| YouTube Channel

पञ्चपक्षी (paJcapakSI)

 
Monier Williams Cologne
English
पञ्च—पक्षी
f.
N.
of sev. works. on astrology
Aufrecht Catalogus Catalogorum
English
पञ्चपक्षी jy. K. 232. Rādh 34 (and C.). 43. Oudh
XIV, 50. NP. V, 6. Oppert II, 4707.
--by Kṛṣṇa. B. 4, 150. Oppert 2875. 6032. 8060.
--by Śaṅkara. Sūcīpattra 17.
पञ्चपक्षी jy. Oudh XX, 124. 140.
--and C. by Viśveśvara Bhaṭṭa. Oudh XXII, 80.
पञ्चपक्षी jy.
C. Ulwar 1828.
C. Udāharaṇa. Ulwar 1829.
C. by Kalyāṇakara Śukla. Ulwar 1827. Extr. 510.
पञ्चपक्षी jy. Lz. 1110. 1111 (different). Hpr. 1, 214 offers
as Commentary some tantric tract.
शब्दकल्पद्रुमः
Sanskrit
पञ्चपक्षी, [न्]
पुं,
(अकारादि-ओकारान्ताःऐउएओरूपाः पञ्चस्वराः पक्षिणः पक्षि-स्वरूपा यत्र ।) पारिभाषिकपक्षिपञ्चकद्वारात्रिकालबोधकप्रश्नग्रन्थः यथा, --“प्रणम्य श्रीमहादेबं सर्व्वशास्त्रविशारदम् ।भविष्यदर्थबोधाय पप्रच्छुर्म्मुनयो मुदा
तेषां वचनमाकर्ण्य निजगाद महेश्वरः ।त्रिकालज्ञानबोधार्थं पञ्चपक्षी प्रदर्श्यते
अनेन शास्त्रसारेण लोकैः कालत्रयं प्रति ।बलाबलानि दृश्यन्ते सर्व्वकार्य्येषु निश्चितः
आगतं प्रच्छकं दृष्ट्वा दैवज्ञः सावधानतः ।यद्यत् करोति कर्म्माणि तस्मात् सर्व्वं विचारयेत्
ऊर्द्ध्वावलोकने जीवस्त्वधोदृष्टौ तु मूलकम् ।समदृष्टौ भवेद्ध्वातुरेताश्चिन्ताप्रभेदतः
”तत्र ।“ललाटे पुत्त्रचिन्ता स्यात् कामचिन्ता कण्ठके ।बाहुभ्यां वस्तुचिन्ता व्याधिचिन्ता तथोदरे
कटौ विच्छेदचिन्ता शत्रुचिन्ता गुह्यके ।दुःखचिन्ता भवेत् पादे एते चिन्ताप्रभेदकाः
*
अपरञ्च ।“अक्षरं पक्षिभुक्तञ्च दिग्दैवतदिनानि ।कालं वर्णं बलं मित्रं धातुमूलादिकं क्रमात्
आरूढप्रश्नलग्नेभ्यः प्रथमाक्षरतोऽपि वा ।प्रच्छकस्य वचः शुत्वा ग्र्याह्यो वर्णः स्वरस्तथा
*
स्वरेण कल्पयेदवारं वारात् पक्षी प्रजायते ।पक्षिणो जायते वाक्यं वाक्याच्च फलसम्भवः
*
“अकारादिओकारान्ताः स्वराः पञ्च प्रकीर्क्षिताः ।भुक्त्यर्थं कल्पयेद्रूपं स्वरास्ते पक्षिरूपिणः
अकारः श्येन आख्यात इकारः पिङ्गलस्तथा ।उकारो वायसश्चैव एकारस्ताम्रशेखरः ।ओकारो नीलकण्ठश्च स्वरास्ते पक्षिसंज्ञकाः
अकारः पूर्व्वदिग्भागे इकारश्चैव दक्षिणे ।उकारः पश्चिमे ज्ञेय एकारश्चोत्तरे तथा
शेषस्थानेषु सर्व्वेषु ओकारस्तु प्रकीर्त्तितः ।शकुनानां क्रियागत्या द्यूते युद्धे जयाजयौ
