| YouTube Channel

पञ्चमहायज्ञाः (paJcamahAyajJAH)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चमहायज्ञाः,
पुं,
(पञ्चविधा महायज्ञाः ।)गृहस्थकर्त्तव्यपञ्चप्रकारनित्यकर्म्माणि यथा, --“पाठो होमश्चातिथीनां सपर्य्या तर्पणं वलिः ।एतैः पञ्च महायज्ञा ब्रह्मयज्ञादिनामकैः
”इत्यमरः १४
(तथा मनुः ६८-७० ।“पञ्चसूना गृहस्थस्य चूल्लीपेषण्युपस्करः ।कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्
तासां क्रमेण सर्व्वासां निष्कृत्यर्थं महात्मभिः ।पञ्चकॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम्
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम्
”)