| YouTube Channel

पञ्चभूतं (paJcabhUtaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चभूतं,
क्ली,
पञ्चानां भूतानां क्षित्यप्तेजोमरु-द्व्योम्नां समाहारः (केचित्तु संज्ञाप्रयुक्तत्वात्पञ्च तानि भूतानि चेति कर्म्मधारयसमास-माहुस्तत्र तु एकवचनञ्चिन्तनीयम् ।)अस्योत्पत्तिर्यथा ।“अभूत्तस्मादहङ्कारस्त्रिविधः सृष्टिभेदतः ।वैकारिकादहङ्काराद्देवा वैकारिका दश
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।तैजसादिन्द्रियाण्यासंस्तन्मात्रा क्रमयोगतः ।भूतादिकादहङ्कारात् पञ्चभूतानि जज्ञिरे
”इति शारदायां प्रथमपटलः
*
“सोऽहङ्कारस्त्रिभेदः स्यात् सत्त्वादिगुणयोगतः ।वैकारः सात्त्विको नाम तैजसो राजसः स्मृतः
भूतादिस्तामसस्ते पृथक्तत्त्वाद्यवासृजन् ।वैकारिकाद्दिगाद्याश्च चन्द्रेणैकादश स्मृताः
इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिताः ।यच्चापरं मनस्तत्त्वं ससङ्कल्पविकल्पकम्
तैजसादेव तज्जातमिन्द्रियाणि तथा दश ।भूतादेः पञ्चतन्मात्राण्यासन् भूतमतः परम्
”इति राघवभट्टधृतम्
*
“शब्दाद्व्योमस्पर्शतस्तेन वायु-स्ताभ्यां रूपाद्वह्निरेतै रसाच्च ।अम्भांस्येतैर्गन्धतो भूर्धराद्याभूताः पञ्च स्युर्गुणोनाः क्रमेण
”इति प्रपञ्चसारे प्रथमपटलः
*
“आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः ।रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही
”(तथा श्रुतिः ।“तस्मादेतस्मादाकाशः सम्भूतः आकाशाद्वायुःवायोरग्निरग्नेरापोऽद्भ्यः पृथ्वी समजायत
”एतच्छ्रु त्यवलम्बनेन मनुनाप्युक्तम् २० ।यथा, --“आद्याद्यस्य गुणन्त्वेषामवाप्नोति परःपरः ।यो यो यावतिथश्चैषां तावद्गुणः स्मृतः
”अत्र कुल्लूकभट्टः ।“आद्याद्यस्याकाशादेर्गुणं शब्दादिकं वाय्वादिःपरः परः प्राप्नोति एतदेव स्पष्टयति यो यःइति येषां मध्ये यो यो यावतां पूरणा याव-तिथः वतोरिथुक् द्बितीयादिः द्बितीयोद्विगुणः तृतीयस्त्रिगुणः इत्येवमादिर्मन्वादिभिःस्मृतः एतेनैतदुक्तं भवति आकाशस्य शब्दोगुणः वायोः शब्दस्पर्शौ तेजसः शब्दस्पर्श-रूपाणि अपां शब्दस्पर्शरूपरसाः भूमेः शब्द-स्पर्शरूपरसगन्धा इति
)तस्य लयप्रकारो यथा, --“मही संलीयते तोये तोयं संलीयते रवौ ।रविः संलीयते वायौ वायुर्नभसि लीयते ।पञ्चतत्त्वाद्भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते
”इति ब्रह्मज्ञानतन्त्रनिर्ब्बाणतन्त्रे
*
तदुद्भवास्थ्यादि यथा, --“अस्थिमांसनखाश्चैव नाडी त्वक् चेति पञ्चमः ।पृथ्वीपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम्
मलं मूत्रं तथा शुक्रं श्लेष्मा शोणितमेव ।तोयपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम्
हासो निद्रा क्षुधा चैव भ्रान्तिरालस्यमेव ।तेजःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम्
धारणं चालनं क्षेपः सङ्कोचः प्रसरस्तथा ।वायुपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम्
कामक्रोधस्तथा लोभस्त्रपा मोहश्च पश्चमः ।नभःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम्
”इति ब्रह्मज्ञानतन्त्रे प्रथमपटलः
*
पञ्चभूतनक्षत्राणि यथा, --“धनिष्ठा रेवती ज्येष्ठानुराधा श्रवणा तथा ।अभिजिच्चोत्तराषाढा पृथ्वीतत्त्वमुदाहृतम्
पूर्व्वाषाढा तथाश्लेषा मूलार्द्रा चैव रोहिणी ।उत्तरभाद्रपदा तोयं आपस्तत्त्वन्त्वभीष्टदम्
भरणी कृत्तिका पुष्या मघा पूर्व्वा फल्गुनी ।पूर्व्वभाद्रपदा स्वाती तेजस्तत्त्वमिति प्रिये
विशाखोत्तरफल्गुन्यौ हस्ता चित्रा पुनर्व्वसुः ।अश्विनी मृगशीर्षा वायुस्तत्त्वमुदाहृतम्
”इति सूक्ष्मस्वरोदयः