प्राक्श्येनः पिङ्गलोयाम्ये पश्चिमे काक उच्यते ।उत्तरे ताम्रचूडश्च कलापी मध्यगः स्मृतः
ङञणाक्षरकैर्हीनान् ककारादींस्तु विन्यसेत् ।अकारादिषु हान्तांस्तानेकैकं षट् परिक्रमात्
अस्वरे कछडा वर्णा धभवाश्च भवन्ति हि ।खजढा नमशा वर्णा इकारे परिकीर्त्तिताः ।गझताः पयषा वर्णा उस्वरे स्युर्यथाक्रमम्
घटथाः फरसा एते वर्णा एस्वरमात्रगाः ।चठदा वलहा वर्णा ओस्वरे परिकीर्त्तिताः
*
प्रथमे रविभौमौ द्वितीये चन्द्रचन्द्रजौ ।तृतीये जीववारश्च चतुर्थे भृगुवासरः
पञ्चमे मन्दवारश्च पक्षिणां क्रमशो लिखेत् ।नन्दा भद्रा जया रिक्ता पूर्णा तिथयः क्रमात्
अकारे मेषसिंहालिः इः कन्यायुग्मकर्क्कर्टाः ।उकारे चापमीनौ एकारे तुलावृषौ
ओकारे मृगकुम्भौ एवं राशिञ्च संलिखेत् ।स्वराधः स्थापयेत् खेटान् राशेर्योयस्य नायकः
अकारे सप्त ऋक्षाणि रेवत्यादिक्रमेण ।पञ्च पञ्च इकारादावेवमृक्षं स्वरोदये
*
प्रथमे चाश्विनी पूर्व्वं पञ्चनक्षत्रमुच्यते ।अतः क्रमात् द्बिषट्चैव पञ्च पञ्च तारकाः
*स्वराणाञ्च क्रमेणैव देवताः परिकीर्त्तिताः ।ईश्वरः पवनश्चैव इन्द्राकाशः सदाशिवः
*
प्राच्यां पृथ्वी गुरुश्चैव याम्यां शुक्रो जलं तथा ।अङ्गारकः पश्चिमेऽग्निर्बुधो वायुस्तथोत्तरे
सूर्य्यपुत्त्रस्तथाकाशे ऊर्द्ध्वमेवं लिखेत्ततः ।क्षितौ ब्रह्मा जले विष्णुस्तथा रुद्रो हुताशने
ईश्वरः पवने चैव तथाकाशे सदाशिवः ।भूतो मयूरः कुब्जश्च कुक्कुटो वर्त्तमानकः
बलिभुक्श्येनकौ ख्यातौ भविष्यन्तौ सुनिश्चितम् ।श्येनो हिरण्यवर्णश्च पिङ्गलः शुक्लवर्णकः
काको रक्तोऽसितश्चित्रः कुक्कुटः श्यामलः शिखी ।काको बलीयान् सर्व्वेभ्यस्तस्मात् श्येनो हिदुर्ब्बलः
कुक्कुटो दुर्ब्बलस्ताभ्यां पिङ्गलस्तेभ्य ऊनकः ।सर्व्वेभ्यो दुर्ब्बलः पक्षी नीलकण्ठो संशयः
बली मयूरात् कुब्जस्तु ताम्रचूडस्तयोर्ब्बली ।एतेभ्यो बलवान् श्येनश्चतुर्णां वायसो बली
*
मित्रं मयूरः श्येनस्य मयूरस्य पिङ्गलः ।ताम्रचूडस्य सुहृदौ मयूरपिङ्गलौ तथा
वायसस्यापि मित्रं स्यात् शिखी भवति सर्व्वदा ।सुहृदौ पिङ्गलश्येनौ मयूरारुणशेखरौ
*
काककुक्कुटश्येनाश्च पिङ्गलस्य विद्विषः ।मयूरस्य रिपू नित्यं सर्व्वदा श्येनवायसौ
भवतः श्येनकाकौ द्बौ ताम्रचूडस्य विद्बिषौ ।काकस्य शत्रवो नित्यं पिङ्गलश्येनकुक्कुटाः
*
ऊर्द्ध्वदृष्टिर्भवेत् जीवो ह्यधोदृष्टिस्तु मूलकम् ।समदृष्टिर्भवेद्धातुरेते चिन्ताप्रभेदकाः
*
