| YouTube Channel

पञ्चपक्षिन् (paJcapakSin)

 
Monier Williams Cologne
English
पञ्च—पक्षिन्
m.
or
n.
(?),
N.
of a small wk. containing auguries ascribed to Śiva (in which the 5 vowels अ, इ, उ, ए, are connected with 5 birds),
L.
वाचस्पत्यम्
Sanskrit
पञ्चपक्षिन्
पु०
शिवोक्ते पक्षिपञ्चकाधिकारेण प्रश्नादिज्ञा-नार्थे शाकुनशास्त्रभेदे “अक्षरं पक्षिभूतञ्च दिगदैवत-दिनानि कालं वर्णं बलं मित्रं धातुलिङ्गादिकंक्रमात् प्रश्नादिजातिवर्णञ्च देहसङ्कल्पनादिभिः ।चिन्तितान्यपि सर्वाणि वक्ष्यन्ते वर्णकौ क्रमात् शकु-नस्य क्रमागत्या द्यूते युद्धे जयादिषु आरूढपश्न-लग्नेभ्यः प्रथमाचरतोऽपि वा अकारादिस्वराणाञ्चपञ्चानाञ्च विचारयेत् अस्य नामाक्षरस्यांदौ स्वरारूढंसमुत्सृजेत् प्रच्छकस्य वचः श्रुत्वा ग्राह्योवर्णः स्वर-स्तथा स्वरेण कल्पयेद्वारं वारात् पक्षी प्रजायते ।पक्षिणो जायते वाक्यं वाक्याच्च फलसम्भवः ।अकाराद्या ओकारान्ताः स्वराः पञ्च प्रकीर्त्तिताः ।भुक्त्यर्थं कल्पयेद्रूपं स्वरास्ते पक्षिरूपिणः अकारःश्येन आख्यात इकारः पिङ्गलस्तथा उकारंवायसश्चैव एकारस्ताम्रशेखरः ओकारो नीलकण्ठश्चस्वरास्ते पक्षिसंज्ञकाः अकारः पूर्वदिग्भागे इका-रश्चैव दक्षिणे उकारः पश्चिमे ज्ञेय एकारश्चोत्तरेतथा शेषस्थानेषु सर्वेषु ओकारः परिकीर्त्तितः प्राक्श्येनः, पिङ्गलो याम्ये, पश्चिमे काक उच्यते उत्तरेताम्रचूडश्च, कलापी मध्यगो मतः” इत्यादि अस्य फला-दिकं तत्र दृश्यम् विस्तरभयान्नोक्तम्