्यांस्त्री ङीप् । अस्य बहु० समासे समासवाच्यत्वे अच्समा० । कल्याणी पञ्चमी यासु रात्रिषु कल्याणपञ्चमारात्रयः । मुख्यत्वाभावे कप् । कल्याणी पञ्चमी यत्रपक्षे कल्याणपञ्चमीकः पक्षः अत्र पूरण्या मुख्यत्वा-भावात् न समासवाच्यत्वम् । चन्द्रमण्डलस्य प्रवेश-निर्गमाभ्यां सूर्य्यकिरणप्रतिविम्बयोग्यत्वयोग्यत्वाभाव-युक्तायां चन्द्रस्य ४ पञ्चम्यां कलायां ५ तदुपलक्षिततिथौ च स्त्री । विहितकर्भविषयविशेषे तस्याःकथं ग्राह्यतेति कालमा० निर्णीतं यथा“युग्मशास्त्रेण पञ्चमी पूर्वविद्धा ग्राह्या । ननु “प्रायःप्रातरुपोष्या हि तिथिर्दैवे फलेप्सुभिरिति” शिवरहस्यसौ-रपुराणयोस्तिथ्यग्रभागस्योपवामाङ्गत्वाभिधानात् पञ्च-म्युपवामः परेद्युः प्राप्नीति, तन्न हारीतेन परविद्धायाःप्रतिषिद्धत्वात् । “चतुर्थीसंयुता कार्या पञ्चमी षरयान तु । दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते”इति । नचैतावता प्रायः प्रातरिति वचनस्य निर्विपयत्वंशङ्कनीयम् । निर्णीतासु निर्णेष्यमाणासु च तिथिषुयत्र यत्र परविद्धोपवासः शास्त्रान्तरेण प्राप्तस्तस्य स-र्वस्य तद्विषयोपपत्तेः । न च तेनैव शास्त्रेण तदुपवा-ससिद्धेः कृतमनेन वचनेनेति शङ्कनीयम् । सामान्य-विशेषरूपेण शास्त्रद्वयस्यापि चरितार्थत्वात् । तस्य सा-मान्यशास्त्ररूपस्य प्राप्तोपवासवचनस्य विरोधिना षष्ठीयुक्तपञ्चमीनिषेधकेन विशेषशास्त्ररूपेण हारीतबचनेनबाधो युज्यते । एतादृश बाधमभिलक्ष्यैव प्रायः व्रात-रुपोष्येति प्रायःशब्दः प्रयुक्तः । प्रतिपन्न्यायेन पौर्वा-ह्णिकी इति वचनबलात् । पञ्चम्यामपि दानव्रतयोःपरदिनानुष्ठानप्राप्तौ तद्व्यावृत्तये हारीतवचने दैवे कर्म-णीत्युच्यते । न च दैवकर्मणि पूर्वाह्णस्य कर्मकालशास्त्रप्राबल्यस्य च वर्णितत्वात् तद्वाधो न युक्त इति शङ्क-नीयम् । विधेर्निषेधस्य वा प्रतिपदोक्तस्य प्रबलतरत्वात् ।न च पूर्वदिनपूर्वाह्णस्यात्यन्तकर्मकालत्वं, साकल्यवचना-पादितकर्मकालत्वस्य सद्भावात् । ईदृशमेव विपयमभि-लक्ष्य साकल्यवचनस्य प्रवृत्तत्वात् । स्वाभाविकतिथि-व्याप्तियुक्ते विषये साकल्यवचनस्य निरर्थकत्वात् । तस्मा-द्दैव कर्मणि परविद्धायाः पञ्चम्याः निषेधो न विरुध्यते ।नन्वेवमपि पित्र्ये निषेधो निरर्थकः । पित्र्यस्य स्वतएव परविद्धायामप्राप्तत्वात् । मैवं दृष्टान्ततयापि चतदुपन्यासोपपत्तेः । यथा पित्र्यकर्मणि उत्तरविद्धा नग्राह्या तथा दैवेऽपीति विवक्षया दैवपित्र्ययोः सहो-पन्यासः । ननु व्यासनिगममतयुग्मशास्त्रमुदाहृत्य प-ञ्चम्याः पूर्वविद्धत्वमभिधीयते । आपस्तम्बादयस्तु तद्विप-र्य्ययेण युग्मान्युदाजह्नुः । “प्रतिपत् सद्वितीया स्याद्द्वितीया प्रतिपद्युता । चतुर्थीसहिता या च सा तृतीयाफलप्रदा । पञ्चमी च प्रकर्त्तव्या षष्ट्या युक्ता च नारद!”इति । अतएवैतद्युग्मशास्त्रपर्य्यालोचने पञ्चम्याः पर-विद्धत्वं प्राप्नोति । बाढम् अतएवात्र शुक्लकृष्णशास्त्रेणव्यवस्था प्रमक्ता तां निषेद्धुं हारीतेन शुक्लपक्षे तथाऽसिते इत्युक्तम् । न च सा व्यवस्था वचनेन निषेद्धुमश-क्या, किं हि वचनं न कुर्यान्नास्ति वचनस्यातिभार इतिग्यायात् । तस्माद्धारीतवचनेन पञ्चमी पूर्वविद्धा ग्राह्या ।स्कन्दपुराणेऽपि “पञ्चमी च तथा कार्य्या चतुर्थ्या संयुताविभो!” तथा पद्मपुराणभविष्यत्पुराणयोः पूर्वोत्तरविद्धाविषयौ विधिनिषेधौ खर्य्येते । “पञ्चमी घ च-तुर्थ्या तु कार्या षष्ट्या न मयुता” इति । यत्तु ब्रह्मषैवर्त्ते-ऽभिहितम् “पञ्चमी च प्रकर्त्तिव्या मष्ट्या युक्ता सु नारद!इति तद्वचनं स्कन्दोपवासविषयतया सङ्कोचनीयम् ।बाक्यशेषे तथाभिधानात् “स्कन्दोपवासे स्वीकार्यां पञ्चमीपरसंयुता” इति वाक्यशेषः । न चासञ्जातविरोधिनोवाक्योपक्रमस्य सञ्जातविरोधिना वाक्यशेषेण कथं स-ङ्कोच इति शङ्कनीयम् । असन्दिग्धोपक्रमस्य प्राबल्ये-ऽपि सन्दिग्धोपक्रमस्य वाक्यशेषेण निर्णेतव्यत्वात् ।अतएव जैमिनिनापि सूत्रितम् । “सन्दिग्धे तु वाक्यस्यशेषादिति” । अतः स्कन्दोपवासे पञ्चमी परविद्धा । अ-न्यत्र पूर्वविद्धेति स्थितम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