श्येनो मूलं तथा कुब्जो जीवो धातुश्च वायसः ।कुक्कुटो मूलजीवौ मूलधातू शिखण्ड्यपि
*
श्येनो नरो बधूः कुब्जः पुरुषो वायसस्तथा ।कुक्कुटः स्त्री पुमांश्चैव शिखी नपुंसकस्तथा
*
श्येनकुब्जौ द्विजश्रेष्ठौ महीपालस्तु वायसः ।ताम्रचूडो वणिक् शूद्रो नीलकण्ठस्तथान्त्यजः
*
चतुष्पात् पिङ्गलो ज्ञेयो द्बिपदौ श्येनवायसौ ।ताम्रचूडो नखी शृङ्गी शिखण्डी पक्षिजीवकः
*
श्येनो मुखं कण्ठबाहू कुब्जो वक्षस्तु वायसः ।कुक्कुटः पृष्ठभागः स्यात् शिखी पादयुगं क्रमात्
*श्येनो भूम्यां धनं ज्ञेयं पिङ्गलो जलपङ्कयुक् ।वायसस्तृणसङ्घाते कुक्कुटो भस्मनावृतम्
श्येनः शिखी गृहानर्थं बन्धुस्थानेषु निश्चितम् ।स्वग्रामे श्येनकुब्जौ तु वायसो बन्धुमाप्नुयात्
कुक्कुटः परदेशे परग्रामे तथा शिखी ।कुब्जस्तु दशहस्ते त्वर्द्धक्रोशे तु कुक्कुटः
द्विक्रोशे तु तथा काकः श्येनः क्रोशे तु पूर्व्वतः ।मयूरो योजने चेति तथैवं दूरनिश्चयः
*
भुक्तौ मासो गमने पक्षोराज्ये दिनानि त्वयनन्तु सुप्ते ।मृते वर्षं शकुनस्य चर्य्याकालप्रमाणं मुनयो वदन्ति
शुक्रे चन्द्रे गुल्मवल्ली लताकन्दौ बुधे तथा ।पत्रं गुरौ फलं सूर्य्ये मूलञ्च रविजे कुजे
*
शुक्रे चन्द्रे भवेद्रौप्यं बुधे स्वर्णमुदाहृतम् ।गुरौ रत्नयुतं हेम सूर्य्ये मौक्तिकमेव
भौमे ताम्रं शनौ लौहं राहावस्थीनि कीर्त्तयेत् ।एतेषां धातुभेदञ्च वाराणामुदयक्रमात्
*
शुक्रे चन्द्रे जलाधारो देवतावसतिर्गुरौ ।रवौ चतुष्पदस्थानमिष्टकानिलयो बुधे
दग्धस्थानं कुजे प्रोक्तं शनौ राहौ वाह्यभूः ।अमीभिर्हिवुके स्थाने नष्टभूमिं विलोकयेत्
*
रवौ भौमे भेरुण्डो मयूरो वायसः शनौ ।पादायुधः शिखी शुक्रे काक कुब्जौ गुरौ तथा
कुब्जकुक्कुटाविन्दुज्ञौ क्रमोऽयं शुक्लकृष्णयोः ।यस्य वारस्य यः पक्षी तदादिं गणयेद्बुधः
दिनपक्षी कार्य्यरूपी प्रश्नपक्षी फलप्रदः ।दिनेषु शुक्लपक्षे यत् कृष्णे रात्रिषु तत्तथा
कृष्णे दिनेषु यद्यत्तत् शुक्ले रात्रिषु योजयेत् ।बालः कुमारस्तरुणो वृद्धो मृत इति क्रमात्
घटिका षट् षडेवं हि फलमेषामुदीरितम् ।किञ्चिल्लाभकरो बालः कुमारस्त्वर्द्धलाभदः
तरुणो राज्यदो वृद्धो हानिदो मृत्युदो मृतः ।भोजनं गमनं राज्यं निद्रा मरणमेव
एकान्तरे भवेत् कृष्णे शुक्ले स्यात् क्रमशो विदुः ।पक्षिणां क्रमशो ज्ञात्वा फलं ब्रूयात् यथा तथा
गणयेत् पञ्चपक्ष्यादौ जातभूतगणाद्यपि
”शुक्लपक्षे
*
ततः कृष्णपक्षे ।“भोजनं मरणञ्चैव निद्रा राज्यं तथैव ।गमनं पञ्चपक्षाणां कृष्णपक्षे क्रमो दिवा
