| YouTube Channel

पञ्चभद्रः (paJcabhadraH)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चभद्रः,
पुं,
(पञ्चसु अङ्गभेदेषु भद्रः शुभःपुष्पितत्वात् ।) पञ्चस्थानेषु पुष्पितोऽश्व-विशेषः यथा, --“पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः
”इति हेमचन्द्रः
पाचनविशेषः यथा, --“छिन्नोद्भवापर्पटवारिवाह-भूनिम्बशुण्ठीजनितः कषायः ।समीरपित्तज्वरजर्ज्जराणांकरोति भद्रं खलु पञ्चभद्रः
”इति शार्ङ्गधरः