| YouTube Channel

पञ्चप्रस्थ (paJcaprastha)

 
Spoken Sanskrit
English
पञ्चप्रस्थ paJcaprastha
adj.
having 5 elevations or rising grounds
Monier Williams Cologne
English
पञ्च—प्रस्थ
mfn.
having 5 elevations or rising grounds (said of a forest),
BhP.
वाचस्पत्यम्
Sanskrit
पञ्चप्रस्थ
न०
पञ्च विषयाः शब्दादयः प्रस्थाः सानव इव यस्य ।संसारवने “स एकदा महेष्वासो रथं पञ्चाश्वमाशुतम् ।द्वीशं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् एकरश्मये-कदमनमेकनीडं द्विकूवरम् पञ्चप्रहरणं सप्तवरूथं पञ्च-विक्रमम् हैमोपस्करमारुह्य स्वर्गवर्माक्षयेषुधिः ए-कादशचमूनाथः पञ्चप्रस्थमगाद्वनम्” भाग० २६ ।“महानिष्वासो धनुः कर्तृत्वभोक्तृत्वाद्यभिनिवेशोयस्यसः रथमारुह्य पञ्चप्रस्थं वनमगादिति तृतीयेनान्वयः ।रथम् इदानीमेव विवृतं स्वप्नदेहं जाग्रद्देहस्य शतसम्बत्-तरोपभोग्यपुरत्वेनोक्तत्वात् पञ्चज्ञानेन्द्रियाण्यश्वा-यस्य आशुगं शीव्रगतिम् द्वे अहन्ताममते ईशेदण्डिके यस्य द्वे पुण्यपापे चक्रे यस्य एकं प्रधानंमक्षी यस्य त्रयोगुणावेणबोध्वजा यस्य पञ्च प्राणा वन्धु-राणि बन्धनानि यस्य एकं मनो रश्मिः प्रग्रहो यस्यएका बुद्धिर्दमनः सूतो यस्य कर्मधारयः एकं हृदयंनीडं रथिनौपवेशस्थानं यस्मिन् द्वौ शोकमोहौकूवरौ युगबन्धनस्थाने यस्य पञ्च शव्दादयो वि-षयाः प्रह्रियन्ते प्रक्षिप्यन्ते यस्मिन् अस्य व्याख्यानंभविष्यति पञ्चेन्द्रियार्थप्रक्षेप इति सप्त धातवोवरूथारथरक्षार्थं चर्माद्यावरणानि यस्य पञ्च कर्भेन्द्रियाणिविक्रमा गतिप्रकारा यस्य हैमोपस्करं सौवर्णाभरणंस्वर्गवर्मा वर्मं कवचं रजोगुणावृतं अक्षयेषुधिर्निषङ्गम्अनन्तवासनाहङ्काणेपाधिः एकादशो मनोरूपः चमू-नाथः सेनापतिर्यस्य वासनामयस्य मनसृः प्रग्रहत्वसङ्कल्पविकल्पात्मकस्य वृहद्वनत्वेन वक्ष्यमाणस्य चमू-नाथत्वमिति भावः पञ्च शब्दादयो विषयाः प्रस्थाःसानवो यस्मिन् तद्वनं भजनीयं देशमगात्” श्रीध०