*
राज्यं सुभिक्ष्यमक्षोभं नष्टलाभं सदा जयम् ।रोगमुक्तं महालाभं पक्षिणां भुक्तिलक्षणम्
*
अनायासेन दृष्टिः स्याददृष्टधनसञ्चयः ।भूलाभो रोगनाशश्च यात्रासिद्ध्वी रणे जयः
दूरादागमनं योगः प्रयाणे पक्षिलक्षणम् ।राज्योदये यदि प्रश्नो लाभार्थे स्वल्पलाभदः
रुजानां चिररोगः स्यात् याने हानिः क्षयो रणे ।पुरग्रामप्रवेशञ्च गमनं कलहं तथा ।मनश्चञ्चलमारोग्यं गमनेषु विचारयेत्
* ।राज्यलाभो जयं सौख्यमक्षोभं रोगनाशनम् ।सुभिक्षं बहुवृष्टिश्च पक्षिणां राज्यलक्षणम्
*
यात्राहानिरनावृष्टिः कार्य्यहानिरदर्शनम् ।व्याधिश्च दीर्घरोगश्च पक्षिणां सुप्तिलक्षणम्
अपमृत्युभयञ्चैव सर्व्वकार्य्यविनाशनम् ।एतदेव फलं ब्रूयात् पक्षिणां मृत्युलक्षणम्
*
श्येने भोक्तरि काकस्तु पान्थो राजा भुजङ्गभुक् ।स्वप्नावस्थां गतः कुब्जः परासुस्ताम्रशेखरः
*
काके भोक्तरि केकी तु पान्थः स्यात् पिङ्गलो नृपः ।ताम्रचूडस्तथा स्वापी श्येनः कालवशं गतः
*
मयूरे भोक्तरि तथा कुब्जो यात्रावशं गतः ।महीपः कुक्कुटः श्येनः स्वापी काको वशं गतः
कुब्जे भोक्तरि पान्थस्तु कुक्कुटः श्येनको नृपः ।काको निद्रावशं यातो मयूरो मरणं गतः
*
कुक्कुटे भोक्तरि श्येनः पान्थो राजा तु वायसः ।शिखी निद्रावशं यातः पिङ्गलः कालमाप्नुयात्
”इति कृष्णपक्षस्य दिवाक्रमः शुक्लपक्षस्य रात्रिक्रम-श्च
स्वरोऽपि यथा अनुमोदिते उन्मोदितेन ।ओमित्येवायुः इत्येव जुहो एवमुक्तोऽसि
*
“श्येने भोक्तरि कुब्जः स्यात् पान्थः काकोमही-पतिः ।ताम्रचूडो निद्रितश्च शिखी कालवशं गतः
*
मयूरे भोक्तरि श्येनः पान्थः कुब्जोमहीपतिः ।स्वप्नावस्थां गतः काकस्ताम्रचूडो मृतस्तथा
*
कुक्कुटे भोक्तरि शिखी सदा गमनमाप्नुयात् ।श्येनो महीपतिः कुब्जः स्वापी काको मृतिं गतः
*
काके भोक्तरि यात्रायां ताम्रचूडः शिखी नृपः ।निद्रायां रमते श्येनः कुब्जः कालवशं गतः
*
कुब्जे भोक्तरि यात्रायां वायसः कुक्कुटो नृपः ।नीलकण्ठस्तथा स्वापी श्येनो मृत्युवशं गतः
”इति शुक्लपक्षस्य दिवाक्रमः कृष्णपक्षस्य रात्रि-क्रमश्च
*
स्वरोऽपि यथा अहिपुरेभोः ।गोकरिपुरे एकोनरिपुः उपेन्द्रो हरिः ।विष्णुस्ते लोकः
*
“इत्युक्तं पक्षिणां कार्य्यं लाभालाभं शुभाशुभम् ।येन विज्ञानमात्रेण त्रिकालज्ञो भवेन्नरः
तावद्गर्ज्जन्ति शास्त्राणि शकुनानामनेकशः ।यावन्न श्रूयते पक्षिशकुनं शङ्करोदितम्
”इति श्रीमहादेवविरचितं पञ्चपक्षिशाकुनंसमाप्तम्